Showing posts with label Jokes in sanskrit. Show all posts
Showing posts with label Jokes in sanskrit. Show all posts

Thursday, April 12, 2018

April fool-Sanskrit joke

प्रार्थना - 

कमपि विवाहितं पुरुषं "एप्रिल् फ़ूल" मा कुर्वन्तु । पूर्वमेव तं श्वशुरेण श्वश्रवा च तद्पदं दत्तम् ।

😬😬😬😬😂😂😂

Wednesday, April 4, 2018

civil Engineer - Sanskrit joke

Survey janaah sukhino bhavantu.
Takes care of only civil engineers.

Tuesday, April 3, 2018

Whiskey -Sanskrit joke

अध्यापकः - वत्स कथय, इण्डियागेट्  किमस्ति?

छात्रः - इण्डियागेट् बास्मतितण्डुलः।


अध्यापकः - चारमिनारः किम् अस्ति?

छात्रः - चारमिनारः धूमनलिका।


अध्यापकः - ताजमहलः किम् अस्ति?

छात्रः - ताजमहालः चायपर्णम्।


अध्यापकः - हे मूढ, अनुचितान् उत्तरान् कथयसि, राष्ट्रीयस्मारकानाम् अवहेलनां करोषि। अहं आक्षेपं प्रेषयामि तव पित्रे, पितुः signature आनय।

छात्रः - अस्तु आचार्य।


अपरेद्युः शिक्षकः स्वोत्पीठिकां पश्यन् :- रे नीच, त्वया व्हिस्किकूपीं किमर्थं अनीता?

छात्रः - आचार्य, भवता एव उक्तं ननु पितुः  Signature आनेतुम्? अतः आनीता Signature कूपी मया... 🍾🥂🥃🤭🤤🤪😇🤣🤣

Monday, March 19, 2018

Sanskrit joke

मित्रद्वये संवृत्तः संवादः

एकः :- मित्र १४ फेब्रुवारीदिने कः विशेषः अस्ति?
अपरः :- त्वं विवाहितोऽसि उत तव सखी अस्ति?
एकः :- विवाहितोऽस्मि।
अपरः :- तर्हि महाशिवरात्रिः अस्ति तद्दिने।
😜😜😜😜😜😜

Sanskrit joke

*पूर्वमपि आसीत्*

👨‍⚕वैद्यः ~ पूर्वं कदापि न्युमोनियायाः(pneumonia) समस्या आसीत् वा? 

🤒 रोगी ~ आम् आसीत् 

👨‍⚕वैद्यः ~ कदा? 

🤒 रोगी ~ यदाहम् अष्टम्यां कक्ष्यायाम् आसं शिक्षिका न्युमोनियापदस्य अक्षरविन्यासं (spelling) पृष्टवती तदानीं बहुसमस्या आसीत्।। 


😄😄😄🤣

~ सुनीश् नम्बूतिरि

Friday, March 16, 2018

Sanskrit joke

🌹🌹🌹🌹🌹🌹🌹🌹🌹

"वत्स,कथं चलति अध्ययनम्?"

"सम्यक् महोदय! चलत् एव तत् मत्तः बहु दूरं गतम्।"😜😜😄😄😄😄😄😄
🙏🙏🙏🙏🙏🙏🙏🙏🙏

Wednesday, March 7, 2018

Sanskrit joke

😁 संस्कृत प्रहसन 😃

गणित-शिक्षकः पाठन् आसीत्।
शिक्षकः - यदि १००० किलो = १ टन भवति
तर्हि ३००० किलो= ?
पप्पू - टन टन टन !😎😂😂😝
.
शिक्षक: - बहिर्गच्छ (निकस) 😝😠😠😠😂


गणित का अध्यापक पढ़ा रहा था।😆
अध्यापक :अगर 1000 किलो = 1 टन है
तो 3000 किलो =😋
.
.
पप्पू - टन टन टन !😎😂😂😝
.
अध्यापक :- निकल बाहर😝😠😠😠😂😂😂

Sanskrit joke

*मद्यपस्य विवेकः*

मद्यपः - ह्यः द्विचक्रिकया मदिरापणं गत्वा मद्यकूपीं क्रीतवान्।  प्रत्यागमनसमये अचिन्तयं यदहं चक्रिकातः पतामिश्चेत् कूपी भग्ना भविष्यति तेन मद्योऽपि नष्टं भविष्यति इति। 

मित्रम् - तर्हि किं कृतवान्? 

