Showing posts with label Essays in sanskrit. Show all posts
Showing posts with label Essays in sanskrit. Show all posts

Friday, April 13, 2018

Kanya dhanam -Sanskrit essay

गुरुवासरः (01-03-18) चतुर्दशी💝
✍प्रस्तावविषयः-- कन्यादानम्🧚🏻‍♀

कन्यादानं विवाहस्य अपर नामम | कन्यायाः मातपितरौ वरं महाविष्णु स्वरूपं भाव्या (मत्वा?) स्वयं पुत्रिकां दानं कुर्वन्तौ | एतत कन्यादानं विवाह कार्यक्रमे मुख्य प्रसङ्गा अस्ति | अतः  विवाहस्य अपर नामं कन्यादानम | सर्व दानेषु कन्यादानं अत्युत्तमम इति मन्यते | स्व पुत्रिकां यः कश्चित् अन्य कुटुम्बे  त्यजनं  बहु कष्टम भवति मातपितरौ | 'कन्या' काचित अचेतनं वास्तु नास्ति न जीव जंतु | परन्तु  जनाः  किमर्धं  'कन्यादानं' इति शब्दम प्रयोगम कुर्वन्ति ? एतत चर्चा यत्र तत्र यदा कदपि कारणीयम | अन्यानि दानानि इव कन्यादानान्तराम 'न मम' इति वाक्यं न उच्यते | दानान्तरमपि स्व पुत्रिका स्वपुत्रिका हि वर्तते खलु !

--पुरुषोत्तमः शिष्ट्ला

Wednesday, April 11, 2018

chankya's filters - Sanskrit essay

Courtesy:Smt.K.Varalakshmi

एकदा चाणक्यमुपेत्य कश्चिदवोचत् " तव मित्रमधिकृत्य तत्रैवं श्रुतम्..तत्ते श्रावयिष्यामि... . "। चाणक्य उवाच " तिष्ठ क्षणम्,  तत: प्राक् ते त्रितितउपरीक्षां यच्छामि।".... "त्रितितउपरीक्षाम्!!..?  "। "एवम्.." चाणक्य उवाच " मम मित्रमधिकृत्य त्वया किं श्रुतमिति कथनात् पूर्वं तितउना त्रिवारं भवद्विवक्षितस्य शोधनं युक्तं भवेत्... तस्मादियं त्रितितउपरीक्षा... " । "सत्येन तितउना प्रथमं शोधनम् । मन्मित्रविषये भवता श्रुतं सत्यमेवेति निश्चयोस्ति वा? ".... "नास्ति निश्चय: " स उक्तवान् । " अहमश्रौषं,  तावदेव"  ।  "अर्थात्,  भवान् यदं वक्तुमिच्छति तत् सत्यं वा असत्यं वेति नास्ति तव निश्चय इति".. "आस्ताम्,  द्वितीयेन शिवेन तितउना पुनीमहे,  किं मन्मित्रमधिकृत्य यच्छ्रुतं सत् शिवं वा अशिवं वा? " " न न,  अशिवमेव तत्"... स ऊचे । " एवन्तर्हि,  मम मित्रमधिकृत्य भवान् अशिवमेव किञ्चिद् वक्तुमिच्छति,  तच्च सत्यं वा असत्यं वेति नास्ति च ते निश्चय: " । "इतोपि तृतीयं तितउ विद्यते,  फलम् । किं भवता मन्मित्रविषये यद् विवक्षितं तेन किमपि मे प्रयोजनमस्ति? " "नैव" " तर्हि साधु" चाणक्य: परीक्षामुपसंहरन् उवाच " यदि भवतो विवक्षितं न सत्यं न शिवं नापि प्रयोजनवत् तर्हि किमर्थं वै तन्मां कथयसि?!! "...                            सत्येन पूतं च शिवेन पूतं          प्रयोजनेनापि यदीह पूतम् ।                 तदेव वाच्यं तदु हैव नूनं            श्रोतव्यमेषा चणकात्मजोक्ति:।।

Tuesday, April 3, 2018

Mango tree -Sanskrit essay

🌿रविवासरः (11-03-18) नवमी🌴
✍प्रस्तावविषयः-- आम्रवृक्षः🌳       

*अम् गत्यादिषु*  धातोः अम्यत इत्याम्रः | *अमितम्योर्दीर्घश्च* इत्यनेन रक् आदिदीर्घे च जाते सिद्ध्यति *आम्रशब्दः वृक्षविशेषवाचकः |* यद्यपि वृक्षो$यमविदितो नैव केनापि |कृत्स्नं जगदस्य महत्वमुपयोगित्वञ्च याथार्थ्येन विजानाति प्रायः  सर्वत्रोपस्थितत्त्वाद्  | भारते विशेषत लोकप्रियः पूज्यश्च मान्यश्च वृक्षः तत्फलं च बहुमतमिति| भारतः पञ्चाशदधिकेष्वन्यदेशेष्वाम्रफलनिर्यातनं विदधाति |वृक्षा एते प्रायेणोत्तुङ्गाः विस्तृतशाखावन्तः सघनाश्च दृश्यन्ते | भारतदेशराष्ट्रियफलमाम्रमेव | फलेष्वनुपमेयत्वात् फलानां राजा आम्रः ,यस्य प्रमुखो गृहो  भारत एव | आम्रवृक्षाः प्रायः ऊष्णक्षेत्रेष्वाधिक्येन दृग्गोचराः | नैकप्रजातिगा  इमे स्वरूपवर्णास्वादगन्धादिवशाद्  भवन्ति |  लौकिकभाषायां नामानि.. *यथा* _  श्वेतकः(सफेदा)( ,दशहरी,तोतापरी,मालदा,लंगडा,अलफांसो,सिन्दूरी बादामी,हापुसेत्यादि)आम्रवृक्षस्य मूलत्वग्पेषिपत्रफलादिरूपपञ्चाङ्गमायुर्वेददृशा लाभकरमस्माकमारोग्यतायै |बालतरुणपक्वभेदादस्य फलानां गुणाः पृथक्पृथक्भावयन्ते | *बालाम्रोपयोगेन* वायुरक्तपित्तवृद्धिर्भवति ,कषायत्वमम्लत्वं सुगन्धित्वञ्च प्राप्यते |कफामयनाशनपुरःसररक्तवर्धनञ्च करोति |
*मध्याम्रफलं* (तरुणाम्रं) पित्तवृद्धिकरं तथा *पक्वाम्रफल*ं शारीरं वर्णं दीपयति ,मांसं शुक्रं बलञ्च विस्तारयति वातोपशमनं  विदधाति | हृद्यगुरुत्वानुलोमत्वादिगुणयुतं पूर्णतः त्रिदोषशमनकारकं, स्वादु,पुष्टिजनकमधिकधातुप्रचयकारकं,तृष्णाश्रमनाशकञ्चानुमतम् | *मधुना संयोज्य* क्षयरोगप्लीहवातश्लेष्मरोगाणां निदानाय कल्पते | 
एवञ्चान्यपदार्थैः साकमाम्रफलस्योपादेयत्वं चिकित्साशास्त्रेष्वभिहितम् | आम्रवृक्षस्य पत्रपेष्यस्थिनामपि गुणबाहुल्यम् पृथक्त्वेन च बोद्ध्यं |
 वस्तुतः आम्रः फलराडिति प्रसिद्धमेव ;जनाः लुब्धचेतसः सन्तः पक्वाम्रचोषणं कुर्वन्ति प्रपाणकञ्च निर्मीय खादन्ति पिबन्ति च| *केचन कोशस्थ पर्यायशब्दाः_* चूतः , रसालः , अति-
सौरभश्चेत् सहकारः ,  कामशरः, 
कामवल्लभः ,कामाङ्गः, कीरेष्टः , माधवद्रुमः,
 भृङ्गाभीष्टः , सीधुरसः , मधूली ,
कोकिलोत्सवः, वसन्तदूतः, अम्लफलः ,
मोदाख्यः,मन्मथालयः,  मध्वावासः,
सुमदनः, पिकरागः, नृपप्रियः, प्रि-
याम्बुः,कोकिलावासः,  
माकन्दः, षट्पदातिथिः, मधुव्रतः ,
वसन्तद्रुः, पिकप्रियः, स्त्रीप्रियः , गन्धबन्धुः,अलिप्रियः,
मदिरासखः, इत्यादयः| 
आम्रवृक्षः प्रभूतगुणयुतः तद्वर्णने  विस्तरभयादलमेतावता | 

