Friday, February 28, 2025

पितापुत्रौ in 3rd and 6th case

पितापुत्रौ इति प्रथमा-द्विवचने भवति। 
तृतीयायां *पितृपुत्राभ्यां* भवेत् उत *पितापुत्राभ्याम्?*
तथैव षष्ठ्यां *पितृपुत्रयोः* उत *पितापुत्रयोः?*  


Answer1:  पितापुत्राभ्यामित्येव भवति विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे परे इत्यनेन आनङ् भवत्येव
Answer 2:  *आनङृतो द्वन्द्वे* इति सूत्रमस्ति। ऋकारान्तानां द्वन्द्वे उत्तरपदे परतः ऋकारस्य आनङ्ङादेशो भवति।
होता च पोता च होतापोतारौ।
नेष्टा च उद्गाता च नेष्टोद्गातारौ।
होतापोतारौ च नेष्टोद्गातारौ च होतापोतानेष्टोद्गातारौ।
  यदि चतुर्णाम् एकैकशः विग्रहे प्रयोगः होता च पोता च नेष्टा च उद्गाता च तदा तु उपान्त्यस्यैव आनङ् होतृपोतृनेष्टोद्गातारः।
   अत्रावधेयम् उत्तरपदेनसमासे चरमपदस्यैव ग्रहणम् अतः उद्गातृपदे परे तृतीयस्य आनङ् विहितः।
    द्वे एव पदे चेत् माता च पिता च इति, तदा पितरि ऋकारान्ते पदे परे सति पूर्वपदस्य मातृ इत्यस्य आनङ् भवति। मातापितराविति।
   पितृपुत्रौ इत्यत्र उत्तरपदस्य पुत्रेत्यस्य ऋकारान्तत्वाभावान्नानङ्।

No comments:

Post a Comment