मद्यपः - तत्रैव स्थित्वा पूर्णमदिरां पीत्वा एव गृहम् आगतवान्। 

मित्रम् - रे मूर्ख! तव कार्यम्। 

मद्यपः - रे! तदानीं सम्यगेव आचरितं मया जानासि किं ततः पश्चात् कतिवारं द्विचक्रिकायाः पतितवान् इति!! अष्टवारं.... अष्टवारं पतितवान् इदानीमपि मम सयोचितविवेके गर्वम् अनुभवामि।। 


😀😀😀😀

- सुनीश्

Monday, March 5, 2018

Sanskrit joke

😂😂😂😂😂





शिक्षक: तु शिक्षक: एव भवति 




एकस्य शिक्षकस्य गृहे पंच सप्त वा मित्रशिक्षका: अतिथिरूपेण समागता: 


शिक्षक: स्वपत्नीं चायं निर्मातुम् उक्तवान् 

पत्नी -- गृहे शर्करा नास्ति कथं चायनिर्माणं कुर्याम् ??
🤔



शिक्षक: उक्तवान् भवती शर्करा रहितं चायं निर्माय आनयतु अग्रे अहं द्रक्ष्यामि 😎😎😎😎😎😎


पत्नी सर्वेषां कृते चायं निर्माय आनीतवती 
☕☕☕☕☕☕☕☕
शिक्षक: उक्तवान् ---

मित्राणि !

चायं पिबन्तु🍵🍵🍵🍵🍵🍵🍵🍵


 किन्तु अत्र एतेषु चायचषकेषु एकस्मिन् चषके शर्करा नास्ति 

यस्य समीपे स: चषक: आगमिष्यति वयं सर्वे तस्य गृहे श्व: भोजनार्थं गमिष्याम: 
इति 



सर्वे जना: आनन्देन चायं पीतवन्त: 

चायं पीत्वा सर्वे बहु प्रशंसां कृतवन्त: 
🍵👌🍵👌🍵👌🍵👌🍵👌
एक: तु उक्तवान् यत् मम चाये एतावती शर्करा आसीत् यत् कदाचित् अहं मधुमेहरोगेण पीडित: न भवेयम् इति मम चिन्ता 



😝😝😝😝😝

😂😂😂😂😂😂😂

Thursday, March 1, 2018

Sanskrit joke

हे प्रभो !
निष्कामं कर्मम्  इत्युक्ते किम् पुनः एकदा वदतु । मया न अवगतम् ।

हे वत्स ! शृणु !
बहवः जनाः धनस्य सम्पादनाय 
विवादं  कुर्वन्ति कलहं कुर्वन्ति

केचन जनाः कीर्तिः प्राप्तुं कलहं कुर्वन्ति

अपि तु स्वल्पाः  जनाः धर्मस्य रक्षणार्थं वा देशस्य रक्षणार्थं !!

परन्तु यदा पतिः पत्नी च  परस्परयोः विवादः भवति , तत् तु बहुधा किमपि कारणेन विना निरर्थकम् एव अस्ति

इत्येतत् एव निष्कामं कर्मं कथ्यते
😃😃🙏🏽🙏🏽

Tuesday, February 13, 2018

Sanskrit joke

******संस्कृतानुरागिणां**************कृते अद्यतनीयं*********
*********प्रहसनम्**********

पति: -- अद्य कीदृक् 

अस्वादु द्विदलं पक्वं

 त्वया ? (=आज़ तूने

 कैसी स्वादरहित दाल

 बनाई है ?) न अस्मिन्

 लवणम् अस्ति, न

 चास्ति मरिचम् (मिर्च)

 अस्मिन्। सर्वथा

 अखाद्यम् इदं

 भोजनम् ? भोजनं

 कथं स्वादु भवेत् , त्वं

 तु सर्वदा mobileस्य

 whatsapपे व्यस्ता

 तिष्ठसि ।


 पत्नी (बेल्लनम्  

 उत्थाप्य)-- पूर्वम्

 स्वकीयं mobileम् 

 दूरीकृत्य भोजनं कुरु,

पानीये रोटिकाम् 

निमज्ज्य खादन्नसि ।

मां च उपालंभसे !  

 धिक्,धिक्, धिक् ! 

 विचित्र: अयं

 व्यवहारः ! ---KSG

Friday, February 9, 2018

Sanskrit joke

शिक्षिका - किमर्थं भारतदेशे पण्डतजवाहरलालजन्मदिवसे बालदिवसः आचर्यते? 
छात्रः - यतः पण्डतजवाहरलालः स्वबालेभ्यः भारतदेशं समर्पितवान्। 

Teacher: Why does India celebrate  Children's Day on Pandit Jawaharlal Nehru's birthday? 

