Tuesday, February 25, 2025

Brahman alone appearing as the jiva: Yajnavalkya Smriti

ब्रह्मैव जीवरूपेणावभासते - याज्ञवल्क्यस्मृतिः

Brahman alone appearing as the jiva: Yajnavalkya Smriti


Certain special aspects can be found in the 'Prayaschitta kAnda' of the Yajnavalkya Smriti.

Shankaracharya has quoted the Yajnavalkya Smriti as a reference in the Sanat Sujatiya Bhashyam on the topic: Brahman alone appearing as the jiva.

Some passages from this Smriti:

याज्ञवल्क्यस्मृतिः/प्रायश्चित्ताध्यायः/यतिधर्मप्रकरणम्
https://sa.wikisource.org/s/3ob

निमित्तं अक्षरः कर्ता बोद्धा ब्रह्म गुणी वशी ।
अजः शरीरग्रहणात्स जात इति कीर्त्यते । । ३.६९ । ।

Brahman, who has no birth in reality, comes to be a jiva owing to associating with the body. This is the same Brahman that the Upanishads specify as the cause of the world.

The verses in between here remind one of the scheme in the Purusha suktam:

It is from this Atman that the universe is created:

The commentary introduces these verses:  

आत्मनो जगज्जन्मेत्युक्तं तत्प्रपञ्चयितुमाह-
(It was stated in the foregoing that the Atman is the cause of the creation. That is being elaborated:)

सहस्रात्मा मया यो व आदिदेव उदाहृतः ।
मुखबाहूरुपज्जाः स्युस्तस्य वर्णा यथाक्रमम् । । ३.१२६ । ।  (ब्राह्मणोऽस्य मुखमासीत्, बाहू राजन्यः कृतः..)

पृथिवी पादतस्तस्य शिरसो द्यौरजायत ।    (पद्भ्यां भूमिः)
नस्तः प्राणा दिशः श्रोत्रात्स्पर्शाद्वायुर्मुखाच्छिखी । । ३.१२७ । ।

मनसश्चन्द्रमा जातश्चक्षुषश्च दिवाकरः । (चन्द्रमा मनसो ....)
जघनादन्तरिक्षं च जगच्च सचराचरम् । । ३.१२८ । ।


ननु यद्यात्मनः संसरणमनाद्यन्तं तर्हि अनिर्मुक्तिप्रमंग इत्यत आह-

(If the samsara of the Atman is without a beginning and end, then there is no way there is moksha.  The verse answers this objection:)

अनादिरात्मा संभूतिर्विद्यते नान्तरात्मनः ।
समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः । । ३.१२५ । ।

Even though there is no actual birth, the soul (Brahman) is said to be born due to the contact with the body, owing to desire, etc. And as karma and its fruit are finite there is no defect of no-moksha.

This is reminiscent of the Nrisimha Tapini Upanishad:

https://sanskritdocuments.org/doc_upanishhat/nrisinha.html

स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय एवायमात्मा सन्मात्रो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभुरद्वयानन्दः परः प्रत्यगेकरसः प्रमाणैरेतैरवगतः सत्तामात्रं हीदं सर्वं सदेव पुरस्तात्सिद्धं हि ब्रह्म...

This Upanishad states that 'Brahman, the Creator of the universe, though not deluded appears as though deluded. This sentence of the Upanishad is cited by Sayanacharya in the Purusha Suktam while commenting on the passage: '

सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा अभिवदन् यदास्ते ..'

यद्येवं स कथं ब्रह्मन्पापयोनिषु जायते ।
ईश्वरः स कथं भावैरनिष्टैः संप्रयुज्यते । । ३.१२९ । ।

(The Smriti also raises this question: If such is the Atman, how does it end up being born in lowly bodies?)

The Upanishad also takes care of the objection raised above and clearly states that this Brahman, which is behaving like a deluded jiva, needs the Upanishadic instruction, gets the aparoksha jnanam, and gets liberated:

'परं ब्रह्मात्मप्रकाशं शून्यं जानन्तस्तत्रैव..'  - (Those who know themselves as the Luminous Parabrahman that is the Atman and that is termed shunyam...) 'स्वप्रकाशमानन्दघनं शून्यमभवदेवंवित्स्वप्रकाशं परमेव ब्रह्म भवति ' (He who realizes that Brahman verily becomes That)

In this Yajnavalkya Smriti, it has been deliberated as to how Brahman comes to take birth even though it is pure.

This verse is quoted by Shankara in the Sanatsujatiya Bhashya.