      *भोलानाथद्विवेदी*

Monday, March 19, 2018

Shiva Aradhana - Sanskrit Essay

🙏
✍प्रस्तावविषयः-- शिवाराधनम्🌺
शिवः आशुतोष इति कारणेन तस्याराधनं सुलभमिति कथ्यते। तस्य पञ्चाक्षरी षडक्षरी चेति मन्त्रौ विहितौ याभ्यां भोगश्च मोक्षश्चेति फलद्वयमुक्तम्। महामृत्युञ्जय-जपनेन रोगमुक्तिः, मृत्युभयनिवारणं च साध्येते। अभिषेकप्रियो हरः इति सुप्रसिद्धम्। 
शिवपूजा सार्ववर्णिकास्ति। अत्र सर्वे वर्णाः, यथा ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-विलोम-सङ्करादयः स्वाधिकारामनुसृत्य महादेवं पूजयितुं शक्नुवन्ति। स्त्रियः अपि पौराणिकमन्त्रैः शिवमाराधयितुं शक्नुवन्ति। अनुपनीताः पौराणिकमन्त्रैः अथवा मूलमन्त्रेण पूजयन्ति। वेदज्ञाः द्विजाः वैदिकमार्गेण आराधयन्ति। शिवोपासकः दक्षिणदिशायाम् उत्तराभिमुखो भूत्वा उपविशेत्। शिवोपासनायां भस्म-त्रिपुण्ड्रस्य, शिवनाम्नः, रुद्राक्षस्य च अत्यन्तं महत्त्वमस्ति। यजुर्वेदोक्त-रुद्राष्टाध्याय्याः पाठोऽपि आराधने विशेषत्वं भजते। तस्यानुष्ठानं पाठरूपेण, अभिषेकरूपेण, हवनरूपेण च भवति।
शिवाराधनं द्विधा क्रियते-- सगुण-साकार-मूर्तरूपे, निर्गुण-निराकारामूर्त-रूपे च। भक्तः स्वस्य भावनामाश्रित्य साकारं शिवम्- अर्धनारीश्वर-महामृत्युञ्जय-पञ्चवक्त्र-नटराजादि-रूपेषु पूजयति। शर्वः भवः रुद्रः उग्रः भीमः पशुपतिः ईशानः महादेव इति अष्टमूर्ति-रूपेण यथाक्रमं पृथिव्यां जले तेजसि वायौ आकाशे क्षेत्रज्ञे सूर्ये चन्द्रे चेत्येतेषु अधिष्ठितानां मूर्तीनां पूजनविधानमपि दृश्यते लोके। ततश्च सद्योजात-वामदेवाघोर-तत्पुरुशेशानेति पञ्चमूर्तिपूजनमपि शास्त्रेषूक्तम्।
निर्गुणोपासनं तु तस्य लिङ्गरूपेण दृश्यते यल्लोके प्रसिद्धम्। 'लीनमर्थं गमयतीति लिङ्गम्'। मुमुक्षुभिः लिङ्गाराधनं क्रियते। उपनीतानां साधकानां लिङ्गस्य प्रणवेनाराधनमुक्तम्। बाणलिङ्गः नर्मदेश्वरलिङ्गः वा  शालग्रामशिलेव स्वप्रतिष्ठितः इति मन्यन्ते। पुनः तस्य प्रतिष्ठापनं नापेक्ष्यते। मन्दिरादिषु तु पूर्वप्रतिष्ठितलिङ्गं, स्वयम्भूलिङ्गं, ज्योतिर्लिङ्गादीनां पूजनं विधीयते। पार्थिवलिङ्ग-पारदलिङ्ग-स्फटिकलिङ्ग-रत्ननिर्मितलिङ्ग-स्वर्णादिनिर्मितधातुमय-लिङ्गानामपि पूजनेन इष्टपूर्तिः कथिता। लिङ्गं संस्थाप्य षोडशोपचारैः यथाशक्ति पूजनेन शिवलोकप्राप्तिः उक्ता। 
शिवलिङ्गस्य दर्शनेन शान्तिः प्राप्यते। नामजपेन, सूक्त-स्तोत्रपाठेन, मानसपूजया, शिवचरित्रचिन्तनेन, गुण-नाम-लीलादि-कीर्तनेन, शिवपुराणादि-ग्रन्थानां स्वाध्यायेन, श्रवण-मनन-निधिध्यायसनेन, व्रतोपासनेन वा शिवाराधनं विधीयते। इत्यलं विस्तरेण॥

(गीताप्रेस्-गोरखपुरस्य ६७तमस्य कल्याणाङ्कस्य शिवोपासनाङ्कस्य लेखान् आधृत्य लिखितोऽयं लेखः॥)
--उषाराणी सङ्का

Thursday, March 15, 2018

Ratha saptami -Sanskrit essay

Courtesy: Smt balaa chiravoori 
*स्वर्वाणीप्रकाशः*
 (वाट्साप्प् सदः)
🌞बुधवासरः (24-01-18) सप्तमी☀
✍प्रस्तावविषयः-- रथसप्तमी🌺

 *यत्र यत्र कृतं पापं मया सप्तसु जन्मसु।* 
 *तन्मे रोगं च शोकं च भास्करी हन्तु सप्तमी।।* 
 *जननी सर्वभूतानां सप्तमी सप्तसप्तिके।* 
 *सप्तम्यामुदिते देवि नमस्ते रविमण्डले।।*
        ---पद्मपुराणम्।

रथसप्तमीपर्वणि अनेन श्लोकेन सूर्यमूर्तिं ध्यात्वा यः उषःकाले स्नानं करोति तस्य सर्वपापक्षयो भवति। सप्तमीतथिः अतिपुण्यतरा इति पुराणैः कीर्तिता। तत्रापि माघमाशुक्लपक्षसप्तमी अत्यन्त विशिष्टा भवति। इमं सप्तमीतिथिः कोटिसप्तमीसमाना इति सूर्यग्रहणतुल्या इत्यपि पद्मपुराणवचनम्। 

अस्मिन् दिने बदरीफलसहितार्कपत्रान् शिरसि, स्कन्धयोः, संस्थाप्य स्नानंमाचरणीयम्। 
अर्कपत्रं, यवाः, पुष्पं, बदरीफलम्, तणुडुलम्, ससिन्दूरयज्ञोपवीतम् च अर्कपत्रे अथ वा ताम्रपित्रे वा निधाय भानवे अर्घ्यं समर्पणीयम्। तेन कर्मणा सप्तजन्मार्जितेन पापेन विमुक्तो भवति। 
अस्यां रथसप्तम्यां तण्डुलं आतपीकृत्य तद् हविष्यन्नमेव भोक्तव्यम्। उलूखलेन भर्जित पदार्थान्, आर्द्रकमिश्रितशाकानि, कोरदूषकपत्रैः विरचितपदार्थान्, कदलीफलानि, अजाघृतमपि च वर्जनीयाः। उष्णोदकस्नानं न समाचरेत्। अल्पबीजधान्यानि न ग्रहणीयानि। धर्मचिन्तनपरो भूत्वा रथसप्तमी व्रतं करणीयम्। 

अनेन प्रकारेण यः नियमानि पालितो भवति सः भास्करस्य प्रसादात् सम्पत्समृद्धिः आरोग्यं च लब्ध्वा सुखमाप्नोति। माघशुक्लसप्तमी " जया" इति अपरानाम्ना व्यवह्रियते।  यथा रविवासरे आगते सति तस्याः नाम "महाजया" इति नाम्ना प्रसिद्धा भवति। अस्मिन् पर्वणि  दानादिकर्मणा अक्षय्यपुण्यफलं सम्प्राप्स्यामः इति एतत्सर्वं वृत्तान्तं पद्मपुराणे अभिवर्ण्यते। 