Student: Because Pandit Jawaharlal Nehru gave away India to his children😜

Thursday, February 8, 2018

Thermometer-Sanskrit joke

वैद्यः भार्यायाः मुखे 🤒🤒🤒🤒थर्मामीटर स्थापितवान्...तथा च अवदत्....किञ्चित् कालं यावत् मुखं मा उद्घाटयतु......।
.
.
.
.
भार्यां मौनं🤫🤫 द्रष्ट्वा पतिः  कौतुहलेन पृष्टवान्.... वैद्यमहोदय! यन्त्रस्य कियत् मूल्यम् ??😳😳

Thursday, February 1, 2018

Car_ Sanskrit joke

कारयानेन अटन् परिवारः एकः परिवहनारक्षकेण स्थगितः।

आरक्षकः :- अद्य सुरक्षादिवसोऽस्ति। सुरक्षोपायान् प्रति जागरूकाय, सुरक्षानियमान् च अनुसरते भवते सर्वकारेण 5000 रुप्यकाणि दीयन्ते उपहाररूपेण। कथयतु किं करिष्यति भवान् एतम् उपहारं अवाप्य?

कारचालकः - आदौ तु अहं यानचालनाय अनुज्ञप्तिपत्रं क्रीणामि।

आरक्षकः - 😳😳😳....??

कारचालकस्य माता - एतस्य वचसः तीव्रान् मा परिगणयतु । मद्यं पिबन् एषः किमपि असम्बद्धं वदति।

आरक्षकः - 😰😰😰....??

तावतैव कारचालकस्य पिता निद्रायाः जागरितः सन् आरक्षकं दृष्ट्वा उद्गीरितवान्, "मया तु आदौ एव उक्तमासीत् यत् एतं चोरितं कारयानं अधिकं दूरं नेतुं न शक्ष्यामः वयम्।

आरक्षकः - 😖 😖😖 मूर्च्छितः .......???

कार में सरदार फैमिली जा रही थी......!

ट्रैफिक पुलिस ने कार को रुकवाया.....!!

इंस्पेक्टर : आज "सुरक्षा दिवस" है और आप सीट बेल्ट पहन कर गाडी चला रहे हैं, इसलिए आपको 5000 रूपये इनाम मिलता है.
बताइए इन रुपयों का आप क्या करेंगे"......?

सरदार : वो जी मैं सबसे पहले तो, इन पैसों से अपना ड्राइविंग लाइसेंस बनवाऊंगा ......!!

इंस्पेक्टर : 😳😳😳....??

इतने में सरदार की मम्मीजी:
ओजी !! ये तो पागल है, "शराब पीकर" कुछ भी बकता है....!!

इंस्पेक्टर : 😰😰😰...??

इतने में कार में पिछली सीट पर सो रहे पापाजी जाग गए और पुलिस को देखकर बोले:

ले मैनू ते पहले ई पता सी....कि चोरी की गड्डी में हम लोग ज्यादा दूर नहीं जा पाएंगे....!!

इंस्पेक्टर : 😖 😖😖 बेहोश .......???

Wednesday, January 31, 2018

Poison-Sanskrit joke

😊😊🤓😅😅

दम्पत्योः 👫 मध्ये कलहः अभवत्.. पतिः गृहात् कुत्रचिद् अगच्छत्।

👨🏻‍🏫 *पतिः* - रात्रौ दूरवाणीं कृत्वा पृच्छति भोजने किं पक्ववती ?

👩🏼‍🏫 *पत्नी* - विषम् 😡😡😖

👨🏻‍🏫 *पतिः* - अहं विलम्बेन आगमिष्यामि भवती भुक्त्वा शेताम्. ( शयनं करोतु ) ।

👩🏼‍🏫 *पत्नी* - 😳☹☹
😝😛😛😅😅😝😝😛

Thursday, January 25, 2018

Get married - Sanskrit joke

😀😀😝😛😋😋

🙎🏾‍♂ *पुत्रः* - ( पितरम् ) अहं विवाहं नैव करिष्यामि..यतोहि अहं महिलाभ्यः बिभेमि.🤒😥

👨🏾‍💼 *पिता* - कुरु पुत्र! विवाहानन्तरं एकस्याः महिलायाः भेष्यसि.... अन्याः तु रमणीयाः 👸🏻👸🏼 प्रतीयन्ते...
😛😝😛😋😋😋😋

Wednesday, January 24, 2018

No current( electricity) _ Sanskrit joke

एकस्य विद्यालयस्य कक्षायाम्....

👨🏻‍🏫 शिक्षकः गृहकार्यं किमर्थं न कृतवान् ??
 
