*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(त्रयोदशः सर्गः)
जाम्बवद्वारा हनुमतः शक्तिस्मारणम्।
(द्वितीयः खण्डः)
कथं वयं समुद्रं लङ्घितुम् शक्नुयाम इति विचिन्त्य ते सर्वे निराशाः दुःखिताः च अभवन्। एवं दृष्ट्वा वृद्धः जाम्बवान् अवदत् हे पवनसुत! त्वं किमर्थं तूष्णीम् असि? त्वं तु वानरराजस्य सुग्रीवस्य समानः पराक्रमी असि। तेजसा बलेन च त्वं रामलक्ष्मणयोः समानः भवितुम् अर्हसि। तव वेगः विक्रमः च पक्षिराजगरुडात् केनापि प्रकारेण न्यूनः नास्ति यः समुद्रात् महान्तं महान्तं सर्पं निष्कास्य गिरति। तव एतावद् अतुलं बलं साहसं च अस्ति चेदपि त्वं समुद्रं लङ्घित्वा सीतायाः समीपं गन्तुं किमर्थं सज्जः न भवसि?
तव तु समुद्रे अथवा लङ्कायां मृत्योः अपि भयं नास्ति, यतः देवराजः इन्द्रः तुभ्यम् इच्छामृत्योः वरदानम् अददात्। यदा त्वम् इच्छसि तदा हि तव मृत्युः भवितुम् अर्हति अन्यथा न। त्वं केशरिणः क्षेत्रज्ञः वायुदेवस्य च औरसजातः पुत्रः असि, अतः त्वं तादृशः महान् तेजस्वी, अबाधगतिः च तवास्ति। अस्मासु त्वमेव सर्वाधिकः साहसी शक्तिशाली च असि। अतः हे पवनकुमार! उत्तिष्ठ! महासागरं लङ्गतात्। त्वमेव एतेषां निराशवानराणां चिन्तां दूरीकर्तुं शक्नुयाः।
अहं जानामि यद् एतत् कार्यं युष्मासु केवलं जनद्वयं हि कर्तुं शक्नुयात्, त्वम् अङ्गदः च। परन्तु अङ्गदः तु इदानीं बालकः अस्ति। यदि तस्य दोषः भवेत्, अपिच कथञ्चित् तस्य मृत्युः भवेत् तर्हि सर्वे सुग्रीवस्य उपरि दोषारोपणं करिष्यन्ति वदिष्यन्ति च यद् निष्कण्टकः भूत्वा राज्यं पालयितुं सः तस्य भ्रातृजम् अहन् इति।
यदि अहं वृद्धावस्थायाः कारणात् दुर्बलः न अभविष्यं तर्हि सर्वप्रथमं तु अहमेव समुद्रम् अलङ्गिष्यम्। अतः हे वीर! त्वं स्वीयां शक्तिं सम्यग् जानीहि, समुद्रस्य लङ्गनाय च तत्परः भव।
जाम्बवतः प्रेरणादायकं वचनं श्रुत्वा स्वक्षमतायां बले च हनुमतः पूर्णविश्वासः अभवत्। तत्क्षणं हि हनुमान् स्वबाहू प्रसार्य तस्य सशक्तरूपस्य प्रदर्शनं कुर्वन् गुरुजनान् अवदत्, भवताम् आशीर्वादैः अहं विद्युद्वद् क्षणाभ्यन्तरे आकाशे डयिष्ये। मम विश्वासः अभवत् यद् अहं लङ्कां गत्वा अवश्यं हि विदेहकुमार्याः सीतायाः दर्शनं करिष्यामि।
एवमुक्त्वा हि हनुमान् घोरगर्जनम् अकरोत् यस्मात् सर्वेषां वानराणां हृदयं हर्षेण प्रफुल्लितम् अभवत्। तेभ्यः आज्ञां नीत्वा हनुमान् महेन्द्रपर्वतस्य शिखरम् आरोहत्, मनसा च समुद्रगभीरस्य अनुमानं करोति स्म।
॥किष्किन्धाकाण्डं समाप्तम्॥
*-प्रदीपः!!*
No comments:
Post a Comment