Monday, December 2, 2024

Srimad Ramayana Sundara kandam part 1 in sanskrit

*श्रीरामायणकथा, सुन्दरकाण्डम्!*
(प्रथमः सर्गः) 
हनुमतः समुद्रलङ्घनम्।

महद्भिः गजराजैः परिपूर्णस्य महेन्द्रपर्वतस्य समतलभूमौ स्थितस्य हनुमतः छाया जलाशये अपतत्। सा छाया विशालकायगजस्य छाया इव प्रतीयते स्म। सूर्यः, इन्द्रः, पवनः, ब्रह्मदेवः  इत्येतान् सर्वान् देवान् प्रणम्य हनुमान् समुद्रं लङ्घितुं दृढनिश्चयम् अकरोत्, सः च तस्य शरीरम् असीमितं स्थूलम् अकरोत्। तत्समये तस्य महाकायरूपम् अग्निवद् दृश्यते स्म। 

सः तस्य सहचरवानरान् अवदत् हे सखायः! श्रीरामचन्द्रेण क्षिप्तः बाणः यथा वायुवेगेन चलति तथा अहमपि वायुवेगेन लङ्कां गमिष्यामि। तत्र गत्वा अहं सीतायाः अन्वेषणं करिष्यामि। यदि तत्रापि देवीं सीतां न प्राप्स्यामि तर्हि रावणं हि बद्ध्वा आनीय श्रीरामचन्द्रस्य चरणयोः पुरतः स्थापयिष्यामि। भवन्तः विश्वासं कुर्वन्तु यद् अहं सर्वथा कृतकृत्यः भूत्वा सीतया सह प्रत्यागमिष्यामि, अन्यथा रावणेन सह तस्य समस्तलङ्कापुरीं नाशयेयम्।

एवमुक्त्वा हनुमान् आकाशे डयित्वा अत्यन्तं तीव्रवेगेन लङ्कां प्रति प्रस्थानम् अकरोत्। तस्मिन् डयमाने सति वायोः तीव्रवेगकारणात्  सालादयः अनेके वृक्षाः भूमौ अपतन्। अनेन सहैव हनुमान् आकाशे अडयत।  
पुनः किञ्चित् कालानन्तरम् एकैकं कृत्वा भूमौ पतिताः सर्वे वृक्षाः समुद्रे अपतन्। वृक्षेभ्यः पृथग् भूत्वा नानाप्रकारपुष्पाणि समुद्रे अपतन्। तद् दृश्यं दृष्ट्वा एवं प्रतीयते यत्  शरदृतोः नक्षत्राणि जलस्य तरङ्गैः सह क्रीडन्ति इति। तीव्रवेगेन डयमानं महाकपिनं पवनसुतं दृष्ट्वा एवं प्रतीयते स्म यत् सः महासागरस्य अनन्तनभस्य च मध्ये स्थित्वा आचमनं कुर्वन् डयते इति। 

केषाञ्चन दर्शकानां दृष्ट्यां तु एवं यद् आकाशे  तेजस्वी सूर्यः चन्द्रः च उभावपि युगपत् जलनिधिं प्रकाशयतः स्म। वायुवेगेन गच्छतः हनुमतः विद्युत्तुल्यं समुज्ज्वलं नेत्रद्वयम् अग्निवत् प्रकाशितं भवति स्म। 
आकाशे डयमानस्य पवनतनयस्य हनुमतः विक्षिप्तम् उत्क्षिप्तं लाङ्गुलम् इन्द्रध्वजवत् शोभते स्म।
तस्य पक्षान्तर्गतो वायुः वर्षाकालस्य मेघवद् गर्जति स्म। आकाशे डयमानस्य हनुमतः विशालशरीरस्य प्रतिबिम्बः समुद्रजले पतति स्म। सः प्रतिबिम्बः समुद्रस्य तरङ्गैः सह मिलित्वा एवं भ्रमः उत्पद्यते स्म यत् तद्दृष्ट्वा महासागरे काचिद् नौका तरति इति प्रतीयते स्म। एवं प्रकारेण हनुमान् निरन्तरम् आकाशमार्गेण लङ्कां प्रति गच्छति स्म।

