*श्रीरामायणकथा, सुन्दरकाण्डम्।*
(नवमः सर्गः)
हनुमद्द्वारा सीतायै मुद्रिकाप्रदानम्।
सीतायाः वचनं श्रुत्वा वानरशिरोमणिः हनुमान् तस्यै सान्त्वनां प्रयच्छन् अवदत् हे देवि! अहं श्रीरामचन्द्रस्य दूतः हनुमान् अस्मि, भवत्याः कृते च सन्देशं नीत्वा आगच्छामि। हे विदेहनन्दिनि! श्रीरामचन्द्रः लक्ष्मणः च कुशलिनौ स्तः। प्रभुः श्रीरामः भवत्याः कुशलवार्ताम् अपृच्छत्। श्रीरामचन्द्रः केवलं भवत्याः वियोगात् अत्यन्तं दुःखी शोकाकुलः च भवति। सः मद्द्वारा भवत्यै कुशलवार्ताम् अप्रेषयत्, तेजस्वी लक्ष्मणः भवत्याः चरणवन्दनम् अकरोत्।
पुरुषसिंहस्य श्रीरामस्य लक्ष्मणस्य च वार्तां श्रुत्वा देव्याः सीतायाः अत्यन्तं हर्षः अभवत्, शीर्णं हृदयकमलं पुनः विकसितम् अभवत्। विषादग्रस्ते मुखमण्डले आशायाः किरणः द्योतते स्म। एताम् अप्रत्याशितां सुखदवार्तां श्रुत्वा तस्याः मृतप्रायशरीरे नवजीवनस्य सञ्चारः अभवत्। तदा हि अकस्मात् सीता अचिन्तयत् यत् श्रीरामस्य दूतः इति कथयन् एषः वानरः कुत्रचित् स्वयं मायावी रावणः तु नास्ति? इत्थं विचिन्त्य सा वृक्षस्य शाखां त्यक्त्वा तूष्णीं पृथिव्याम् उपाविशत् अब्रवीत् च हे मायाविन्! त्वं स्वयं रावणः असि, मया सह च छलं कर्तुम् आगच्छसि। इत्थं त्वया कृतः छलः न शोभते न च रावणस्य कृते एतद् उचितम्। यदि त्वं स्वयं रावणः असि तर्हि त्वादृशस्य विदुषः शास्त्रज्ञस्य कृते एतत् कदापि न उचितम्। पूर्वं त्वं संन्यासिनः वेषं धृत्वा मां अपाहरः इदानीं वानरस्य वेषं धृत्वा मम मनसः भेदं ज्ञातुम् आगच्छसि। धिक् त्वाम्, तव पाण्डित्यं च धिक्।
इत्थं ब्रुवाणा सीता शोकमग्ना भूत्वा उच्चैः विलापं करोति स्म। देवी सीता हनुमति सन्देहं करोति इति विदित्वा हनुमतः अत्यन्तं दुःखम् अभवत्।
सः अवदत् हे मातः! भवत्याः भ्रमः अभूत्। अहं रावणः अथवा तस्य गुप्तचरः नास्मि। अहं तु भवत्याः प्राणेश्वरेण राघवेन्द्रेण प्रेषितः दूतः अस्मि। भवत्याः मनसः सर्वप्रकारं संशयं निवार्य मयि विश्वासं करोतु येन मत्तः भवत्याः सूचनां प्राप्य श्रीरामचन्द्रः अवश्यं दुरात्मनः रावणस्य विनाशं कृत्वा भवतीम् एतस्मात् कष्टात् उद्धरेत्। तद् दिनं दूरे नास्ति यद् रावणः तस्य कुकर्मणः फलं प्राप्स्यति, लक्ष्मणस्य तीक्ष्णबाणैः लङ्कापुरी ज्वलिता भस्मसात् भविष्यति।
*-प्रदीपः!*
No comments:
Post a Comment