आकाशं एकं हि यथा घटादिषु पृथग्भवेत् ।
तथात्मा एको ह्यनेकश्च जलाधारेष्विवांशुमान् । । ३.१४४ । ।

The Smriti says  the One only soul (Brahman) seems to take many forms just as the same one-only ether is spoken of to be many owing to limiting adjuncts, upadhis, and the moon/sun appearing as many in many waterbodies (that are the upadhis).  These two analogies are most famous in Advaita. Just one, out of the many, is given here, as both the analogies are stated in one place:

ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥  Bh.Gita 15.7::

(The jiva is My amsha. Shankara's Commentary: ममैव परमात्मनः नारायणस्य, अंशः भागः अवयवः एकदेशः इति अनर्थान्तरं जिवलोके जीवानां लोके संसारे जीवभूतः कर्ता भोक्ता इति प्रसिद्धः सनातनः चिरन्तनः ; यथा जलसूर्यकः सूर्यांशः जलनिमित्तापाये सूर्यमेव गत्वा न निवर्तते च तेनैव आत्मना गच्छति, एवमेव ; यथा घटाद्युपाधिपरिच्छिन्नो घटाद्याकाशः आकाशांशः सन् घटादिनिमित्तापाये आकाशं प्राप्य न निवर्तते । अतः उपपन्नम् उक्तम् 'यद्गत्वा न निवर्तन्ते' (भ. गी. १५ । ६) इति । ननु निरवयवस्य परमात्मनः कुतः अवयवः एकदेशः अंशः इति ? सावयवत्वे च विनाशप्रसङ्गः अवयवविभागात् । नैष दोषः, अविद्याकृतोपाधिपरिच्छिन्नः एकदेशः अंश इव कल्पितो यतः । दर्शितश्च अयमर्थः क्षेत्राध्याये विस्तरशः । स च जीवो मदंशत्वेन कल्पितः कथं संसरति उत्क्रामति च इति, उच्यते — मनःषष्ठानि इन्द्रियाणि श्रोत्रादीनि प्रकृतिस्थानि स्वस्थाने कर्णशष्कुल्यादौ प्रकृतौ स्थितानि कर्षति आकर्षति ॥ ७ ॥

The Yajnavalkya smriti says:

यथात्मानं सृजत्यात्मा तथा वः कथितो मया ।
विपाकात्त्रिप्रकाराणां कर्मणां ईश्वरोऽपि सन् । । ३.१८१ । ।

सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः ।
रजस्तमोभ्यां आविष्टश्चक्रवद्भ्राम्यते ह्यसौ । । ३.१८२ । ।

अनादिरादिमांश्चैव स एव पुरुषः परः ।
लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः । । ३.१८३ । ।

The commentary says:


मानसादित्रिप्रकारकर्मणां विपाकात् ईश्वरोऽपि सन्नात्मा यथाऽऽत्मानं सृजति तथा युष्माकं कथितः । सत्त्वादयश्च गुणास्तस्यैवाविद्याविष्टस्य कीर्तिताः । तथा स एव रजस्तमोभ्यामाविष्टश्चक्रवदिह संसारे भ्राम्यतीत्यपि कथितम् । स एवानादिः परमपुरुषः शरीरग्रहणेनाऽऽदिमान् (कुब्ज)वामनात्वादिविकारसहितः यथा स्थूलाकारतया परिणतो लिङ्गैरिन्द्रियैश्च ग्राह्यरूप उदाहृतः ॥ १८१॥ १८२॥१८३॥

(Brahman, though the Supreme, creates itself (into many bodies). The Sattva, etc. guNas, are this Atman's alone, in the state of avidya. ( This is states as mUDha in the Nr.Ta.Up.) . Owing to rajas and tamas affliction, Brahman wallows in samsara. He alone is the Parama Purusha, anAdi, appears as a produced body with various attributes such as short.)  
One Supreme Brahman, without any beginning, appears to be transformed into many bodies.


अहंकारः स्मृतिर्मेधा द्वेषो बुद्धिः सुखं धृतिः ।
इन्द्रियान्तरसंचार इच्छा धारणजीविते । । ३.१७४ । ।
स्वर्गः स्वप्नश्च भावानां प्रेरणं मनसो गतिः ।
निमेषश्चेतना यत्न आदानं पाञ्चभौतिकम् । । ३.१७५ । ।
यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः ।
तस्मादस्ति परो देहादात्मा सर्वग ईश्वरः । । ३.१७६ । ।
बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च ।
अहंकारश्च बुद्धिश्च पृथिव्यादीनि चैव हि । । ३.१७७ । ।
अव्यक्तं आत्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते ।
ईश्रवः सर्वभूतस्थः सन्नसन्सदसच्च यः । । ३.१७८ । ।

In the above verses it is said that there is a Consciousness which is different from the body. This is the Sentient being that illuminates the entire  not-self and is present in all bodies. This is the subject of chapter 13 of the Bhagavad Gita.

Thus, the Yajnavalkya Smriti accepts only one principle which is different from the body. This is the true nature of the Atman in Advaita.

Thus many doctrinal aspects of Advaita can be found in this  Yajnavalkya Smriti that belongs to very ancient times.

The Yajnavalkya Smriti is just one text, out of many such as the Upanishads, the Bhagavatam, etc., that very clearly depict the unique Advaitic tenets.  

Om Tat Sat

No comments:

Post a Comment