Sunday, December 8, 2024

Srimad Ramayana Sundara kandam part 4a in sanskrit

*श्रीरामायणकथा, सुन्दरकाण्डम्!*
(चतुर्थः सर्गः)
हनुमद्द्वारा अशोकवाटिकायां सीतायाः अन्वेषणम्। 
(द्वितीयः खण्डः)

सा (सीता) शोकेन पीडिता दुःखेन सन्तप्ता चासीत्। तस्याः शरीरम् अत्यन्तं क्षीणं दृश्यते स्म।  उपवासेन दुर्बलायाः तस्याः नार्याः नेत्राभ्याम् अश्रूणि प्रवहन्ति स्म। सा चिन्तायां मग्ना भूत्वा निरन्तरं दुःखिता भवति स्म।  कृष्णनागिनीवत् तस्याः कटेः अधः पर्यन्तं लम्बितया कृष्णवेण्या उपलक्षिता सा नारी मेघे अपसारिते नीलवनश्रेण्या वेष्टिता पृथिव्याः समाना दृश्यते स्म।

महापराक्रमी हनुमान् तद् दृष्ट्वा अनुमानम् अकरोत् यत् सा हि सीता भवेत्। तस्याः वियोगात्  दशरथनन्दनः श्रीरामचन्द्रः व्याकुलः भवति। एषा तपस्विनी हि श्रीरामचन्द्रस्य हृदये अक्षुण्णरूपेण निवासं करोति। तामेव पुनः प्राप्तुं  रामचन्द्रः बालिं हत्वा सुग्रीवाय तस्य अपहृतं राज्यम् अदापयत्। 

तस्याः अन्वेषणाय अहं विशालं समुद्रं लङ्घित्वा लङ्काम् आगत्य लङ्कायाः सर्वाणि भवनानि निरीक्ष्य महादेव्याः सीतायाः अन्वेषणम् अकरवम्। एताम् अद्भुतसुन्दरीं प्राप्तुं यदि रघुनाथः सागरपर्वताभ्यां सह सम्पूर्णधरातलस्यापि विपर्ययं कुर्यात् तर्हि अपि अधिकं किमपि न स्यात्।  एवं पतिपरायणायाः साध्वीदेव्याः सम्मुखे त्रयाणां लोकानां राज्यं चतुर्दशभुवनानां च धनमपि तुच्छम्। अद्य एषा पतिव्रता देवी राक्षसराजरावणस्य निग्रहणे स्थित्वा असह्यं कष्टं सहते। अत्र मम मनागपि सन्देहः नास्ति यद् एषा सीता नास्ति, या तस्याः देवतुल्य-पत्युः प्रेम्णः कारणात् अयोध्यायाः सुखवैभवं सर्वं त्यक्त्वा रामचन्द्रेण सह वनस्य कष्टं हसित्वा हसित्वा सोढुम् आगच्छत्। अपिच नानाप्रकारदुःखं सोढ्वा अपि तस्याः पश्चात्तापः न अभवत्। सा एव सीता अद्य राक्षसीनां बन्धने बद्धा भूत्वा स्वप्राणनाथस्य वियोगात् काष्ठवत् क्षीणा अभवत्, किन्तु सा केनापि प्रकारेण तस्याः सतीत्वस्य हानिं न अकारयत्। अत्र सन्देहः नास्ति यद् यदि सा रावणस्य कुत्सितप्रस्तावं स्व्यकरिष्यत् तर्हि अद्य तस्याः इत्थं दशा न अभविष्यत्। 

रामं प्रति तस्याः मनसि कियान् अटलस्नेहः अस्ति इति एवं ज्ञायते यत् सा न तु अशोकवाटिकायाः  सुरम्यशोभां निरीक्षते न च तां वेष्टित्वा उपविष्टाः राक्षसीः। सा तु केवलं पृथिव्यां दृष्टिं पातयित्वा श्रीरामस्य छविं पश्यति। 
सीतायाः तादृशीं दीनदशां दृष्ट्वा भावुकपवनपुत्रस्य हनुमतः नेत्राभ्याम् अश्रूणि प्रवहन्ति स्म। सः स्वीयं कर्तव्यं विस्मृत्य निरन्तरम् अश्रूणि प्रवाहयन्ति स्म। कदाचित् सः सीतायाः दीनदशां पश्यति स्म, कदाचिच्च रामचन्द्रस्य उद्विग्नमुखण्डलस्य स्मरणं करोति स्म।
एवमेव हनुमान् चिन्तां कुर्वन् रात्रिम् अयापयत्।
 
प्रातःकाले यदा सूर्यः उदेति स्म तदा हि हनुमतः चेतना जागरिता अभवत् यत् रात्रिः तु समाप्ता अभवत्। चैतन्यं प्राप्य हनुमान् एवं विचारं करोति स्म, अहं सीतया सह मिलित्वा तया सह वार्तालापं कृत्वा श्रीरामचन्द्रस्य सन्देशं श्रावयेयम्।
*-प्रदीपः!*

No comments:

Post a Comment