*श्रीरामायणकथा, सुन्दरकाण्डम्!*
(चतुर्थः सर्गः)
हनुमद्द्वारा अशोकवाटिकायां सीतायाः अन्वेषणम्।
महावीरः हनुमान् सीतायाः अन्वेषणं करिष्यति इति निश्चयम् अकरोत्। यावदहं यशस्विन्याः श्रीरामस्य पत्न्याः सीतायाः दर्शनं न करिष्यामि तावद् लङ्कापुर्यां पुनः पुनः तस्याः अन्वेषणं करिष्यामि इति सः निश्चयम् अकरोत्। तदानीं सः अशोकवाटिकाम् अपश्यत् यस्यां वाटिकायाम् अनेके विशालाः वृक्षाः आसन्। अहं तु तत्र जानक्याः अन्वेषणं न अकरवम्। अतः इदानीं तत्र गत्वा जनककुमारीम् अन्विष्यामि।
सा अशोकवाटिका उन्नतभित्तिभिः वेष्टिता आसीत्। अतः वाटिकायाः अन्तः गमनस्य उद्देश्येन हनुमान् भित्तिम् आरोहत्। भित्तेः उपरि उपविश्य वीरः हनुमान् सालः, अशोकः, निम्बः, चम्पा इत्यादीन् वृक्षान् अपश्यत्। तत्र नागकेसरोऽपि आसीत्। पुष्पमञ्जरिभिः सुशोभिताः बहवः आम्रवृक्षाः अपि आसन्। अमराभिः युक्ताः ते वृक्षाः शतशः लताभिः आवेष्टिताः आसन्। धनुषः बाणः यथा गच्छति तथा वीरः हनुमान् कूर्दित्वा वाटिकायाः एकस्मिन् वृक्षे उपाविशत्।
सा विचित्रा वाटिका स्वर्णरजतयोः समानवर्णयुक्तैः वृक्षैः परिपूर्णा आसीत्। तत्र च नानाप्रकारपक्षिणां कलरवः गुञ्जति स्म। विविधाः विहङ्गाः , मृगसमूहाः च तस्याः वाटिकायाः शोभां वर्धयन्ति स्म। ते विचित्रकाननैः अलङ्कृताः आसन्, नवोदितसूर्यवत् च दृश्यन्ते स्म।
तस्यां वाटिकायां फलपुष्पैः परिपूर्णानां वृक्षाणां सेवनं कोकिलाः भ्रमराः च कुर्वन्ति स्म। मृगाः पक्षिणः च मदमत्ताः भवन्ति स्म। मयूराणां कलनादः निरन्तरं गुञ्जति स्म। वाटिकायां यत्र तत्र तडागाः आसन्। तेषु तडागेषु उत्तमं जलम् आसीत्। तेषु सर्वेषु तडागेषु मणियुक्तानि सोपानानि आसन्। तेषां तडागानां तटेषु विचित्राः स्वर्णमयवृक्षाः शोभन्ते स्म। जले च विकसितानि कमलपुष्पाणि, चक्रवाकाः, हंसाः सारसाः च शोभन्ते स्म।
तस्याम् अशोकवाटिकायां विश्वकर्मणा निर्मितानि महद्भवनानि कृत्रिमकाननानि च तस्याः (वाटिकायाः) शोभां वर्धयन्ति स्म।
तदन्तरं महाकपिः हनुमान् कञ्चन स्वर्णमयम् अशोकवृक्षम् अपश्यत् यः बहुभिः लताभिः पर्णैः च व्याप्तः आसीत्, तथा सः वृक्षः स्वर्णमयवेदिकया वेष्टितः आसीत्। महान् वेगी हनुमान् एवं विचिन्त्य तं वृक्षम् आरोहत् यत् सः तस्मात् वृक्षात् श्रीरामचन्द्रस्य प्रियपत्नीं सीतां द्रष्टुं शक्नुयात्, या दुःखेन आतुरा इच्छानुसारम् इतस्ततः आगच्छेत्।
तदानीं प्रातःकालस्य सन्ध्योपासनायाः समयः आसीत्। सन्ध्याकालिकोपासनायै सा वैदेही अवश्यं हि अत्र आगच्छेत्। एवं चिन्तयन् महात्मा हनुमान् नरेन्द्रपत्न्याः सीतायाः शुभागमनस्य प्रतीक्षायां तत्परः सन् तस्मिन् अशोकवृक्षे निलीय तत् सम्पूर्णं वनं सम्यक् पश्यति स्म।
तस्याम् अशोकवाटिकायां वानरशिरोमणिः हनुमान् किञ्चिद् दूरे कञ्चन गोलाकारम् उन्नतं सहस्रशः स्तम्भैः युक्तं प्रासादम् अपश्यत् यः प्रासादः कैलाशपर्वतस्य समानः श्वेतवर्णः आसीत्। तस्मिन् प्रासादे प्रवालस्य सोपानानि स्वर्णस्य च वेदिकाः निर्मिताः आसन्। पवनसुतः हनुमान् तत्र काञ्चित् सुन्दरीं स्त्रियम् अपश्यत् या मलिनवस्त्रेण राक्षसीभिः वेष्टिता आसीत्। सा अलङ्कारशून्या इत्यतः सा कमलैः रहिता पुष्करिणी यथा श्रीहीना दृश्यते स्म।
*-प्रदीपः!*
No comments:
Post a Comment