Tuesday, January 16, 2018

Tiruppavai pasuram 5

।।श्रीमते रामानुजाय नमः।।

तिरुप्पावै पाशुर –5
------------------------

"मायनै मन्नु वडमदुरै मैन्दनै, तूय पेरुनीर् यमुनत्तुऱैवनै, आयर् कुलत्तिनिल् 
तोन्रुम् मणिविळक्कै, तायैक्कुडल् शेय् द दामोदरनै,तूयोमाय् वन्दु नां तूमलर् 
तूवित्तोळुदु, वायिनाल् पाडि मनत्तिनाल् शिन्दिक्क,पोयपिळैयुम् पुगुदरुवा निन्रनवुं तीयिनिल् तूशाग्ं शेप्पेलोरेम्बावाय्॥"

प्रतिपदार्थः
-------------

मायनै=आश्चर्यगुणचेष्टितं;
मन्नु वडमधुरै मैन्दनै=उत्तरमधुराभूमीश्वरं;
तूयपेरुनीर्=परिशुद्धाधिकजलसहित;
यमुनैत्तुरैवनै=यमुनातीरवासिनं;
आयर् कुलत्तिनिल्=गोपवंशे;
तोन्रुं=प्रकाश्यमान;मणि विळक्कै=मणि दीपं;
तायैक्कुडल्=जनन्याः यशोदायाः गर्भं(मनः);
विळक्कं शेय् द=प्रकाशयन्तं;
दामोदरनै=बद्धोदरं;नाम्=वयम्;
तूयोमाय्=परिशुद्धास्सन्तः वन्दु=आगत्य;;तू=पवित्राणि;
मलर्=पुष्पाणि; तूवि=समर्प्य;
तोळुदु=संसेव्य; वायिनाल्=वाचा: ;
पाडि=स्तुत्वा: ; मनत्तिनाल्=मनसा: ;
शिन्दिक्क=ध्यात्वा:(ध्यायामश्चेत्); पोयपिळैयुम्=सञ्चितपापाः ;
पुगुदरुवानिन्रनवुम्=आगामिपापाः ; तीयिनिल्=अग्नौ: ;
तूशाग्ं=तूलमिव-कार्पासमिव:(नश्यन्ति)।

तात्पर्यम्
----------
गोदादेवी (आण्डाल) प्रथमपाशुरे व्रतस्य लक्ष्यं तत्साधनञ्चोक्तवती। द्वितीये प्राप्यप्रापकद्वयमुक्त्वा कृत्याकृत्यादीनि कथितवती। तृतीये तु,
भगवदनुभवसहकारिणां अभीष्टसिद्ध्यर्थं भगवत्सन्निधौ प्रार्थनावश्यकतां घोषितवती। चतुर्थे भगवदेकप्रवणानां पर्जन्यादि देवता अपि
साहाय्यङ्कर्तुमुद्युक्ता भवेयुरिति निजगाद। पञ्चमपाशुरेऽस्मिंस्तु,उत्तरमधुराधिपतिं,यमुनातटविहारिणं,गोपकुलस्य मङ्गळदीपं,पालकमातुः
यशोदायाः कीर्तेः प्रकाशकं, तस्याः दाम्ना बद्धोदरत्वेन  चेतनेषु विषये आत्मनस्सौलभ्यतां प्रदर्शितवन्तं,आश्चर्यगुणचेष्टितं श्रेकृष्णं मनसा,वाचा,कर्मणा च स्तुत्वा प्रार्थयामश्चेत्, सञ्चितागामिपापास्सर्वे नश्यन्तीत्युवाच।

संस्कृते
---------

श्रेमायिनं धनद दिङ्मधुराधिनाथं गम्भीरनिर्मलपयो यमुनातटस्थम्।
श्रीगोपभद्रकुलभासि मणिप्रदीपं 
दामोदरं तु जननीगुरुगर्भसूर्यम्।आगत्य शुद्धकरणाः परिशुद्धपुष्प जातं समर्प्य परमाञ्जलिमुद्रयाऽद्य।वाचा प्रगाय मनसा च विचिन्त्य नूनं चेत्संश्रयेम गतपापमनागतं वा। दूयेत साधु दहने तदिषीकतूलं प्रोतं यथा स्मरत गोपवधूललामाः। ध्येयः फलं च करणं च स एव कृष्णः वृत्तं निसर्गमधुरं व्रतमस्मदीयम्॥

            प्रस्तुतिः –

                 – रमेशप्रसाद शुक्ल

                 –जय श्रीमन्नारायण

No comments:

Post a Comment