Courtesy - Sri. Shreyas Mohan
==================================
मूलगीतं :- चलती है क्या नौ से बारा
चित्रपटः :- जुड़वा २ (२०१७)
गीतानुवादकः :- चिन्मयः फड़के, पुणेनगरतः
गायकः :- श्रेयसः वाडी, ठाणेनगरतः
भ्रमणध्वनिक्रमाङ्कः :- ८८८८८८0३२६
==================================
दृष्टिप्रहारं कृतं त्वया
वराकं मे हृद् आहतं तदा
श्रुतं तु तव प्रशंसकाः
अग्रे दशः पार्श्वे द्वादशः
मां त्वं तव शशी मन्यस्व
भाग्यतारकं च काशय
एकमीक्षणं न पर्याप्तं
पश्य मां पुनः वलित्वा
टण्टणाटण्टण्टण्टारा
चलसि वा नवतस्त्रिहोराः
तूष्णीं स्थित्वा किं चिन्तयसि
धावावः अधुना द्रुतगत्या ।।धृ।।
रात्रेः चिटिके द्वे मम पार्श्वे
दर्शयामि त्वां स्यूतं
उपविशामि त्वामाश्लिष्य
टैक्स्या नयाम्यहम्
मा भावय मां त्वं दीनं
धनस्यूते मे महत् धनम्
भृशं भोजयिष्याम्यहं त्वां
उष्णसमाशम् इडलीं दोशां
त्वं ममासि पेप्सीकोला
अहं तव कोकाकोला ।।१।।
शीश्कारेण त्वां दृष्ट्वाहं
चित्रगीतं वादयामि
चिरात् अहं चिन्तयन् आसम्
चित्रगृहं त्वां नयामि
शुक्रवासरे रम्ये प्रदोषे
नवचित्रपटोऽस्ति पटले
चिन्तनीयं न औष्ण्यविषये
चित्रगृहे वातानुकूलिते
चित्रपटः रम्यः हे प्रिये
विराजत अयं प्रथमस्थाने ।।२।।
No comments:
Post a Comment