।।श्रीमते रामानुजाय नमः।।
तिरुप्पावै पाशुरम् –8
--------------------------
"कीळ् वानं वेळ्ळेन्रेरुमै शिरु वीडु मेय् वान् परन्दनगाण् मिक्कुळ्ळ पिळ्ळैगळुं पोवान् पोगिन्रारै प्पोगामळ् कात्तु, उन्नै क्कूवुवान् वन्दुनिन्रोम्, कोदुकुलमुडैय
पावा येळुन्दिराय् पाडि परै कोण्डु मावाय् पिळन्दानै मल्लरै माट्टिय
तेवादि देवनै च्चेन्रुनां शेवित्ताल् आवावेन्राराय्न्दरुळेलोरेम्बावाय्॥"
पदार्थः
--------
"कीळ्=प्राच्यां दिशि; वानं=आकाशः;
वेळ् एन्रु=श्वेतोऽभवत्-(प्रभातमासीत्)। एरुमै=महिष्यः;शिरु=लघु; वीडु=क्षेत्रं(घासस्य) मेय् वान्=खादितुं;
परन्दनगाण्=स्वेच्छया विसृष्टाः(व्याप्तास्सन्ति);
मिक्कुळ्ळ पिळ्ळैगळुम्=शिष्टा गोपबालिकाः;
पोवान्=गन्तुं;पोगिन्रारै=उद्युक्त्तं जनं;पोगामल् कात्तु=गमनमवरुध्य;
उन्नै=त्वां;कूवुवान्=आह्वयितुं; वन्दु=आगत्य; निन्रोम्=तिष्ठामः; कोदुकुलमुडैय=कुतूहलिनि;
पावाय्=हे अङ्गनामणि! एळुन्दिराय्=उत्थाय एहि;
पाडि=सङ्कीर्त्य(कृष्णं);
परै कोण्डु=वाद्यपरिकरं स्वीकृत्य;
मा वाय्=अश्वरूपिणो केशिनाम्नो राक्षसस्य आस्यं;
पिळन्दानै=विदारितवन्तं;
मल्लरै=चाणूर मुष्टिकनामानौ मल्लयुद्धवीरौ;
माट्टिय=हन्तारं;देवादिदेवनै=देवदेवं श्रीकृष्णं; नाम्=वयं;शेन्रु=गत्वा;
सेवित्ताल्=यदि सेवेम;आ एन्रु=आः कष्टमनुभूतमिति;
आराय् न्दु=विचार्य;अरुळुम्=(कृपया) अनुगृह्णाति।
संस्कृते
---------
"प्राच्यम्बरं विशदमित्यचरन् महिष्यः, नीहारबालतृणभक्षणसम्भ्रमाढ्याः।
शिष्टाश्च बालमहिळा गमने प्रवृत्ताः ताश्चावरुध्य समगाम समाह्वयन्त्यः॥
त्वा मुत्तमे बहु कुतूहलिनि! प्रबोध गीत्याततं समवगृह्य हयासुरास्यम्।
दीर्णं विधाय हतमल्लमुपाश्रयेम देवादिदेव मयमप्यनुगृह्य ह्रेति॥
अस्मान् बिभर्ति/पिपर्ति सुविचार्य कृपासमुद्रः स्वामी सुशील सुलभाश्रित वत्सलोऽयम्।
ध्येयः फलं च करणं च स एव कृष्णः वृत्तं निसर्गमधुरं व्रतमस्मदीयम्।
तात्पर्यम्
-----------
श्रीकृष्णानुग्रहपरिपूर्णां अन्यां काञ्चन गोपकन्यकामुत्थापयत्यद्य गोदादेवी। प्रभातं ज्ञापयितुं आकाशः श्वेतोऽभवदित्युक्तवती गृहान्तस्स्थितां कन्यकाम्। सा तु, युक्तियुक्तं "प्रभातं न आगतमिति,आकाशश्वेतवर्णस्य कारणं आह्वयितुमागतानां कन्यकानां मुखचन्द्राणां तत्र प्रति फलनमेवेति वदति। तदा "महिष्यः घासं खादितुं विसृष्टा इति ज्ञापयति गोदादेवी सखीसहितम्। एतदपि न विश्वस्य अन्तस्था गोपिका "सर्वा आगता वा?" इति पृष्टवती। तदनु आण्डाळ् गच्छन्तं गोपिकाजनं सर्वमपि अवरुद्ध्य
आनीतवत्यहमित्युवाच। सर्वाः
सम्भूय केशिनाम्नः राक्षसस्य हन्तारं
चाणुरमुष्टिकसंहर्तारं च सेवितुं आगच्छेति,तथा क्रियते चेत् श्रीकृष्णस्य अनुग्रहं प्राप्नुयाम इति गोदादेवी गृहान्तस्स्थितां गोपकन्यकां प्रचोदितवती।
"श्रीमत्यै विष्णुचित्तार्य मनो नन्दनहेतवे। नन्दनन्दनसुन्दर्यै गोदायै नित्यमङ्गळम्॥"
प्रस्तुतिः –
–
–जय श्रीमन्नारायणः।
No comments:
Post a Comment