         🙏🌷बाला...✍

Wednesday, March 7, 2018

Helping others -Sanskrit essay

Courtesy: Sri.Acharya aravind pandey 
हरि ॐ तत्सत्! सुप्रभातम्।
भवतु सदा मङ्गलम्।
नमस्सर्वेभ्यः ।🙏

सर्वेषां कृते मङ्गलकामना क्रियते मया, यद्भवन्तः सर्वे जनाः सानन्दं भगवत्प्रीतये पुरुषार्थं परमार्थं च कुर्वन्तः जीवनं जीवन्तु। अस्मिन्सन्दर्भे श्रीरामचरितमानसे उत्तरकाण्डे वर्णितम्-

"परहित सरिस धर्म नहिं भाई।
पर पीड़ा सम नहिं अधमाई।।"

तथैव

"अष्टादसपुराणेषु  व्यासस्य वचनद्वयम्।
परोपकाराय पुण्याय पापाय परपीडनम्।।"

अस्मिँल्लोके परोपकारिणः कदापि दुःखिनो न भवन्ति। ते भगवत्कृपया सर्वविधसुसम्पन्नाः चिरजीविनो भूत्वा सानन्दं लोककल्याणं कुर्वन्तो विचरन्ति। सत्यमेवोक्तं श्रीरामचरितमानसे अरण्यकाण्डे-

परहित बस जिनके मन माहीं।
तिन्ह कहुँ जग दुर्लभ कछु नाहीं।।

अत एव स्व-सामर्थ्यानुसारेण निष्कामभावेन प्रीतिपूर्वकं परोपकारं कुर्यात्सदैव।

।। सत्यसनातनधर्मो विजयतेतराम् ।।

Swami vivekanand -Sanskrit essay

🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸



विश्वगुरोः भारतस्य महान् प्रतीकं स्वामी विवेकानन्दः|रवीन्द्रनाथ: टैगोर उक्तवान्, ''यदि भवान् भारतं ज्ञातुम् इच्छति तदा स्वामिनं विवेकानन्दं पठतु।

स्वामिविवेकानन्दस्य जन्म १८६३तमे वत्सरे जनवरीमासस्य द्वादशदिनाङ्के कोलकातानगरे संभूतः | दत्तोपाह्वविश्वनाथस्य भुवनेश्वरीदेव्याः च पुत्ररूपेण प्रादुर्भूतस्य तस्य जन्मनाम नरेन्द्र इति | बाल्यावस्थायामेव सः योगादिशास्त्रेषु तथा धर्मग्रन्थादिषु  अभ्यस्तः जातः|
नरेन्द्रः विश्वविद्यालये १८८४तमे वत्सरे अध्ययनं समाप्य ब्रह्मसमाजनामकस्य संघटनस्य संपर्के आगतः ।

परमात्मनः साक्षात्कारे अत्युत्कटा जिज्ञासा नरेन्द्रं श्रीरामकृष्णपरमहंसस्य समीपे नीतवती | परतत्वस्य विषये रामकृष्णस्य निजानुभवं परिशील्य तं स्वगुरुरिति स्वीकृतवान् | रामकृष्णस्य मार्गदर्शने नरेन्द्रः अध्यात्मविद्याध्ययनं योगध्यानाभ्यसनं च कृतवान् | १८८५तमे वत्सरे रामकृष्णस्य देहात्यागानन्तरं नरेन्द्रः रामकृष्णमठं संस्थापितवान् | सः पारिव्राजकव्रतं स्वीकृत्य स्वामी विवेकानन्दः इति प्रख्यातः |

तत्पश्चात् परिव्राजकः विवेकानन्दः भारतदेशस्य बहुषु प्रदेशेषु संचरन् समाजे विविधस्तरस्थैः जनैः सह मिलित्वा प्रत्यक्षानुभवं प्राप्तवान् | १८९३ तमे वत्सरे अमेरिकादेशं प्राप्य शिकागोनगरसंभूते सर्वधर्मसंमेलने "हे मम सहोदराः तथा सहोदर्यः" इति सभिकान् संबोधयन् भाषणं दत्तवान् | ततः तस्य कीर्तिः न केवलम् अमेरिकादेशे अपि च सर्वे लोके जि
जाता | तदनन्तरं विवेकानन्दः इङ्ग्लण्डदेशेऽपि परिभ्रम्य जनेभ्यः नैकानि भाषणानि श्रावितवान् | अमेरिकायां तथा युरोपदेशेषु अनेके जनाः विवेकानन्दस्य वर्चसा पारमार्थिकविचारेण च आकर्षिताः | तेषु जनेषु निकोला तेस्ला, मेरी लुइस, भगिनी निवेदिता, डेट्रायिट्नगरवासिनी भगिनी क्रिस्तिना प्रसिद्धाः |
विवेकानन्दः भारतमागत्य दीनजनपराणि बहूनि कार्याणि कृतवान् | तेन अनेकानि पुस्तकानि अपि लिखितानि | 

१८९७ तमे वत्सरे सः रामकृष्णसमाजसेवासंस्थां स्थापितवान् | १९०० तमे वत्सरे विवेकानन्दः पुनः युरोपप्रदेशस्य तथा अमेरिकादेशस्य प्रवासं कृत्वा सनातनधर्मस्य महतीं प्रकाशितवान् |
अविरतकार्यात् परिश्रान्तस्य स्वामिनः विवेकानन्दस्य देहारोग्यं अवगतिरापन्नम् | १९०२ तमवत्सरस्य जुलैमासस्य चतुर्थदिने सः ध्यानसक्त एव दिवंगतः | 

 स्वामिनः विवेकानन्दस्य जीवनकथा भाषणमालिका ग्रन्थाः च अद्यापि जगति जनेभ्यः बहूपयोगिनः | तेन कठोपनिषदः उद्धृतम् अधस्तनवाक्यं सर्वेभ्यः अतीवस्फूर्तिदायकम् |
*उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत|*

Monday, March 5, 2018

Magha maasa -Sanskrit essay

Courtesy: Smt Balaa Chiravoori 
*माघमासः*

 *यो माघमास्युषसि सूर्यकरातिताम्रे* 
  *स्नानं सदा चरति बाह्यनदीतटाके।* 
 *उद्धृत्य सप्तपुरुषान् पितृमातृवंशे* 
  *स्वर्गं प्रयात्यमरदेहधरो नरोऽसौ।।*
           --पद्मपुराणम्।

 माघमासे यदा सूर्यकान्तिः अतिताम्रवर्णयुक्ता उषसि भवति यदा यः नरः नदीतटाकेषु नित्यं स्नाति तस्य पितृमातृवंशयौः सप्तपुरुषाः( सप्ततरान्) उद्धरन्ति। सः अमरदेहं धृत्वा स्वर्गं प्रयाति। 

दिलीपमहाराजः वशिष्ठाय नमस्कृत्य माघमासवैशिष्ट्यं कथयत्विति प्रार्थितवान्। तदा वशिष्ठमहर्षिः तस्य माहात्म्यं इत्थं अकथयत्। 

नीरान्नंच चैव वैशाखे तपः पूजा च कार्तिके।
जपहोमौ तथा दानं त्रयं माघे विशिष्यते।।

वैशाखमासे जलाशनात्, कार्तिके जपार्चनेन च पुण्यं प्राप्नुयामः। माघे जपहेमदानकर्मभिश्च माघे अधिकपुण्यं प्राप्स्यामः। 