🙍🏻‍♂ छात्रः - महोदय! विद्युत् नासीत् ।
👨🏻‍🏫 शिक्षकः - सिक्थवर्तिकां ( मोम्बत्ती ) किमर्थं न प्रज्वालितवान् ?
💁🏻‍♂ छात्रः - महोदय! अग्निपेटिका नासीत्।
👨🏻‍🏫 शिक्षकः - रे! 😠 अग्निपेटिका कुतो नासीत् ?
🙍🏻‍♂ छात्रः - पूजागृहे आसीत् ।
👨🏻‍🏫 शिक्षकः - भो:!🤨 ततः किमर्थं नानीतवान् ।
🙅🏻‍♂ छात्रः - स्नानं न कृतवानासम् ?
👨🏻‍🏫 शिक्षकः - किमर्थमधुना 😤??
🙇🏻‍♂ छात्रः - जलं नासीत् श्रीमन्!
👨🏻‍🏫 शिक्षकः - किमर्थं नासीत् ??
🤦🏻‍♂ छात्रः - जलयन्त्रं ( मोटर ) न चलति स्म ।
👨🏻‍🏫 शिक्षकः - वराक!😡 किमर्थम् ?
🙆🏻‍♂ छात्रः - उक्तमासीत् किल विद्युत् नासीत्
👨🏻‍🏫 शिक्षकः - 😠🤒🤒🤒

😝😝😝😝😝😝😊😊
एक स्कूल के क्लास रूम में - शिक्षक : होम वर्क क्यों नहीं किया ..?
विद्यार्थी : सर, लाइट नहीं थी शिक्षक : तो मोमबत्ती जला लेते ,
विद्यार्थी : सर, माचिस नहीं थी …शिक्षक : माचिस क्यों नहीं थी ?विद्यार्थी : पूजा घर में रखी हुई थी शिक्षक : तो वहां से ले आते …विद्यार्थी : नहाया हुआ नहीं था …शिक्षक : नहाया हुआ क्यों नहीं था ..?
विद्यार्थी : पानी नहीं था सर …शिक्षक : पानी क्यों नहीं था ..?विद्यार्थी : सर मोटर नहीं चल रहा था ।
शिक्षक : अरे कमबख्त मोटर क्यों नहीं चल रहा था ..??
विद्यार्थी : सर बताया तो …लाइट नहीं थी ….!😬☺😅😬

Thursday, January 18, 2018

Kanya rakshanam - Sanskrit joke

सर्वकारेण प्रकाशिताः सङ्ख्याः कथयन्ति यत् आगामिमनुष्यसन्ततिः व्याघ्रं द्रष्टुं न शक्नुयात्।

किं तर्हि??

वयं किं कुर्याम ? अस्माभिः डायनासॉर् अपि कदा दृष्टः भोः??
तदर्थं वयं कदापि शोकं न प्रकटितवन्तः।

मूलप्रश्नः अस्ति अस्माकं देशे एकसहस्त्रेण युवभिः तुलनया केवलं ८४० युवत्यः सन्ति।

अतः वदामः--
*कन्यारक्षणं क्रियताम्ः।*

व्याघ्रान् वयं अनन्तरं रक्षेम।

यतो हि

द्विचक्रिकायाः पृष्ठवर्तिनि आसने भार्या एव उपवेशनीया न व्याघ्रः।

अपि च पत्नी इति उच्यते चेत् सा कस्यापि व्याघ्रस्य अपेक्षया न्यूनगुणा अस्ति वा??😝😜😜

Tuesday, January 16, 2018

Sanskrit joke

इदमपि

मित्रं - यः न द्रष्टुं शक्नोति, तं किं वदामः?
हरीशः - अन्धः इति
मित्रं - यः न श्रोतुं शक्नोति, तं किं वदामः
हरीशः - किमपि वक्तव्यम् 
मित्रं - तत् कथम्?
हरीशः - किमपि वदेम, सः न शृणुयात् किल ! 
😀😀😀😀😀

Thursday, January 11, 2018

Passing exams -Sanskrit joke

😂😀😅🤣😀😆
🙎🏻‍♂ *बालकः* - किमर्थं रोदिषि ??

👩🏻‍💼 *बालिका* - परीक्षायां न्यूनाः अङ्का लब्धाः मया अतः ...😥।

🙎🏻‍♂ *बालकः* - तथापि कति अङ्का: प्राप्ता: ??

👩🏻‍💼 *बालिका* - केवलं 88 प्रतिशतम्..😔

🙎🏻‍♂ *बालकः* - 😳😳😳 *अयि! ईश्वरात् बिभेहि* .....एतावतेषु अङ्केषु तु द्वौ बालकौ 👬 उत्तीर्णौ भवितुं शक्नुतः ।
😀😆😅😅😂😂