Sunday, January 21, 2018

Teeth- Sanskrit essay

😀बुधवासरः (20-12-17) द्वितीया😁
✍प्रस्तावविषयः-- दन्ताः😬
मुखान्तःस्थचर्वणार्थास्थिविशेषो दन्तः । अन्तर्भावितणिजन्ताद्  दम शमे इति धातोः "हसिमग्रिणि"त्युणादिसूत्रेण तप्रत्ययेन निष्पन्नः शब्दोयम् ।
अस्य पर्यायाः - "रदना दशना दन्ता रदाः" इत्यमरः। दन्तानां प्रायोऽनेकत्वादत्र बहुवचननिर्दिष्टाः पर्यायाः, न तु नित्यबहुवचनान्तः शब्दोयम् । अतः रदनः, दशनः, रदः इति पर्यायास्तेनोद्दिष्टाः । अन्योपि द्विजशब्दस्तत्पर्यायत्वेन लोके प्रसिद्धः। 

अस्य शब्दस्यान्येर्थाः-
1. कुञ्जः
2. शैलशृङ्गम्
3. पर्वतनितम्बः
4. सानु
5. द्वात्रिंशत् (३२) इति सङ्ख्या
6. गजदन्तः

दन्ती इति ईकारान्तः शब्दः वृक्षविशेषे प्रसिद्धः ।
दन्ती इति पुंसि (दन्तिन् इति प्रातिपदिकम्) गजपर्यायः।

पाणिनिसमीक्षया दन्ताः -
1. "लृतुलसानां दन्ताः" (सिद्धान्तकौमुदी)
लृ-तवर्ग-लकार-सकाराणामुद्भवस्थानं दन्ताः । अतस्ते दन्त्या उच्यन्ते।
2. "दन्त उन्नत उरच्" (सू. 5.2.106)
दन्तशब्दादुन्नतोपाधिकादुरच् प्रत्ययो भवति मत्वर्थे। दन्ता उन्नता अस्य सन्ति दन्तुरः।
3. "दन्तशिखात् संज्ञायाम्" (सू, ५।२।११३) 
दन्तशिखाशब्दाभ्यां वलच् प्रत्ययो भवति मत्वर्थे संज्ञायां विषये। दन्तावलः सैन्यः। दन्तावलो गजः। 4." वयसि दन्तस्य दतृ" (सू. ५।४।१४१) 
सङ्ख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेर्यो दन्तशब्दः, तस्य दतृ इत्ययम् आदेशो भवति समासान्तः वयसि गम्यमाने। द्वौ दन्तौ अस्य द्विदन्। त्रिदन्। चतुर्दन्। शोभना दन्ताः अस्य समस्ताः जाताः सुदन् कुमारः। सुदती सुन्दरी।

5. "लुग् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये" (सू. ७।३।७३) 
दुह दिह लिह गुह इत्येतेषाम् अङ्गानाम् आत्मनेपदे दन्त्यादौ परतः क्षस्य वा लुग् भवति। अदुग्ध, अधुक्षत। अधुग्धाः, अधुक्षथाः। अदुग्ध्वम्, अधुक्षध्वम्। अदुह्वहि, अधुक्षावहि। दिह अदिग्ध, अधिक्षत। लिह अलीढ, अलिक्षत। गुह न्यगूढ, न्यघुक्षत ।

दन्तशब्दश्रवणेन मत्स्मृतिपथमधिरूढावभिज्ञानशाकुन्तलसन्दर्भौ-

1. आलक्ष्यदन्तमुकुलाननिमित्तहासै-
रव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो
धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ ७/१७॥
2.
अनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः ?
अर्धपीतस्तनं मातुरमर्दक्लिष्टकेसरम् ।
प्रकीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥७/१४॥
(ततः प्रविशति यथानिर्दिष्टकर्मो तपस्विनीभ्यां बालः )
बालः- जृम्भस्व सिंह, दन्तांस्ते गणयिष्ये । -डॉ। नारायणन् पि. आयुर्वेद।

No comments:

Post a Comment