माघमास्नानेन कृच्छ्रादिव्रतपुण्यफलं यद्भवति तत् सर्वं आयाति। स्नानजं फलं चतुर्विधा भवति यथा सपदे, प्रजायै, रतये आह्वानाय, कायशुद्धये च। 
माघे दानात् मुरारिः परितुष्यति। माघमासः सदा धर्ममूलं भवति। अधर्ममूलं निकृन्तति।इष्टवस्तुपरित्यगेन अस्मिन् मासि वाञ्छितफलमाप्नोति।  काम्यकर्मणा सर्वान् कामान् प्रयच्छति। निष्कामकर्मणा मोक्षद्वारं भवति।किं बहुना? माघस्नानात् परतरं पापनाशनं  किंचिदपि नास्ति।

            इति शम्।
          
               🙏🌷बाला...✍

Manasa pooja -Sanskrit essay

*मानसपूजाविधानम्*

नानाविकारभाजनस्य सृष्टेः मूलद्रव्याणि पञ्चभूतानि भवन्ति। तानि पञ्चभूतानि पञ्चेन्द्रियैः दृश्यमानाः भवन्ति।जिह्वया रसं, नासिकया गन्धं, श्रवणेन शब्दं तस्मिन् नादस्वरश्रुतिभेदान् , नयनेन रूपवर्णान् - एवं प्रकारेण एकैकेन इन्द्रियेण एकैकमनुभोक्तुं शक्नुमः। एतैः शब्दस्पर्शरूपरसगन्धैरेव बाह्यप्रपञ्चं ज्ञायते। एतेषु जिह्वा- कर्मेन्द्रियं ज्ञानेन्द्रियमपि च भवति। तेन रुचिग्रहणेन सह वक्तुमपि पारयामः। नेत्रं-वस्तुवर्णवैविध्यं, संख्या, परिमाणपि गृह्णाति। स्पर्शेन्द्रियेण वस्तुरूपं, परिमाणं, संख्यापि च जानीमः। एतानि शब्दस्पर्शादीनि पृथिव्यादिभूतान्याश्रयाणि भवन्ति। पृथिव्यां गन्धः, जले रसः, तेजसि रूपम्, वायौ स्पर्शा, आकाशे शब्दः -- अनेन पञ्चभूताश्रयाधिदेवताःसन्तः तेभ्यः पञ्चभूतेभ्यः शक्तिं प्रदास्यन्ति। ताः देवताः परमात्मनः अभिव्यक्तयः। अनेनैव परमात्मैव नानारूपगुणात्मकसृष्टिरिव अभिव्यकतो भवति।

इन्द्रियेषु एकैकेन्द्रियेण एकैकविधं सौख्यं नः लभ्यते।सुन्दररूपाणि दृश्यमानेन , मधुरसंगीतश्रवणेन , सुगन्धद्रव्याघ्राणेन ,स्वादिष्टकरपदार्थभक्षणेन -- इत्थं इन्द्रियपञ्चकेन सन्तोषमनुभवामः। वयं तथा सन्तोषसौख्यमनुभूयमाने काले एतानि पञ्चभूतानि , तैः गुणाः,  गुणग्राकानि इन्द्रियाणि  एतत्सर्वमपि परमेश्वरस्य अभिव्यक्तयः, समस्त सृष्टिरपि ईश्वरमयमिति स्मरणेमेव भवेत्।  अनेन पञ्चेन्द्रियैः सौख्यं कल्प्यामानं समस्तवस्तुजातं पुनः परमेश्वरायैव समर्पयेत्। एवं ईश्वरार्पित पदार्थं तस्य प्रसादमिव स्वीकृत्य पुनः वयं अनुभवेम। इत्थं पञ्चेन्द्रियसौख्यकारणभूतानि वस्तवः ईश्वरसमर्पणमेव पञ्चोपचाराण्यिति कथ्यन्ते।वयं इष्टदैवजपं कुर्वन्तःसन्तः मानसपूजा क्रियमाणे काले पञ्चोपचारान् कुर्मः। अस्माभिःपञ्च हस्ताङ्गुल्यःप्रयुज्य  पञ्चविधोपचाराणि कुर्मः।

पृथिव्यात्मने गन्धं समर्पयामि।
वायव्यात्मने धूपमाघ्रापयामि।
अग्न्यात्मने दीपं दर्शयामि।
आकाशात्मने पुष्पाणि समर्पयामि।
अमृतात्मने नैवेद्यं समर्पयामि।

इति कथयन् ज्ञानेन्द्रियपञ्चकं, तेषामनुभवस्य मूलभूतजातं सर्वमपि परमात्मने सभक्तिकतया समर्प्य पुनः प्रसादरूपेण स्वीक्रियते चेत् तानि द्रव्याणि, इन्द्रियाण्यपि पापकृत्येषु उपयुज्यानि न भवेयुः। तत्पश्चात् तानि परमार्थप्राप्तेः विनियोगः कृत्वा पुण्यं समर्जयामः।

इन्द्रियैः आनंदप्रदायकाः रूपरसगन्धादिसूक्ष्मगुणैः सह गृहारामवस्तुवाहनादि स्थूलपदार्न्थान्यपि नः सन्तोषं प्रयच्छन्ति। एतान्यपि ईश्वराय समर्प्य एव अनुभवेम। तथा अर्पणमेव षोडशोपचारमिति कथ्यते। तथैव संगीतनृत्यादि भोगानपि स्वामिने समर्प्यैव वयं अनुभवेम। तान्येव चतुष्षष्ट्युपचारानिति कथ्यन्ते। 

एषा उपचारपरम्परैव पूजाविधानमित्युच्यते। तर्हि ईश्वरपूजने एतादृशं आडम्बरमावश्यकं वा? मनसा ध्यानेनालं न वा? इति सन्देहःप्रायः समुत्पन्नो भवति। सत्यमेतत् किन्तु अस्मद्भ्यं सौख्यप्रदायकपदार्थान् सर्वानपि ईश्वरादेव जनिताः समस्तमीश्वरमयमिति भक्तः विश्वसिति। तस्मात् कारणादेव सौख्यकरपदार्थान् दात्रे स्वामिने भक्त्या निवेद्य , पुनः तान् स्वामिप्रसादरूपेण स्वीक्रियामः चेत् तस्मिन् कर्मणि कृतज्ञता, विनयः, विश्वासश्च दृग्गोचराः भवन्ति। भक्तः शुचिप्रयुक्त सत्पदार्थमेव ईश्वराय निवेदयति।अनिवेदितपदार्थः सः नानुभविष्यति। एतदर्चनाविधानेन भक्तस्य सत्पदार्थसेवनम्, सदाचरणम् अभ्यासः भवति तेन सः स सुचरितः, सुव्रतः, पवित्रोऽपि भवेत्।

ईश्वरनिवेदितपदार्थ एव नः सौख्यसन्तोषप्रदायको भवति। मूककविना आर्यासप्तशत्यामेवं प्रोक्तम्-

 *लीये पुरहर जाये* 
 *माये तव तरुणवल्लवच्छाये।* 
 *चरणे चन्द्राभरणे* 
 *काञ्चीशरणे नतार्तिहरणे।।* 

"मातः! तव पल्लवारुणचरणावेव यः शरणं गतः तस्य सकलार्तयः हरन्ति" इति।

तिरुनावुक्करसु नयनारः इति भक्तः कथयति-- " संसारतप्तः सन्नपि ईश्वरचरणावेव शरणं गतोऽहं अतः स्वेन्द्रियग्रामेण संगीतमलयानिलचन्द्रातपभृङ्गझङ्कारादि परमसुखानुभवं प्राप्नोमि"। 

अस्माकं सकलसौख्यमूलं परमेश्वर एव । स एव परमसुखनिधानो भवति। समस्तमपि स्वामिपादारविन्दावेव यः समर्पयति तस्य सौख्यः, योगक्षेममपि स्वामी एव पश्यति।पञ्चोपचारपूर्वकमानसपूजाविधाने भगवन्तं विविधोपचारैः यः अर्चयति सः सकलसौख्यप्रदाता सावामी एव इति सुदृढ विश्वासेन करोति।

 *गुरुवरं* *श्रीचन्द्रशेखरमाश्रये।* 

              🙏🙌कञ्चिपरमाचार्यवैभवात् अनूद्य..

