*श्रीरामायणकथा, सुन्दरकाण्डम्।*
(तृतीयः सर्गः)
लङ्कायां सीतायाः अन्वेषणम्।
एवं प्रकारेण सुग्रीवस्य हितं कुर्वाणः कपिराजः हनुमान् लङ्कापुरीं प्राविशत्। सः राजमार्गस्य साहाय्येन तां रमणीयलङ्कापुरीं प्रति अगच्छत्। तत्र स्वर्णेन निर्मितेषु विशालभवनेषु दीपाः ज्वलन्ति स्म। कुत्रचिद् नार्यः नृत्यं कुर्वन्ति स्म कुत्रचित् च मद्यपानं कृत्वा उन्मत्ताः भूत्वा राक्षसाः अनर्गलप्रलापं कुर्वन्ति स्म। एवमेव हनुमान् राक्षसराजरावणपालितां समृद्धशालिनीं लङ्कानगरीं पश्यति स्म।
तदानीं सः रावणपालितां लङ्कानगर्याः अधिष्ठात्रीदेवीम् अपश्यत्। पवनतनयः हनुमान् लङ्कानगरीं प्रवेष्टुम् उद्यतः इति दृष्ट्वा सा विकटवदना अधिष्ठात्री देवी स्वयं हनुमतः पुरतः आगत्य अपृच्छत् अरे वानर! त्वं कः? केन कार्येण त्वम् अत्र आगच्छः? यावत् तव शरीरे प्राणाः सन्ति तावद् मम प्रश्नस्य यथार्थम् उत्तरं देहि। रे वानर! एषा नगरी मयैव रक्षिता अस्ति, अतः त्वं कदापि एतां नगरीं प्रवेष्टुं न शक्नोषि।
वीरः हनुमान् तदा ताम् अवदत् हे देवि! त्वं यत् परिपृच्छसि तस्य उत्तरम् अहम् अनन्तरं वदिष्यामि। आदौ त्वं कथय, त्वं का? स्त्री भूत्वापि किमर्थं पुरद्वारे अवतिष्ठसे? किमर्थं च त्वं कुपिता भूत्वा मां भर्त्सयसे? पवनतनयस्य हनुमतः वचनं श्रुत्वा इतोपि कुपिता भूत्वा कामरूपिणी लङ्काधिष्ठात्री देवी अवदत् , अहं राक्षसराजस्य महात्मनः रावणस्य आज्ञानुवर्तिनी भूत्वा अस्याः नगर्याः रक्षणं करोमि। मम अवज्ञां कृत्वा कश्चिदपि इमां नगरीं प्रवेष्टुं न शक्नुयात्। अरे वानर! अहं लङ्कानगर्याः अधिष्ठात्रीदेवी , स्वयम् इमां सर्वतोभावेन रक्षणं करोमि।
अहं त्वां पुनः वदामि, मम अवज्ञां कृत्वा त्वं नगरीं प्रवेष्टुं न शक्नोषि, प्रत्युत त्वं मम हस्तेन मरिष्यसि।
तस्याः वचनं श्रुत्वा वायुपुत्रः हनुमान् अब्रवीत् हे देवि! अहं लङ्कानगर्याः सर्वाणि भवनानि, गृहमुख्यानि, काननानि च द्रष्टुम् आगच्छामि। अत्रत्यं सर्वं सौन्दर्यं द्रष्टुं मम कौतूहलम् अभूत्।
हनुमतः तद् वचनं श्रुत्वा कामरूपिणी लङ्काधिष्ठात्री देवी इतोपि कर्कशस्वरेण अवदत् अरे दुर्बुद्धे! त्वं माम् अजित्वा इमां पुरीं द्रष्टुं न शक्नोषि। पुनः हनुमान् अवदत् भद्रे! अहम् इमां नगरीं दृष्ट्वा पुनः यथास्थानं गमिष्यामि। तत्क्षणं हि कुपिता भूत्वा कामरूपिणी लङ्काधिष्ठात्री देवी भयङ्करचीत्कारपूर्वकं हनुमन्तं हस्तेन प्राहरत्। तया ताडितः भूत्वा मारुतात्मजः कुपितः अभवत्, किन्तु सा स्त्री अस्ति इति दृष्ट्वा तेन अतिक्रोधः न कृतः। तदानीं वीर्यवान् हनुमान् तस्य वामहस्तस्य मुष्ट्या तां प्राहरत्।
हनुमतः मुष्टिप्रहारं प्राप्य सा लङ्काधिष्ठात्री देवी कम्पिता भूत्वा सहसा भूमौ अपतत्। एवं दृष्ट्वा कपिवरः हनुमान् सा स्त्री इति विवेचनं कृत्वा पुनः तस्याः उपरि प्रहारं न अकरोत्। ततः परं सा देवी अत्यन्तम् उद्विग्ना भूत्वा हनुमन्तं गर्वितं वाक्यम् अवदत् हे महाबाहो कपिवर! मां त्रायस्व! अहं त्वया पराजिता अभवम्। हे वानरश्रेष्ठ! ब्रह्मदेवः मह्यं वरम् अददात्, तद्विषये अहं त्वां वदामि। "यदा त्वं कस्यचिद् वानरस्य विक्रमे वशीभूता भवेः तदा त्वया विज्ञेयं यद् राक्षसानां भयम् आगतम्। हे प्रियदर्शन! स्वयम्भूविहितः विषयः कदापि व्यतिक्रमः न भवति। अद्य त्वां दृष्ट्वा अहं ज्ञातुम् अशक्नवं यत् सीतायाः कारणात् रावणेन सह सर्वेषां राक्षसानां विनाशः समुपागतः। अतः हे कपिश्रेष्ठ! रावणपालिताम् इमां नगरीं प्रविश्य त्वं यत् कर्तुम् इच्छसि तत् कुरु।
ततः परं हनुमान् किञ्चिद् अग्रे गत्वा अपश्यत्, केचन राक्षसाः मन्त्रोच्चारणं कुर्वन्तः स्वाध्याये तत्पराः भवन्ति स्म। रावणस्य अनेके गुप्तचराः अपि तेन दृष्टाः।
पवनसुतः हनुमान् नगरस्य सर्वाणि भवनानि एकान्तस्थानान्यपि निरीक्ष्य सीतायाः अन्वेषणम् अकरोत्, परन्तु कुत्रापि सीता न दृष्टा। सः निराशः अभवत्। अन्ते च सः रावणस्य तं राजप्रासादं प्राविशत् यत्र लङ्कायाः मन्त्रिणः, सचिवाः, प्रमुखसभासदः च निवसन्ति स्म। तत्र सम्यग् निरीक्ष्य अनन्तरं सः रावणस्य अत्यन्तं प्रियं बृहद्भवनम् अगच्छत्। तस्य भवनस्य सोपानानि रत्नजटितानि आसन्। स्वर्णेन निर्मितानि वातायनानि दीपानां प्रकाशैः द्योतन्ते स्म। भवनस्य चालः स्तम्भाः च मणिरत्नैः सुसज्जिताः आसन्। इन्द्रस्य भवनादपि अधिकं सुसज्जितं तद् भव्यं भवनं दृष्ट्वा हनुमान् अत्यन्तं विस्मितः अभवत्।
*-प्रदीपः!*
No comments:
Post a Comment