Courtesy: Dr. Sri. P. Narayanan
एकदा सिद्धार्थं प्रति तच्छिष्यः कश्चन पप्रच्छ- "विविधैः कर्मभिः संसारपाशैरिव दृढं बद्धानां केन कर्मणा यागेन वा तन्मोचनं जायेत? कमपि ललितमुपायं निर्दिशतु" इति। सिद्धार्थः "तस्योत्तरं श्वो वक्ष्यामि" इत्यवोचत्। अनन्तरे दिने सिद्धार्थः किमपि सूत्रं हस्ते गृह्णानस्तस्मिन् सूत्रे बहुविधान् ग्रन्थीन् रचयंस्तच्छिष्यस्य परत आगत्य पृष्टवान्- "अस्मिन् सूत्रे बहुविधा ग्रन्थय उपर्युपरि संलग्नाः सन्ति। केनापि ग्रन्थ्यन्तरेण इदं सूत्रम् ऋजु करोतु। अन्यथा कोपि नूतनः सरल उपायोस्मिन् क्रियेत, येन ग्रन्थय इमे विग्रथिताः सम्पद्येरन्" इति। शिष्योवोचत् - न ग्रन्थिना सरलेनोपायान्तरेण वा विग्रथनं शक्येत, किन्तु कथमिमे ग्रथिता इत्येकैकं ग्रन्थिं परिशील्य क्रमेण तेषां विश्लेषणं कर्तुं यतेय" इति। सिद्धार्थ उवाच - "इदमेव समाधानं तवापि प्रश्नस्य" इति॥
एवमेव यत्र यत्र दोषः सूच्यते दृश्यते वा तत्र तत्र कस्तत्र दोष इति स्वबुद्ध्या परिशील्य, तज्ज्ञान् वा सम्पृच्छ्य तं तं दोषं परिहरतु। बहूनि शिबिराणि भवत्या चालितानि स्युः। किन्तु न केवलं सङ्ख्या, गुणोपि गणनीयः। सरलस्य सुसंस्कृतस्य पाठनमेव संस्कृतभारत्यापि संगण्यते। सुसंस्कृतशिक्षणोपायाश्च तया संस्थया बहुधा उपस्थाप्यन्त इति बोधितोस्मि। अ.क.कृ.महोदयेनोक्तानुपायानपि परिशीलयतु। भवतु भद्रम्। जयतु सुसंस्कृतम्।
(इतोपि बहु वक्तव्यमस्ति। किन्तु समयाभावादुपरमामि।)
No comments:
Post a Comment