                🙏🌷बाला...✍

Thursday, March 1, 2018

Greatness of Sanskrit-Sanskrit essay

*संस्कृतभाषा जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते।* संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा‌(भाषासु एकतमा) प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।

भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।

व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्‍टाध्‍यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं इवास्ति।

संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी।
.....

 *संस्कृतभाषाप्रभावाः* 

संस्कृतभाषाया शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्‍कृतेनैव क्रियमाणाम् अस्ति। अस्‍यां भाषायां न केवलं भारतस्‍य अपि तु निखिलस्‍यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्‍ताः प्रतिष्‍ठापिताः सन्‍ति। इयमेव सा भाषा यत्र ध्‍वनेः लिपेश्‍च सर्वत्रैकरूपता वर्तते। मलयाळम्‌, तेलुगु, कन्नड इति इमाः दाक्षिणात्‍यभाषाः संस्‍कृतेन भृशं प्रभाविताः।

 *तत्सम-तद्भव-समान-शब्दाः तालिका --*  ( _सहप्रेषितं चित्रं पश्य)_ 

संस्कृतशब्दः हिन्दी मलयाळम् कन्नडा तेलुगु ग्रीका लेतिना आङ्गली दोएच/जर्मन
मातृ माता मातेर मोथर् मुटेर
पितृ पिता पातेर फ़ाथर् फ़ाटेर
दुहितृ दोहता दाह्तर्
भ्रातृ भाई, भ्राता ब्रदर् ब्रुडेर
पत्तनम् पट्टन, पटना पट्टणम्
वैदूर्यम् वैडूर्यम् वैडूर्यम्
सप्तन् सात् सेप्तम् सेव्हेन् ज़ीबेन
अष्टौ आठ् होक्तो ओक्तो ऐय्‌ट् आख़्ट
नवन् नौ हेणेअ नोवेम् नायन् नोएन
द्वारम् दोर् टोर
नालिकेरः नारियल् नाळिकेरम्

Sanskrit essay app

Hey, download this Sanskrit Essay app! 150+ essays and it's free! :) 

Tuesday, February 13, 2018

Birth and death -Sanskrit essay

📀बुधवासरः (03-01-18) 🌐
✍प्रस्तावविषयः-- जननमरणचक्रम्☀


जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।। 

संसारे अस्मिन् सर्वे जननमनणचक्रभ्रमेणस्य कारणत एव जन्मं प्राप्तवन्तः। पुनर्जन्मसिद्धान्तानुसारं कर्मफलमेव जननमरणकारणम्। यद्यपि जननं मरणं द्वयमपि अस्माकं नेत्रयोः पुरतो नित्यं भवति तथापि एतयोः वास्तविकारणं किमिति स्पष्टतया अवगन्तुं तावत् सरलं नास्तीति जानीमः। भारतीयानाम् अस्माकं सनातनधर्मः वैदिकधर्मः।  सनातनधर्मानुसारिणोऽस्माकं पूर्वजा एवम् अद्यापि   एतादृशविषयेषु नितरां सत्यान्वेषणतत्पराः जिज्ञासवः बहवो वर्तन्ते। न तु केवलं भारते अपितु देशविदेशेषु च। वेदान्तचिन्तनेषु जननमरणचक्रस्य प्रतिपादनं तथा जननमरणरहितमोक्षावस्था इत्यादयः प्रतिपादिताः। कारणं विना कार्यं नास्ति इत्येव प्रमाणम् अतः जन्मस्यापि कारणं भवत्येव। प्रारब्धकर्माणि समाप्य शरीरं त्यक्त्वा आत्मा गच्छति पुनः पूर्वार्जितकर्मानुष्ठानार्थं जननं प्राप्स्यति इत्युक्ते नुतनस्थूलशरीरस्य सिद्धिर्भवति। 

पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् | इह संसारे बहुदुस्तारे कृपयाऽपारे पाहि मुरारे ||

इति भजगोविन्दे। 

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन। 
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप।।
 
इति गीतावाक्यम्। 

अच्छेद्योऽयमदाह्योऽयम् अक्लेद्योऽशोष्य एव च। 
नित्यः सर्वगतः स्थाणु अचलोऽयं सनातनः।। 

आत्मा विनाशरहितम् इति अवगच्छामो वयम्। 

किं बहुना भगवानपि स्वस्य कर्मप्रारब्धस्येव कारणादेव अवतरतीति पुराणेषु वर्णितम्। जननमरणदुःखात् विमोचनम् आत्यन्तिकदुःखनिवारणं मोक्षमित्यभिधीयते ।। 



🙏🙏🙏
‌- सुनीश् नम्बूतिरि

Friday, February 9, 2018

Contentment -Sanskrit essay

😊गुरुवासरः (04-01-18) ⭐
✍प्रस्तावविषयः-- सन्तृप्तिः🌚


सन्तृप्ति इत्युक्ते सम्पूर्णसन्तुष्टभाव इत्येवार्थः।सन्तृप्ति इत्यनेन फलेच्छा इति भावः नास्ति कर्माणां सम्यक् समर्पणेन मनसि या भावना आगच्छति सा भावना एव सन्तृप्तिः।
लोके यावत् पर्यन्तं सन्तृप्तिं न प्राप्स्यन्ति तावत् पर्यन्तं जना: सन्तोषं न प्रकटयन्ति। दृप्तानाम् अत्याग्रहीनां तृप्तिः कदापि न भवति। ज्ञानेन एव कार्याकार्यं सम्यक् विचार्य सन्तुष्टाः भवितुम् अर्हाम।। 

अतएव गीतायाम् एवं सूचितं यत्। 

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः।

समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते।।

एतादृशाः कर्मबन्धनं न प्राप्नुवन्ति। 

समर्पणधिया कार्याणि कुर्मश्चेत् सर्वदा सन्तृप्तिं प्राप्स्यामः। असन्तृप्तिरेव सदा अशान्त्याः कारणम् एतेन समाजे देशे च सङ्घर्षे जायते। आत्मसन्तृप्त्या शान्तिः तथा आत्मविश्वासोऽपि वर्धते। अतः वयं सदा तृप्ताः भवेम।। 


🙏🙏🙏

~ सुनीश् नम्बूतिरि

Thursday, February 8, 2018

Not being Angry- Sanskrit essay

😊अक्रोधः🙃

क्रोधः सर्वेषां सहजभावः तथापि सर्वेनाशाय भवति। क्रोधस्य वशीकरणमेव अक्रोधः। क्रोधः तपोवर्याणां ऋषीणामपि तपोह्रासाय भवतीति जानीमः। तेऽपि सर्वदा अक्रोधेन स्थातुमशक्ता आसन् तर्हि सधारणजनानाम् अस्माकं का स्थितिर्स्यात्। शरीरस्थमेनं रिपुं जेतुं कथं शक्यते?तत्र निस्सङ्कोचं वक्तुं शक्यते यदयम् अपारमनोनिग्रहेण सिद्ध्यत्येव। अक्रोधेन जयेत् क्रुद्धम् इति महाभारते इदं वाक्यं सत्यमेव इति नित्यजीवनानुभवेनापि द्रष्टुं शक्नुमः। यदि क्रोधाकुलस्य कस्यापि पुरतः वयमपि क्रोधं प्रदर्शयामश्चेत् किम्भविष्यति!?एवम् अन्यलाभोऽस्ति यद् अक्रोधेन मनसः भारः  न्यूनः भवति अनेन मानसिकसङ्घर्षोऽपि लघुत्वं याति। स्मितमयमुखेन अन्यानपि तोषयितुं शक्ष्यामः। 

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ 

यस्मात् पुरुषात् लोकः उद्वेगं न गच्छति, यः च पुरुषः लोकात् न उद्वेगं प्राप्नोति, यश्च सन्तोषासूया - त्रासक्षोभैः रहितः सः पुरुषः मम प्रियः ।

 इति गीतायां भगवतः वचनम्। 

रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुध इति विष्णुसहस्रनामस्तोत्रे भगवान् स्वयमेव अक्षोभ्यः ननु ।

भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य सप्तत्रिंसशत्तमे श्लोके एवमस्ति। 

काम एष क्रोध एष रजोगुणसमुद्भवः।महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ 

स्वात्तिकानां कृते क्रोधः परमत्याज्यः नोचेत् तेषु रजोगुणस्य प्रभावो दृश्यते। 
काम क्रोध-लोभ-मोह-मद-मत्सराः इति षडरिपवः प्रसिद्धा एव एकैकं रिपुं त्यक्त्वा एव चित्तशुद्धिर्भवति। अक्रोधभावेन मैत्रीं प्रीतिं लोकप्रियं च वशीकुर्मः।।

🙏🙏🙏🙏

~ सुनीश् नम्बूदिरि --@सुनीश् नम्बूतिरि

Friday, February 2, 2018

Pranaam -Sanskrit essay

प्रणामः
--------

"पद्म्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा।
वचसा  मनसा  चैव  प्रणामोऽष्टाङ्ग  ईरितः॥"

तस्य फलम्–

"भूमौ निपत्य यः कुर्यात् कृष्णेऽष्टाङ्गनतिं सुधीः।
सहस्रजन्मजं पापं त्यक्त्वा वैकुण्ठमाप्नुयात्॥"

"बाहुभ्याञ्चैव जानुभ्यां शिरसा वचसा दृशा।
पञ्चाङ्गोऽयं प्रणामः स्यात् पूजासु प्रवराविमौ॥
----------------
          
प्रणामः –

लिङ्गम् = पुं०।

व्युत्पत्तिः = प्र+णम+भावे घञ्।

अर्थाः = प्रणतिः। प्रणिपातः।

भक्तिश्रद्धातिशययुक्तनमस्कारः।
स तु स्वापकर्षबोधक-व्यापारविशेषः।

अवलम्बः = मुग्धबोधटीकायां दुर्गादासः।

स चतुर्विधः – 
1-अभिवादनम् 
2- अष्टाङ्गः 
3- पञ्चाङ्गः 
4- करशिरःसंयोगश्च ।

 यथा–

भक्तिश्रद्धातिशययुक्तनमस्कारः । स तु स्वापकर्षबोधकव्यापारविशेषः । इति मुग्ध- बोधटीकायां दुर्गादासः ॥ स चतुर्व्विधः । अभि- वादनम् १ अष्टाङ्गः २ पञ्चाङ्गः ३ करशिरः- संयोगश्च ४ । प्रथमस्य लक्षणं तच्छब्दे द्रष्ट- व्यम् ॥ द्वितीयो यथा, -- "पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा । वचसा मनसा चैव प्रणामोऽष्टाङ्ग ईरितः ॥" तस्य फलम् । "भूमौ निपत्य यः कुर्य्यात् कृष्णेऽष्टाङ्गनतिं सुधीः । सहस्रंजन्मजं पापं त्यक्त्वा वैकुण्ठमाप्नुयात् ॥" तृतीयो यथा, -- "बाहुभ्याञ्चैव जानुभ्यां शिरसा वचसा दृशा । पञ्चाङ्गोऽयं प्रणामः स्यात् पूजासु प्रवरा- विमौ ॥" * ॥ प्रकर्षेण नमनम् । तद्विधिर्यथा, कालिकापुराणे । "शिरोमत्पादयोः कृत्वा बाहुभ्याञ्च परस्परम् । प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥" किञ्चागमे । "दोर्भ्यां पद्भ्याञ्च जानुभ्यामुरसा शिरसा दृशा । मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ * ॥ अपि च । "सकृद्भूमौ निपतितो न शक्तः प्रणमेन्मुहुः । उत्थायोत्थाय कर्त्तव्यं दण्डवत् प्रणिपातनम् ॥" 

    – *पंडित विजय शंकर मिश्र*🙏🚩

Thursday, February 1, 2018

Karna -Sanskrit essay

*स्वर्वाणीप्रकाशः*
 (वाट्साप्प् सदः)

🌸शुक्रवासरः (22-12-17) चतुर्थी🌷
✍प्रस्तावविषयः-- कर्णः (महाभारते)

दानशूरः कर्णः।महापुरुषः कर्ण महाभारते विख्यातकथापात्रमस्ति।पूर्वं दुर्वासमुनिना
कुन्तीदेव्यै इष्टदेवस्मरणया देवांशपुत्रोत्पादनाय वरमेकं प्रदत्तम्।विवाहात् पूर्वमेव तरुण्या कुन्त्या सूर्यस्मरणया वरशक्तिपरिक्षा कृता तदानीं तेजोमयः कर्णः जातः। अपवादभयात् तया पुत्रः नद्यां त्यक्तः। नदीप्रवाहेण शिशुः विदूरं गत्वा धृतराष्ट्रसारथेः  अधिरथस्य निकटं जगाम। तेन शिशुः पत्न्यै राधायै समर्पितः। राधा स्वपुत्रमिव सन्तोषेण तं शिशुं पोषितवती। एवं कौन्तेयः कर्णः लोके राधेय इति प्रसिद्धो जातः। कर्णः बाल्ये एव महान् पराक्रमी दानशूरश्च बभूव। लोकदृष्ट्या 
सूर्यपुत्र: कर्णः सूतपुत्रेवासिद् । पाण्डवानां मनसि कर्ण तिरस्कृत एवासीद्।  कर्णः कालान्तरे दुर्योधनस्य प्रियमित्रमभवत्। विषमावस्थायां दुर्योधनेन कर्ण आश्वसितो जातः।  अङ्गराज्यस्य अधिकारं दत्त्वा दुर्योधनः कर्णाय स्वमैत्रीं प्रकटितवान् एतेन कर्णोऽपि आजीवनकृतज्ञो जातः।राधेयः दुर्योधनसहवर्त्तित्वेन अधर्मपक्षे स्थातुं निर्बन्धितो जातः। तथापि कर्णस्य महिमा त्रिलोकष्वपि प्रसृता जाता दानशूरः महावीरः करुणालुः अपारसेवकः सत्यसन्धः निस्वार्थः धीरः एते कर्णस्य विशेषाः बभूवुः। जन्मतः कवचकुण्डलविभूषितः कर्ण अपराजितोऽप्यासीद्।  एतत् ज्ञत्वा निजपुत्रार्जुनहितार्थं देवेन्द्रः कर्णस्य कवचकुण्डलं दानरूपेण वशीकर्तुं निश्चयं कृतवान्
दिव्यज्ञानेन सूर्यभगवान् इन्द्रस्य स्वार्थचिन्तां ज्ञातवान्। सूर्यः ब्राह्मणवेषं दृत्वा कर्णाय स्वप्नदर्शनं दत्त्वा तस्य जन्मरहस्यं कवचकुण्डलशक्तिम् एवं इन्द्रस्य कुपद्धतिं च बोधितवान्। स्ववचनलघनं तथा दानशीलं च त्यक्तुं न शक्नोमि इत्येवासीत् तदानीं कर्णस्योत्तरम्। तर्हि अर्जुनवधार्थम् इन्द्रस्य एकपुरुषघातिनी इति शूलस्य सम्पादनं चातुर्येण कर्तुम् उपदिष्ट्वा सूर्य अन्तर्धानं चकार।
पश्चात् इन्द्रकर्णयोः सम्भाषणं जातम्। शूलायुधेनापि अर्जुनवधं न शक्यते यतोऽर्जुनः कृष्णेन सुरक्षित इति इन्द्रवचनं श्रुत्वाऽपि स्थितधीः कर्णः इन्द्रात् शूलायुधं स्वीकृत्य अपारवेदनां सहन् शरीरात् कवचकुण्डलं कर्तयित्वा प्रदत्तवान्।कर्णस्य धैर्यं दृष्ट्वा देवाः ऋषयश्च तं वैकर्तन इति सम्बोधयन्  प्रकीर्तितवन्तः। यद्यपि इन्द्रेण वक्रबुद्ध्या कार्यसिद्धिः प्राप्ता तथापि धीराचरणेन कर्णस्य कीर्तिः सर्वत्र प्रसृता जाता।
कुन्त्याः कर्मफलमेव कर्णस्य दुरवस्थायाः कारणं तथापि अर्जुनमेव युद्धे हनिष्यामि इत्युक्त्वा कुन्तीदेव्यामपि कर्णः स्वस्य दयां प्रदर्शितवान्।अथैकदा हस्तिनापुरम् आगत्य पाण्डवहितं कृत्वा राज्यभरणार्थं कृष्णः कर्णं प्रेरितवान् तथापि कृष्णवचनं निराकृत्य आपत्काले मित्रस्य सहाय्यमेव परमधर्म इत्युक्त्वा भगवतः पुरतोऽपि सत्यसन्धतां दर्शितवान्।। 

