Monday, December 9, 2024

Srimad Ramayana Sundara kandam part 5 in sanskrit

*श्रीरामायणकथा, सुन्दरकाण्डम्।*
(पञ्चमः सर्गः)
सीतारावणयोः संवादः।

एवं प्रकारेण पुष्पितैः वृक्षैः सुशोभितस्य तस्य वनस्य शोभां पश्यन् विदेहनन्दिन्याः चान्वेषणं कुर्वन् हनुमान् समस्तरात्रिम् अयापयत्। प्रातःकाले सम्पूर्णवेदानां ज्ञातुः तथा श्रेष्ठयज्ञद्वारा यजनं कुर्वाणस्य ब्रह्मराक्षसस्य गृहे हनुमान् वेदपाठस्य ध्वनिम् अशृणोत्। 
तदन्तरं मङ्गलवाद्य-सुखदश्रवणशब्दैः महाबाहुः दशाननः रावणः अजागायत।  जागरित्वा हि महाप्रतापी राक्षसराजः रावणः सर्वप्रथमं विदेहनन्दिन्याः सीतायाः चिन्तनम् अकरोत्। सीतां प्रति आसक्तः कामेन च प्रेरितः रावणः सर्वप्रकाराभूषणानि धृत्वा उत्तमवस्त्रैः सुसज्जितः भूत्वा अशोकवाटिकां प्राविशत्।

पुलस्त्यनन्दनस्य रावणस्य पृष्ठतः प्रायः शतं सुन्दर्यः आसन्।
कामस्य आधीनः सीतायाः चिन्तनं कुर्वन् मन्दगत्या अग्रे गच्छन् रावणः अत्यन्तं शोभते स्म।

 कामदर्पमदैः युक्तः अचिन्त्यबलपौरुषसम्पन्नः रावणः अशोकवाटिकायाः द्वारं यदा प्राप्नोत् तदा महावीरः हनुमान् तम् अपश्यत्। यद्यपि मतिमान् हनुमान् अत्यन्तम् उग्रतेजस्वी आसीत्, तथापि रावणस्य तेजसा तिरस्कृतः भूत्वा वृक्षस्य सघनपर्णेषु निलीय उपाविशत्।
अनिंद्यसुन्दरी राजकुमारी सीता यदा उत्तमोत्तमाभूषणैः विभूषितं रूपयौवनाभ्यां सम्पन्नम् आगच्छन्तं राक्षसराजं रावणम् अपश्यत् तदा प्रचण्डवातेन यथा कदलीवृक्षः कम्पते तथा सा अपि भयेन कम्पते स्म।

सुन्दरकान्तियुक्ता विशाललोचना जानकी तदा तस्याः उरुभ्याम् उदरं बाहुभ्यां च स्तनद्वयं गूहित्वा रोदिति स्म।
निशाचरीभिः वेष्टिताम् आसनरहितां भूमौ आसितां शोकेन विह्वलां सीतां ध्यानपूर्वकं रावणः अपश्यत् या दृष्टिम् अधः कृत्वा ध्यानेन केवलं पृथिवीं पश्यति स्म।
तादृश्याः दुःखितायाः जानक्याः समीपं गत्वा रावणः हसन् अब्रवीत् हे मृगनयने! मां दृष्ट्वा त्वं तव शरीरं गूहितुं किमर्थं प्रयत्नं करोषि? स्मर्यतां यत् तव इच्छां विना अहं कदापि तव स्पर्शं न करिष्यामि। त्वं मयि मम कथने च विश्वासं कुरु। अपिच इत्थं दुःखिता भूत्वा अश्रूणि न प्रवाहयस्व। तव एतद् मलिनवस्त्रम्  आभूषणरहितं वेषं दृष्ट्वा मम अत्यधिका पीडा भवति। त्वं संसारस्य सुन्दरीषु अन्यतमा असि!  तव एतत् सौन्दर्यं यौवनं च वृथा नष्टं मा कार्षीः। यदि तव यौवनं नष्टं भवेत् तर्हि पुनः तद् यौवनं न प्राप्नुयाः। अहं पुनः कथयामि, त्वं विश्वस्य अनुपमा सुन्दरी, विधातुः च अद्वितीया सृष्टिः असि।

 तव निर्माणे ब्रह्मदेवः स्वीयं सर्वं कौशलं चातुर्यं च न्यवेशयत्। तव कस्य कस्य अङ्गस्य प्रशंसां कुर्याम्। तव यस्मिन् अङ्गे मम दृष्टिः पतति ततः न अपसरति। अहं त्वां मम हृदयेन प्राप्तुम् इच्छामि। अहं तव प्रत्येकम् अङ्गस्य रसास्वादनं कर्तुम् इच्छामि, अतः त्वां ब्रवीमि, त्वं रामस्य मोहं त्यज। अहं त्वां मम पत्नीरूपेण स्वीकरिष्यामि। मम सर्वाः राज्ञ्यः तव चरणयोः दास्यः भूत्वा स्थास्यन्ति।  मम बाहुबलेन अर्जितं सर्वं धनं तुभ्यं समर्पयिष्यामि। युद्धे विजितं समस्तराज्यं तव पित्रे जनकाय दास्यामि।  त्वं वास्तवेन एतावती सुन्दरी असि यत् तव निर्माता विधाता अपि त्वां दृष्ट्वा कामेन वशीभूतः भवेत्, मम तु का वार्ता? अतः त्वं मम प्रस्तावम् अङ्गीकुर्याः। 

रामात् भयस्य मनागपि आवश्यकता नास्ति।  संसारे कश्चिदपि नास्ति यः मया सह युद्धं कृत्वा विजयं प्राप्नुयात्। उत्तिष्ठ! चल! सुन्दरं वस्त्राभूषणं धृत्वा मया सह रमणं कुरु। हे कल्याणि! चल! मया सह गत्वा त्वं मम ऐश्वर्यं पश्य, तं भिक्षुकं वनवासिनं रामं विस्मर। त्वं हि चिन्तय, रामस्य पार्श्वे न राज्यम् अस्ति, न वा धनम् अस्ति, न कश्चिद् दासः अस्ति, न च किमपि साधनम् अस्ति। पुनः कः वक्तुं शक्नुयात् यत् सः जीवितः अस्ति उत अम्रियत। सः जीवितः वा भवतु, परन्तु त्वं तु तस्य समीपं गन्तुं न शक्नोषि न च सः अत्र आगन्तुं शक्नुयात्। अत एव चिन्तायाः परित्यागं कृत्वा निश्चिन्ता भूत्वा मया सह रमणं कुरु।
*-प्रदीपः!*

No comments:

Post a Comment