Thursday, November 21, 2024

Srimad Ramayana Kishkinda kandam part 7 in sanskrit

*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(सप्तमः सर्गः)
सुग्रीवस्य राज्याभिषेकः।
(द्वितीयः खण्डः)

कृष्णवर्णः मेघः तस्य मृगचर्म स्यात्। नदी तस्य यज्ञोपवीतं स्यात्, मेघानां गम्भीरगर्जनं तस्य वेदमन्त्राणां पाठः स्यात्। कदाचिद् एवं प्रतीयते यद् मेघाः न गर्जन्ति, अपितु विद्युता प्रताडिताः भूत्वा पीडया आर्तनादं कुर्वन्ति। कृष्णमेघेषु द्योतितां विद्युतं दृष्ट्वा एवं प्रतीयते यद् राक्षसराजस्य रावणस्य अङ्के मूर्च्छिता भूत्वा पतिता जानकी स्यात्।
हे लक्ष्मण! यदा अहं वर्षर्तोः दृश्यं दृष्ट्वा मम मनः शमयितुं चेष्टे तदा हि सीतायाः स्मरणं भवति। 

तत्र पश्य! कृष्णमेघः दशसु दिक्षु प्रसृतः अभवत्। तद्दृष्ट्वा एवं प्रतीयते यत् कृष्णवर्णप्रच्छदेन समस्तः आकाशः आवृतः अभवत्, यथा मम हृदयस्य समस्ता भावना जानक्याः वियोगात् आवृता अभवत्। 

वर्षर्तौ राजानः शत्रूणाम् उपरि आक्रमणं न कुर्वन्ति। गृहस्थाः गृहं त्यक्त्वा अन्यत्र न गच्छन्ति। गृहमेव तेषां प्रियं भवति। राजहंसाः सरोवरं प्रति गच्छन्ति। मयूराः तेषां प्रियाभिः सह नृत्यं कुर्वन्ति। किन्तु अहमेव दुर्भगः अस्मि यस्य प्रिया तस्मात् दूरे अस्ति। 

 पृथिव्यां नूतनानि तृणानि उद्भवन्ति। वर्षाकारणतः समस्ता पृथिवी हरिता अभवत्। नद्यः कलकलनादेन प्रवहन्ति। वानराः वृक्षेषु कूर्दन्ते। अस्मिन् सुखदे वातावरणे अहमेव केवलं विरहीजनः अस्मि यः स्वप्रियायाः वियोगात् दुःखितः अस्ति। अस्य वर्षर्तोः सुखदे वातावरणे अपि तस्य शान्तिः नास्ति। पश्य! एषः पक्षी वृष्टेः जले कियान् प्रसन्नः सन् स्नानं करोति। 

तत्र च सः पक्षी वृक्षस्य उपरि पर्णे स्थितं जलबिन्दुं चूषति। शुष्के क्षेत्रे सुप्ताः मण्डूकाः मेघस्य गर्जनेन उपरि आगच्छन्ति। टर्टर् इत्यनेन रटरटायमानाः मण्डूकाः मेघस्य गर्जनेन सह स्पर्धन्ते। इदानीं पक्षिणः नीडे निलीयन्ते।  कमलानि शीर्णानि भवन्ति, परन्तु मालतीपुष्पाणि विकसन्ति। एतत् सर्वं दृष्ट्वा तु एवं प्रतीयते यत् शीघ्रं हि सूर्यः अस्तं गच्छेत्। 

पुनः रामः निःश्वासं त्यजन् अवदत्, बालेः मृत्युः अभवत् अतः सुग्रीवः तस्य राज्यं प्राप्नोत्। इदानीं सः तस्य विरहितां पत्नीं पुनः प्राप्य  वर्षर्तौ अस्मिन् अत्यन्तं आनन्दितः स्यात्। न जाने मम विरहितां पत्नीं सीतां कदा प्राप्स्यामि। कदा च तस्याः दर्शनं भविष्यति। इदानीं तु श्रावणमासः समाप्तप्रायः, शीघ्रं हि शरदृतोः प्रारम्भः भविष्यति।  दुर्गमः मार्गः पुनः गमनागमनाय उद्घाट्येत। 

मम विश्वासः अस्ति यत्  शरदृतौ आगते सति सुग्रीवः अवश्यं तस्य गुप्तचरैः सीतायाः अन्वेषणं कारयिष्यति।
एतावद् उक्त्वा रामः पुनः गभीरकल्पनासागरे निमज्जितः अभवत्।
*-प्रदीपः!*

No comments:

Post a Comment