उपासितास्ते राधेय ब्राह्मणा वेदपारगाः।
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥

त्वमेव कर्ण जानासि वेदवादान्सनातनान् ।
त्वमेव धर्मशास्त्रेषु 
सूक्ष्मेषु परिनिष्ठितः ॥

‌इत्येवं प्रोवाच भगवान् कृष्णः। 

कुरुक्षेत्रे महारथस्य कर्णस्य शौर्यम् अत्यद्भुतमासीत्। 

कर्णस्य पराक्रमेण अर्जुनः निरन्तरं श्रान्तो भवति स्म। कर्णस्य अस्त्रेभ्य अनेकवारं कृष्णानुग्रहादेव पार्थः रक्षितः।यदा कर्णः निरायुधो भूत्वा रथचक्रसोद्धारणं चकार तदैव अर्जुन आञ्जलिकास्त्रप्रयोगं कृत्वा कर्णस्य शिरश्छेदं कृतवान्। 
कुरुक्षेत्रयुद्धस्य १७ दिने कर्णः वीरगतिं प्राप्तवान्।
युद्धविरामसमये आक्रमणं नीतिपूर्वकं नासीत् इत्येव बहुमतम्। मरणेऽपि कर्णस्येव विजयप्राप्तिः ननु । सदा पूर्वशापानां प्रभावेण कर्णः पीडितो भवति स्म। परशुरामशापाद् अत्यावश्यसमये अस्त्रविद्यानैपुण्यं विस्मरति स्म। भूम्याः तथा ब्राह्मणस्य शापादेव रथः रणाङ्गणे स्थगितः जातः। 

कर्णवधोत्तरं पाण्डवाः निजस्थितिं ज्ञात्वा अतीवदुःखिता बभूवुः।।

कर्णस्य जीवनम् अस्मान् बोधयति यद् 
यतो धर्मस्ततो जय :।।


🙏🙏🙏🙏

~ सुनीश् नम्बूतिरि

Wednesday, January 31, 2018

Temple niyama - Sanskrit essay

*स्वर्वाणीप्रकाशः*
 (वाट्साप्प् सदः)


🌷रविवासरः (24-12-17) षष्ठी🌹
✍प्रस्तावविषयः-- मन्दिरनियमाः💐

(मन्दिरे कथं भवितव्यं भक्तजनैः इति)



मन्दिराणि भक्तिमार्गेण जनेभ्य आध्यात्मिकोन्नतिं यच्छन्ति। देवालयैः विविधदेवताः पूज्यन्ते।यद्यपि आचारकालदेशानुसारं मन्दिरनियमेषु भिन्नतां द्रष्टुं शक्नुमः तथापि सनातननियमान् अपि द्रष्टुं शक्नुमः। देवशरीरस्य स्थूलरूपमस्ति मन्दिरम्। 
 
*इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। *

इति गीतायाम्। 

*गर्भगृहं शिरप्रोक्तः*
*अन्तरालं मुखं तथा*
*‌सुखासनं गलश्चैव*
*बाहुश्चैवार्धमण्डपम्*
*महामण्डपं कुक्षि: स्यात्*
*प्राकारं जानुजघयोः*
*गोपुरं देवपादः स्यात्*
*यद्येते लक्षणं शुभम्*

(क्षेत्रचैतन्यरहस्यम् )

एवं सम्पूर्णमन्दिरं देवमयम् अस्ति इति भावनया एव मन्दिरं गच्छेम। 

सत्त्वरजतमोगुणानुसारं मन्दिराणि तथा आचाराः भिन्नाः दृश्यन्ते तथापि 
केचन मन्दिरनियमान् पश्यामः 

~ मनसा वाचा कर्मणा च शौचं भवेत्। 

~ स्नानं विना मन्दिरगमनं न कुर्यात् । 

~ मन्दिरे निरर्थकभाषणं न भवेत् केवलं भगवतः मन्त्रजपमेव कुर्यात्। 

~ मन्दिरस्य शुचित्वपालनम् भक्तानां कर्त्तव्यम् अस्ति। 

~ रिक्तहस्तेन मन्दिरं न गच्छामः। पुष्पं वा फलं वा तैलं वा धनं वा यत्किमपि योग्यवस्तूनि नयामः। 

~ वस्तूनां समर्पणं भक्त्या भवेत्। 

~ देवदर्शनं सम्यक् कुर्युः अन्येषाम् अपि सुलभदर्शनार्थं सौकर्य्यं कल्पयेत् । 

~ यथाविधिः प्रदक्षिणं नमस्कारान् च कुर्मः। 

~ उचितस्थाने किञ्चित् कालम् उपविश्य जपेत् अपि ध्यायेत्। 

~ यथाशक्तिः दक्षिणां दत्त्वा प्रसादं स्वीकुर्यात्। 

~ बलिपीठेषु स्पर्शनं कदापि मास्तु। 

~ निषिद्धवस्तूनि न नयामः। 

~ अज्ञात्वा अन्यं वा दृष्ट्वा वा मन्दिरे किमपि आचरणं न कुर्यात्। 

~ क्षेत्रकार्यक्रमेषु यावत् शक्यं तावत् भागं स्वीकुर्यात्। 

~ मन्दिरदर्शनविधिम् अनुगुणं दर्शनं कुर्मः नोचेत् मुख्यदेवं नमस्कृत्य उपदेवान् नमामः। 

~ नित्यं मन्दिरदर्शनं कुर्मः। 


एवं प्रकारेण चित्तशुद्धिं प्रप्य आचरणेन धार्मिकजीवनं कुर्मः।।

🙏🙏🙏

~ सुनीश् नम्बूतिरि

Thursday, January 25, 2018

Pranaam - Sanskrit essay

Courtesy: Sri. Ramesh Prasad shukla 
।।श्रीमते रामानुजाय नमः।।

प्रणामः
--------

"पद्म्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा।
वचसा  मनसा  चैव  प्रणामोऽष्टाङ्ग  ईरितः॥"

तस्य फलम्–

"भूमौ निपत्य यः कुर्यात् कृष्णेऽष्टाङ्गनतिं सुधीः।
सहस्रजन्मजं पापं त्यक्त्वा वैकुण्ठमाप्नुयात्॥"

"बाहुभ्याञ्चैव जानुभ्यां शिरसा वचसा दृशा।
पञ्चाङ्गोऽयं प्रणामः स्यात् पूजासु प्रवराविमौ॥
----------------
          
