Friday, December 6, 2024

Srimad Ramayana Sundara kandam part 3a in sanskrit

*श्रीरामायणकथा, सुन्दरकाण्डम्।*
(तृतीयः सर्गः)
लङ्कायां सीतायाः अन्वेषणम्।
(द्वितीयः खण्डः)

तस्मिन् भवने कपिराजः हनुमान् स्फटिकस्य एकस्मिन् सुन्दरे पर्यङ्के रावणम् अपश्यत्। सः मद्यपानं कृत्वा अनिन्द्यसुन्दरीभिः सह क्रीडति स्म। तस्य नेत्रे अर्द्धनिमीलिते आस्ताम्। अनेकरमणीनां वस्त्राभूषणानि  अस्तव्यस्तानि आसन्। तत्र सीतां न दृष्ट्वा पवनसुतः ततः बहिः आगच्छत्।
पुनः हनुमान् रावणस्य अन्येषां निकटसम्बन्धिनां  निवासस्थानेषु सीतायाः अन्वेषणम् अकरोत्, परन्तु सीता कुत्रापि नासीत्।
तत्पश्चात् हनुमान् रावणस्य पत्न्याः मन्दोदर्याः भवनं प्राविशत्। तत्र मन्दोदरी अपि स्वीये शयनागारे स्फटिकस्य एकस्मिन् श्वेतपर्यङ्के शेते स्म।

तस्याः शय्यां परितः विविधवर्णानां पुष्पमालाः  दोल्यन्ते स्म। तस्याः अद्भुतरूपम्, लावण्यम्, सौन्दर्यम्, यौवनं च दृष्ट्वा हनुमतः मनसि विचारः उत्पद्यते स्म, सम्भवतः एषा हि जनकनन्दिनी सीता अस्ति। परन्तु तत्क्षणं हि सः पुनः अचिन्तयत् यद् एषा सीता भवितुं नार्हति, यतः रामचन्द्रस्य वियोगात् पतिव्रता सीता न तु शयितुं शक्नुयात् न च सा ईदृशानि आभूषणानि धृत्वा शृङ्गारं कर्तुं शक्नुयात्। अत एव एषा स्त्री अनुपमलावण्यमयी अस्ति चेदपि सीता कदापि भवितुं नार्हति। 
एवं विचिन्त्य सः निराशः सन् मन्दोदर्याः प्रकोष्ठात् बहिः आगच्छत्। 

ततः बहिः आगत्य अकस्मात् वीरः हनुमान् अचिन्तयत्, अद्य अहं परस्त्रियम् एवम् अस्तव्यस्तवेषेण दृष्ट्वा महत् पापम् अकरवम्। सः पश्चात्तापं करोति स्म।  पुनः सः एवं विचिन्त्य आत्मने सान्त्वनाम् अददात् यत् तां दृष्ट्वा तु मम मनसि कश्चिदपि विकारः न उदपद्यत, अतः एतत् पापं नास्ति।
पुनः यस्य कार्यस्य उद्देश्येन अहम् अत्र आगच्छं तस्य पूर्तये  अनिवार्यरूपेण सर्वाः स्त्रियः अवलोकयेयम्। एतेन विना मम कार्यं कथं सम्पूरयेयम्। 
पुनः सः चिन्तयति स्म, सीतां तु अहं कुत्रापि न अपश्यम्। किं  रावणः ताम् अहन्?  यदि एवमस्ति तर्हि मम सर्वः परिश्रमः व्यर्थः अभवत्। 

नहि! मया कृतम् एतत् चिन्तनं नास्ति उचितम्। यावद् अहं लङ्कायाः सर्वं स्थानं न पश्येयं तावत् अहं निराशः न भवेयम्। एवं विचिन्त्य वायुपुत्रः हनुमान् तत्तत् स्थानं गत्वा सीतायाः अन्वेषणम् अकरोत् यत्र किञ्चिदपि असावधानता तस्य कृते महान् अनर्थः अभविष्यत्।  तेषु तेषु स्थानेषु सः रावणद्वारा अपहृताः अनुपमसुन्दरीः नागकन्याः किन्नरीः च अपश्यत्, परन्तु देवीं सीतां न अपश्यत्। सर्वतोभावेन सः निराशः सन् अचिन्तयत्, अहं सीतायाः वार्तां विना किष्किन्धाम् अपगम्य कमपि मम मुखं दर्शयितुं न शक्नोमि, अतः अत्रैव उषित्वा जानक्याः अन्वेषणं करिष्यामि अथवा स्वीयान् प्राणान् त्यक्ष्यामि। एवं विचिन्त्य महावीरः हनुमान् सीतायाः अन्वेषणकार्यं न अत्यजत्। 
*-प्रदीपः!*

No comments:

Post a Comment