*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(अष्टमः सर्गः)
सुग्रीवहनुमतोः संवादः।
पवनकुमारः हनुमान् शास्त्रज्ञः नीतिज्ञः च मनीषी आसीत्। कदा किं कर्तव्यं किं च अकर्तव्यम्, किं वक्तव्यं किञ्च न इति विषये तस्य सम्यग् ज्ञानम् आसीत्। वार्तालापस्य कलायां सः अत्यन्तं निपुणः आसीत्। सः अपश्यत्, आकाशः निर्मलः अभवत्। इदानीम् आकाशे न मेघः अस्ति न च विद्युत् द्योतते। वर्षर्तुः समाप्तः अभवत्।
सः सुग्रीवस्य विषये चिन्तनं करोति स्म। सः सम्यग् अवागच्छत् यत् कार्यसिद्धेः अनन्तरं सुग्रीवः स्वीयं कर्तव्यं विस्मृत्य भोगविलासादिषु मग्नः अभवत्। तस्य पत्न्या रुमया सह तारा अपि तस्य भोगविलासादिषु भागं गृह्णाति।
राजकार्यभारं मन्त्रिभ्यः दत्त्वा स्वयं स्वेच्छाचारी अभवत्। श्रीरामचन्द्राय प्रदत्तं वचनं सः व्यस्मरत्।
इत्थं हनुमान् आत्मना सह विचारविमर्शं कृत्वा सुग्रीवस्य समीपं गत्वा अब्रवीत् हे राजन्! भवान् राज्यं यशः इत्युभयमपि प्राप्नोत्। स्वकुलपरम्परया प्राप्तस्य धनस्यापि विस्तारम् अकरोत्। इदानीं भवतः मित्राय प्रदत्तं वचनमपि पूरयेत्। कार्यसम्पन्नाय श्रीरामचन्द्रस्य पुरतः भवान् यां प्रतिज्ञाम् अकरोत् तां शीघ्रं हि पूरयेत्।
भवान् तु जानाति यत् श्रीरामचन्द्रः अस्माकं परममित्रं हितैषी चास्ति। तस्य कार्यस्य समयः याति, अतः शीघ्रातिशीघ्रम् अस्माभिः जनकनन्दिन्याः सीतायाः अन्वेषणं करणीयम्।
सुग्रीवः सत्त्वगुणसम्पन्नः आसीत्। हनुमान् यदा सुग्रीवं श्रीरामचन्द्राय प्रदत्तं वचनम् पुनः अस्मारयत् तदा हि सः श्रीरामस्य कार्यं पूरयितुं निश्चयम् अकरोत्।
सः नीलनामकं कुशलवानरम् आहूय तस्मै आज्ञाम् अददात् - हे नील! त्वम् एवं प्रयत्नं कुरु येन मम सर्वे वानरसैनिकाः शीघ्रम् अत्र आगत्य एकत्रिताः भवन्तु।
सेनापतिभिः सह सर्वाः सेनाः अविलम्बे अत्र आगत्य एकत्रिताः भवन्तु इत्यस्य आज्ञां देहि। राज्यस्य सीमायाः रक्षणं कुर्वाणाः सर्वे उद्यमिनः शीघ्रगामिवानराः अत्र आगच्छन्तु इत्यस्य सूचनां देहि। सर्वान् सूचय यत् पञ्चदशदिनाभ्यन्तरे यः वानरः अत्र उपस्थितः न भवेत् तस्मै प्राणदण्डः दीयेत। इत्थं प्रबन्धं कृत्वा सुग्रीवः स्वीयं भवनम् अगच्छत्।
शरदृतोः आरम्भः अभवत्, किन्तु रामः सुग्रीवद्वारा सीतायाः अन्वेषणस्य विषये कामपि सूचनां न प्राप्नोत्। सः अचिन्तयत् यत् सुग्रीवस्य उद्देश्यं सफलम् अभवत् इत्यतः सः मां व्यस्मरत्।
*-प्रदीपः!*
No comments:
Post a Comment