Thursday, July 16, 2020

Worker & teacher - Sanskrit joke

अध्यापिका- (कर्मकरम्) अयि शृणु , अत्र आगच्छ!

कर्मकरः- महोदये! मम नाम अयि इति न! भवती मम नाम उक्त्वा आह्वयतु। 

अध्यापिका- अस्तु तर्हि, तव नाम किम्? 

कर्मकरः- मम नाम प्राणनाथः।

अध्यापिका- एतन्नाम न समीचीनम्, अस्तु कथय तव गृहसदस्याः त्वां केन नाम्ना आह्वयन्ति? 

कर्मकरः- बालम् इति नाम्ना आह्वयन्ति। 

अध्यापिका- एतदपि नाम न समीचीनम्। तर्हि कथय तव प्रतिवेशिनः त्वां केन नाम्ना आह्वयन्ति?

कर्मकरः- ते मां साजन इति नाम्ना आह्वयन्ति! 

अध्यापिका- न, एतदपि न समीचीनम्। अस्तु तर्हि। वद तव उपाधिः का? 

कर्मकरः- स्वामी इति। 

तस्य कर्मकरस्य उपाधिः स्वामी इति श्रुत्वा अध्यापिका मूर्च्छिता अभूत्।
*-प्रदीपः!*

No comments:

Post a Comment