*श्रीरामायणकथा, सुन्दरकाण्डम्।*
(द्वितीयः सर्गः)
लङ्कापुर्यां हनुमतः प्रवेशः।
चतुश्शतयोजनमितं समुद्रं लङ्घित्वा महापराक्रमी हनुमान् त्रिकूटपर्वतं गत्वा अतिष्ठत्। सः मनागपि श्रान्तः नाभवत् न च सः दीर्घनिःश्वासम् अत्यजत्। कपिश्रेष्ठः हनुमान् तत्र सरलः, कर्णिकारः, खर्ज्जुरः, पियलः, मुचुलिन्दः, कुटजः, केतनम्, प्रियङ्गुः, गन्धपूर्णः, नीपः, सप्तच्छदः, असनः, कोविदारः, करवीरः इत्यादीनां वृक्षान् अपश्यत्। पुष्पैः च परिपूर्णाः बहवः वृक्षाः अपि अदृश्यन्त। येषां शाखासु बहवः पक्षिणः कलरवं कुर्वन्ति स्म।
हनुमान् शनैः शनैः अद्भुतशोभासम्पन्नायाः रावणपालितलङ्कापुर्याः समीपम् अगच्छत्। सः तत्र अपश्यत्, लङ्कायाः चतसृषु दिक्षु कमलैः सुशोभिताः जलपूरिततडागाः आसन्। सा लङ्कापुरी स्वर्णेन निर्मितैः भित्तिभिः वेष्टिता आसीत्। लङ्कापुरीं परितः श्वेतवर्णस्य उन्नताः उन्नताः मार्गाः आसन्। शतशः गगनचुम्बिभवनानि तस्याः नगर्याः शोभां वर्धयन्ति स्म।
लङ्कापुर्याः उत्तरद्वारं गत्वा महावीरः हनुमान् चिन्तायाम् अपतत्। लङ्कापुरी भयानकराक्षसैः तादृशी परिपूर्णा आसीत् यादृशी पातालस्य भोगवतीपुरी नागैः परिपूर्णा भवति। हस्ते शूलं खड्गं च आदाय महान्तः शूरवीराः भयानकराक्षसाः लङ्कापुर्याः रक्षणं कुर्वन्ति स्म। नगरस्य कठोरसुरक्षा, तं परितः समुद्रः, रावणः यथा भयङ्करः शत्रुः इत्यादीन् दृष्ट्वा हनुमान् विचारं करोति स्म यद् यदि वानराः अत्र आगच्छेयुः तर्हि अपि सर्वं व्यर्थं भवेत् यतः युद्धद्वाराः देवता अपि लङ्कायाः उपरि विजयं प्राप्तुं न शक्नुयात्।
रावणपालिताम् इमां विषमसङ्कटपूर्णलङ्कां यदि महाबाहुः रामचन्द्रः अपि आगच्छेत् तर्हि सः किं कुर्यात्?
राक्षसानाम् उपरि साम, दानम्, भेदः इत्यादीनां नीतेः प्रयोगः सर्वथा निष्फलः भवेत्, अपिच एवं प्रकारेण ते राक्षसाः वशीभूताः कदापि न भवेयुः। अत्र तु केवलं चत्वारः वानराः अर्थात् बालिपुत्रः अङ्गदः, नीलः, बुद्धिमान् राजा सुग्रीवः, अहं च आगन्तुं शक्नुयाम। अस्तु, आदौ विदेहकुमारी सीता जीविता अस्ति उत न इति जानीयाम्। जनकनन्दिन्याः दर्शनं कृत्वा अनन्तरं हि अस्मिन् विषये चिन्तयिष्यामि।
महाबली हनुमान् अचिन्तयत्, वानररूपेण अहं राक्षसानाम् एतद् नगरं प्रवेष्टुं न शक्नुयाम्, यतः बहवः क्रूराः बलवन्तः राक्षसाः तस्य रक्षणं कुर्वन्ति। जानक्याः अन्वेषणसमये अहं तेभ्यः महापराक्रमिभ्यः क्रूरराक्षसेभ्यः गुप्तः भवेयम्। अतः अहं रात्रौ हि नगरं प्रवेक्ष्यामि। सीतायाः अन्वेषणस्य एतत् समयोचितं कार्यं कर्तुम् अहं तादृशं रूपं धरेयं यस्मात् मां कश्चिदपि द्रष्टुं न शक्नुयात्। केवलमात्रं कार्यात् हि एतद् अनुमानं भवेत् यत् कश्चन आगच्छत् इति।
देवानाम् असुराणां च कृते अपि दुर्जयलङ्कापुरीं दृष्ट्वा हनुमान् वारं वारं दीर्घश्वासं गृह्णन् विचारं करोति स्म, अहं केन उपायेन कार्यं कुर्यां यत्र दुरात्मनः राक्षसराजस्य रावणस्य दृष्टितः निलीय जनकनन्दिन्याः सीतायाः दर्शनं कर्तुं शक्नुयाम्! अविवेकपूर्णं कार्यं कुर्वाणस्य दूतस्य कारणात् सुव्यवस्थितं कार्यमपि नष्टं भवति। यदि राक्षसाः मां पश्येयुः तर्हि रावणस्य अनर्थम् इच्छतः श्रीरामस्य कार्यं सफलं न भवेत्। अतः स्वीयं कार्यं साद्धुम् अहं लघुरूपं धृत्वा अस्मिन् वेषे हि लङ्कां प्रविश्य सीतायाः अन्वेषणं करिष्यामि।
एवं निश्चयं कृत्वा वानरश्रेष्ठः हनुमान् सूर्यास्तस्य प्रतीक्षां करोति स्म। यदा सूर्यास्तम् अभवत् तदा सः स्वीयं शरीरम् अत्यन्तं लघ्वाकारं कृत्वा कूर्दित्वा लङ्कापुरीं प्राविशत्।
*-प्रदीपः!*
No comments:
Post a Comment