*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(एकादशः सर्गः)
हनुमते मुद्रिकाप्रदानम्।
वानरसेनापतिभ्यः तादृशीं कठोराज्ञां दत्त्वा सुग्रीवः हनुमन्तम् अब्रवीत् हे कपिश्रेष्ठ! पृथ्वी, अन्तरिक्षम्, आकाशः, पातालम्, देवलोकः, वनम्, पर्वतः, सागरः इत्यादिषु क्षेत्रेषु किञ्चिदपि स्थानम् अवशिष्टं न स्यात् यत्र त्वं गन्तुं न शक्नुयाः। असुरः, गन्धर्वः, नागः, मनुष्यः, देवता, समुद्रः पर्वतः इत्यादिभिः सह सम्पूर्णं लोकं त्वं जानासि। अपिच त्वम् अतुलः, अद्वितीयः पराक्रमी तथा च महान् साहसी असि। तव बुद्धिः कार्यकुशलता चापि अपूर्वा अस्ति।
यद्यपि अहं सीतायाः अन्वेषणाय वानरेभ्यः आदेशम् अददां तथापि मम विश्वस्तः तु त्वमेव असि। अपिच त्वमेव एतत् कार्यं कर्तुं शक्नुयाः।
हनुमति सुग्रीवस्य तावान् विश्वासः इति विदित्वा रामः अब्रवीत् हे हनुमन्! सुग्रीववद् ममापि त्वयि विश्वासः अस्ति यत् त्वम् अवश्यं हि सीतायाः अन्वेषणकार्ये सफलः भविष्यसि। अतः अहं तुभ्यं मम एतां सुशोभितां मुद्रिकां ददामि। यदा कदापि वा जानकी प्राप्येत तदा हि तस्यै एषा मुद्रिका दीयेत। एतां मुद्रिकां दृष्ट्वा सा त्वयि सन्देहं न करिष्यति। त्वां मम दूतं मत्वा सा सर्वमपि वदिष्यति।
रामात् मुद्रिकां गृहीत्वा हनुमान् तां मुद्रिकां तस्य मस्तके धृत्वा रामस्य सुग्रीवस्य च चरणस्पर्शं कृत्वा वानरसेनया सह सीतायाः अन्वेषणाय प्रस्थानम् अकरोत्। अन्ये वानराः अपि सुग्रीवस्य निर्देशानुसारं भिन्नं भिन्नं स्थानं प्रति प्रस्थानम् अकुर्वन्। ते सर्वे वनम्, पर्वतः, गिरिकन्दरा, ऋषिमुनीनाम् आश्रमः, विभिन्न-राज्ञां राजधानी, पर्वतशिखरम्, सागरः द्वीपः, राक्षसयक्षकिन्नरादीनाम् आवासस्थानम् इत्यादिषु सर्वेषु स्थानेषु जानक्याः अन्वेषणम् अकुर्वन् चेदपि तैः जानकी न प्राप्यत। अन्ते च ते क्षुधातृष्णाभ्यां व्यथिताः, श्रान्ताः, निराशाः च भूत्वा एकस्मिन् स्थाने उपविश्य स्वकार्यक्रमस्य विषये विचारविमर्शं कुर्वन्ति स्म।
तदानीं कश्चन सेनापतिः तान् सम्बोधयन् अब्रवीत् - वयम् उत्तरपूर्वपश्चिमदिशां सर्वमपि स्थानम् अन्वैष्याम। अत्यन्तं दुर्गमं स्थानं गत्वा अपि वयं जानक्याः अन्वेषणम् अकुर्म चेदपि वयं महाराज्ञीं जानकीं न प्राप्नुम।
मम विचारानुसारं तु इदानीं वयं दक्षिणदिशः प्रति प्रस्थानं कुर्याम। अतः अधिकसमयनष्टम् अकृत्वा हि वयं तां दिशं गच्छेम।
*-प्रदीपः!*
No comments:
Post a Comment