प्रणामः –

लिङ्गम् = पुं०।

व्युत्पत्तिः = प्र+णम+भावे घञ्।

अर्थाः = प्रणतिः। प्रणिपातः।

भक्तिश्रद्धातिशययुक्तनमस्कारः।
स तु स्वापकर्षबोधक-व्यापारविशेषः।

अवलम्बः = मुग्धबोधटीकायां दुर्गादासः।

स चतुर्विधः – 
1-अभिवादनम् 
2- अष्टाङ्गः 
3- पञ्चाङ्गः 
4- करशिरःसंयोगश्च ।

 यथा–

भक्तिश्रद्धातिशययुक्तनमस्कारः । स तु स्वापकर्षबोधकव्यापारविशेषः । इति मुग्ध- बोधटीकायां दुर्गादासः ॥ स चतुर्व्विधः । अभि- वादनम् १ अष्टाङ्गः २ पञ्चाङ्गः ३ करशिरः- संयोगश्च ४ । प्रथमस्य लक्षणं तच्छब्दे द्रष्ट- व्यम् ॥ द्वितीयो यथा, -- "पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा । वचसा मनसा चैव प्रणामोऽष्टाङ्ग ईरितः ॥" तस्य फलम् । "भूमौ निपत्य यः कुर्य्यात् कृष्णेऽष्टाङ्गनतिं सुधीः । सहस्रंजन्मजं पापं त्यक्त्वा वैकुण्ठमाप्नुयात् ॥" तृतीयो यथा, -- "बाहुभ्याञ्चैव जानुभ्यां शिरसा वचसा दृशा । पञ्चाङ्गोऽयं प्रणामः स्यात् पूजासु प्रवरा- विमौ ॥" * ॥ प्रकर्षेण नमनम् । तद्विधिर्यथा, कालिकापुराणे । "शिरोमत्पादयोः कृत्वा बाहुभ्याञ्च परस्परम् । प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥" किञ्चागमे । "दोर्भ्यां पद्भ्याञ्च जानुभ्यामुरसा शिरसा दृशा । मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ * ॥ अपि च । "सकृद्भूमौ निपतितो न शक्तः प्रणमेन्मुहुः । उत्थायोत्थाय कर्त्तव्यं दण्डवत् प्रणिपातनम् ॥" 

    –इति श्रीहरिभक्तिविलासे 

                –रमेशप्रसाद शुक्ल

                –जय श्रीमन्नारायण।

Wednesday, January 24, 2018

Vidya & Avidya -Sanskrit essay

Courtesy: Sri. Shreyas Mohan 
।।श्रीमते रामानुजाय नमः।।

अविद्या : विद्याविपरीतं ज्ञानान्तरमविद्या
------------------------------------------------

अनित्ये कार्ये नित्यख्यातिः। तद्यथा ध्रुवा पृथिवी ध्रुवा सचन्द्रतारका द्यौः। अमृता दिवौकस इति। अतस्मिंस्तदिति प्रतिभासोऽविद्येत्यविद्यायाः सामान्यलक्षणम्। तस्या एव भेदप्रतिपादनम् अनित्येषु घटादिषु नित्यत्वाभिमानोऽविद्येत्युच्यते। एवमशुचिषु कायादिषु शुचित्वाभिमानः दुःखेषु च विषयेषु सुखत्वाभिमानः अनात्मनि शरीर आत्मत्वाभिमानः। एतेनापुण्ये पूण्यभ्रमोऽनर्थे चार्थभ्रमो व्याख्यातः।

नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति कस्य केनाभिसंबन्धः। भवति चैवमशुचौ शुचिविपर्यासप्रत्यय इति। एतेनापुण्ये पुण्यप्रत्ययस्तथैवानर्थे चार्थ प्रत्ययो व्याख्यातः। तथा दुःखे सुखख्यातिं वक्ष्यति परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः (यो०सू०2/15) इति। तत्र सुखख्यातिरविद्या। तथाऽनात्मन्यात्मख्यातिर्बाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्यनात्मन्यात्मख्यातिरिति। तथैतदत्रोक्तम् व्यक्तमव्यक्तं वा सत्त्वमात्मत्वेनाभिप्रतीत्य तस्य संपदमनु नन्दत्यात्मसंपदं मन्वानस्तस्य व्यापदमनु शोचत्यात्मव्यापदं मन्वानः स सर्वोऽप्रतिबुद्धः इति। एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसंतानस्य कर्माशयस्य च सविपाकस्येति।

तस्याश्चामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम्। यथा नामित्रो मित्राभावो न मित्रभावं किं तु तद्विरुद्धः सपत्नः। यथा वाऽगोष्पदं न गोष्पदाभावो न गोष्पदमात्रं किंतु देश एव ताभ्यामन्यद्वस्त्वन्तरम् एवमविद्या न प्रमाणं न प्रमाणाभावः किन्तु विद्याविपरीतं ज्ञानान्तरमविद्येति।

                –जय श्रीमन्नारायण

Sunday, January 21, 2018

Teeth- Sanskrit essay

😀बुधवासरः (20-12-17) द्वितीया😁
✍प्रस्तावविषयः-- दन्ताः😬
मुखान्तःस्थचर्वणार्थास्थिविशेषो दन्तः । अन्तर्भावितणिजन्ताद्  दम शमे इति धातोः "हसिमग्रिणि"त्युणादिसूत्रेण तप्रत्ययेन निष्पन्नः शब्दोयम् ।
अस्य पर्यायाः - "रदना दशना दन्ता रदाः" इत्यमरः। दन्तानां प्रायोऽनेकत्वादत्र बहुवचननिर्दिष्टाः पर्यायाः, न तु नित्यबहुवचनान्तः शब्दोयम् । अतः रदनः, दशनः, रदः इति पर्यायास्तेनोद्दिष्टाः । अन्योपि द्विजशब्दस्तत्पर्यायत्वेन लोके प्रसिद्धः। 

अस्य शब्दस्यान्येर्थाः-
1. कुञ्जः
2. शैलशृङ्गम्
3. पर्वतनितम्बः
4. सानु
5. द्वात्रिंशत् (३२) इति सङ्ख्या
6. गजदन्तः

दन्ती इति ईकारान्तः शब्दः वृक्षविशेषे प्रसिद्धः ।
दन्ती इति पुंसि (दन्तिन् इति प्रातिपदिकम्) गजपर्यायः।

पाणिनिसमीक्षया दन्ताः -
1. "लृतुलसानां दन्ताः" (सिद्धान्तकौमुदी)
लृ-तवर्ग-लकार-सकाराणामुद्भवस्थानं दन्ताः । अतस्ते दन्त्या उच्यन्ते।
2. "दन्त उन्नत उरच्" (सू. 5.2.106)
दन्तशब्दादुन्नतोपाधिकादुरच् प्रत्ययो भवति मत्वर्थे। दन्ता उन्नता अस्य सन्ति दन्तुरः।
3. "दन्तशिखात् संज्ञायाम्" (सू, ५।२।११३) 
दन्तशिखाशब्दाभ्यां वलच् प्रत्ययो भवति मत्वर्थे संज्ञायां विषये। दन्तावलः सैन्यः। दन्तावलो गजः। 4." वयसि दन्तस्य दतृ" (सू. ५।४।१४१) 
सङ्ख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेर्यो दन्तशब्दः, तस्य दतृ इत्ययम् आदेशो भवति समासान्तः वयसि गम्यमाने। द्वौ दन्तौ अस्य द्विदन्। त्रिदन्। चतुर्दन्। शोभना दन्ताः अस्य समस्ताः जाताः सुदन् कुमारः। सुदती सुन्दरी।

5. "लुग् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये" (सू. ७।३।७३) 
दुह दिह लिह गुह इत्येतेषाम् अङ्गानाम् आत्मनेपदे दन्त्यादौ परतः क्षस्य वा लुग् भवति। अदुग्ध, अधुक्षत। अधुग्धाः, अधुक्षथाः। अदुग्ध्वम्, अधुक्षध्वम्। अदुह्वहि, अधुक्षावहि। दिह अदिग्ध, अधिक्षत। लिह अलीढ, अलिक्षत। गुह न्यगूढ, न्यघुक्षत ।

दन्तशब्दश्रवणेन मत्स्मृतिपथमधिरूढावभिज्ञानशाकुन्तलसन्दर्भौ-

1. आलक्ष्यदन्तमुकुलाननिमित्तहासै-
रव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो
धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ ७/१७॥
2.
अनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः ?
अर्धपीतस्तनं मातुरमर्दक्लिष्टकेसरम् ।
प्रकीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥७/१४॥
(ततः प्रविशति यथानिर्दिष्टकर्मो तपस्विनीभ्यां बालः )
बालः- जृम्भस्व सिंह, दन्तांस्ते गणयिष्ये । -डॉ। नारायणन् पि. आयुर्वेद।