हनुमतः तादृशम् अनुपमं दुष्करं कर्म दृष्ट्वा देवाः, महर्षयः, सिद्धाः, च सर्वे अत्यन्तं हृष्टाः अभवन्। सागरः तदा इक्ष्वाकुवंशस्य सम्मानरक्षणं कर्तुम् इच्छुकः भूत्वा अचिन्तयत्, यदि अहं कपिश्रेष्ठस्य हनुमतः साहाय्यं न कुर्यां तर्हि सर्वेषां कृते अहं निन्दनीयः भविष्यामि। इक्ष्वाकुकुलश्रेष्ठः सगरः मां सम्यग् वर्धितम् अकरोत्, एषः कपिश्रेष्ठोऽपि इक्ष्वाकुवंशस्य श्रीरामस्य दूतः। अतः तस्य साहाय्यं मम कर्तव्यम्। 

इत्थं साधुमननं कृत्वा सागरः तस्य जलमध्ये अवस्थितं काञ्चनमयं पर्वतप्रधानं मैनाकम् अब्रवीत् हे पर्वतश्रेष्ठ! त्वम् इच्छसि चेत् अधः, उपरि तिर्यक् च वर्धितुं शक्नोषि। अतः अहं त्वां निवेदयामि यत् त्वम् ऊर्द्धभागे वर्धितः भव येन रामकार्यार्थी  आकाशपथे गमनकारी वीर्यवान् कपिश्रेष्ठः हनुमान् तव उपरि उपविश्य किञ्चित् विश्रमं कर्तुं शक्नुयात् !

लवणसमुद्रस्य अनुरोधवचनं श्रुत्वा महाद्रुमलतावृतः हिरण्यगर्भः मैनाकपर्वतः तत्क्षणं हि उदपतत्। मध्ये हठात् उत्थितं पर्वतं दृष्ट्वा हनुमान् पुनः काचित् विपत्तिः इति विचिन्त्य तस्य उरसा पर्वतस्य शिखरम् अधः अपातयत्। तदा पर्वतश्रेष्ठः मैनाकः हनुमतः वेगं ज्ञात्वा हृष्टचित्तः सन् शब्दम् अकरोत्, मनुष्यरूपं च धृत्वा अत्यन्तं विनयेन तस्योपरि विश्रमं कर्तुं हनुमन्तम् अवदत्। 
कपिश्रेष्ठः हनुमान् तदा अवदत्, अहं त्वयि अतीव प्रसन्नः अभूवम्। अहं तव अनुग्रहं स्वीकर्तुं न शक्नोमि। परन्तु त्वं मह्यं कुपितः मा भूः, कारणं यत् समयः अल्पः, दिनमपि समाप्तप्रायम्। 
अपिच अहं प्रतिज्ञाम् अकरवं यद् अहं समुद्रमध्ये कुत्रचिदपि विश्रमं न करिष्यामि। 

एवमुक्त्वा वीर्यवान् हनुमान् तस्य हस्तेन पर्वतस्य स्पर्शं कृत्वा हसित्वा हसित्वा इतोपि आकाशस्य उपरि डयित्वा अगच्छत्। 

हनुमतः तत्कार्ये सर्वे अत्यन्तं सन्तुष्टाः अभवन् चेदपि तस्य अद्भुतबलं पराक्रमं च परीक्षितुं देवता, गन्धर्वः, महर्षिः  इत्येते सर्वे नागमातुः सुरसायाः समीपं गत्वा अवदन् हे नागमातः! त्वं गत्वा वायुपुत्रस्य हनुमतः यात्रायां विघ्नम् उत्पाद्य तस्य परीक्षां कुरु यत् सः लङ्कां गत्वा रामचन्द्रस्य कार्यं सफलतापूर्वकं कर्तुं शक्नुयात् उत न। ऋषीणां मर्मं ज्ञात्वा सुरसा विशालकायराक्षस्याः रूपं धृत्वा समुद्रस्य मध्ये गत्वा अत्यन्तं विकरालरूपेण अतिष्ठत्।  हनुमन्तं तस्याः सम्मुखे प्राप्य अवदत्, अद्य अहं त्वां मम आहारत्वेन भुक्त्वा मम क्षुधां शमयिष्यामि। अतः हे कपि! अहम् इच्छामि यत् त्वं स्वयं मम मुखे प्रविश येन त्वां खादितुम् अहं प्रयत्नं न कुर्याम्, अनायासेन खादितुं शक्नुयाम्। 
*-प्रदीपः!*

No comments:

Post a Comment