*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(द्वादशः सर्गः)
तपस्विनी स्वयम्प्रभा।
तस्याः गुहायाः अभ्यन्तरे अत्यन्तम् अन्धकारः चेदपि वानराणां दृष्टिशक्तिः महती प्रबला आसीत् इत्यतः ते तस्मिन् अन्धकारे अपि द्रष्टुं शक्नुवन्ति स्म। तेषां पराक्रमः महान्, वायुवत् च तेषां गतिः आसीत्। तीव्रवेगेन ते सर्वे वानराः गुहायाः अन्तः प्राविशन्। तत्र प्रविश्य ते अपश्यन् - तत् स्थानम् अत्यन्तं सुन्दरं प्रकाशमानं मनोहरं चासीत्। परितः सालः, तालः, तमालः, नागकेसरः, अशोकः, धवः, चम्पा, कनेरः इत्यादयः पुष्पयुक्ताः वृक्षाः आसन्। ते वृक्षाः स्वर्णमयाः आसन्। तेभ्यः अग्निवत् प्रभा निस्सरति स्म। तेषां पुष्पाणि स्वर्णवद् दृश्यन्ते स्म।
सूर्यवत् देदीप्यमानैः वृक्षैः वेष्टितः विशालः कश्चन सरोवरोऽपि दृश्यते स्म, यस्मिन् स्वर्णकमलानि मत्स्याः च शोभन्ते स्म।
ते तत्र स्वर्णरजताभ्यां निर्मितानि बहूनि भवनानि अपश्यन् येषां वातायनानि मुक्तानां जालैः आवृत्तानि आसन्। स्वर्णरजताभ्यां निर्मितं विमानमपि ते अपश्यन्।
तत्र च स्वर्णरजतकांस्यानां बहूनि पात्राणि स्थापितानि आसन्। बहुमूल्यं यानम्, सरसम्, मधु, महामूल्यं दिव्यवस्त्रम्, विचित्रः कम्बलः, मृगचर्म इत्यादीनि तत्र तत्र स्थापितानि आसन्।
किञ्चिद् दूरं यदा ते अगच्छन् तदा वल्कलं मृगचर्म च धरमाणा काचित् स्त्री अदृश्यत यस्याः मुखं तपस्यायाः तेजसा द्योतते स्म।
परमबुद्धिमान् हनुमान् तस्याः तपस्विन्याः समीपं गत्वा हस्तौ योजयित्वा अब्रवीत् देवि! भवती का? एषा गुहा, एतानि भवनानि, एतानि रत्नानि च कस्य सन्ति? हे देवि! वयं क्षुधातृष्णाश्रान्तैः च व्याकुलाः भूत्वा जलस्य अन्वेषणं कुर्वन्तः इमां गुहां प्रविष्टवन्तः। किन्तु अत्रत्यान् अद्भुतपदार्थान् दृष्ट्वा अस्माकं विवेकशक्तिः शून्या अभवत्। एतत् सर्वं भवत्याः तपस्यायाः प्रभावात् अभवत् उत काचिद् आसुरी माया अस्ति?
*-प्रदीपः!*
No comments:
Post a Comment