Friday, July 17, 2020

Prayer to Lord Jagannatha

श्रीजगन्नाथप्रार्थना
***************
(१)
यात्रैषमो नो भविता त्वदीया
निषेधवार्त्तां सहसा निशम्य।
सत्यप्रतीतिर्हृदि जायते नो
वन्दे जगन्नाथ ! कृपां कुरुष्व ।।
(२)
रथस्त्वदीयो वडदाण्डपृष्ठे
विराजते ते सुखवर्द्धनाय ।
तच्छिल्पिकारा बहुदुःखिताश्च
वन्दे जगन्नाथ ! कृपां कुरुष्व ।।
(३)
किं वा करोणाकवलात् स्वभक्तान्
पातुं किलेदं नवकौशलं ते।
न्यायाधिपानां न्यवसद् गले वा
वन्दे जगन्नाथ ! कृपां कुरुष्व ।।
(४)
भजन्ति भक्तास्तव दर्शनार्थम्
इच्छन्ति यात्रां परिपालनार्थम्।
नूनं कथञ्चिद् हृदयं हरस्व
वन्दे जगन्नाथ ! कृपां कुरुष्व ।।
(४)
यात्रां विना नस्यति कालधर्मो
भक्ता भविष्यन्ति विषादमग्नाः।
लीलां त्वदीयां परिदर्शयस्व 
वन्दे जगन्नाथ ! कृपां कुरुष्व ।।

(व्रजकिशोरः)

No comments:

Post a Comment