*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(चतुर्थः सर्गः)
बालिवधः।
तदन्तरं ते सर्वे बालेः राजधानीं किष्किन्धापुरीम् अगच्छन्। तत्र गत्वा रामः सुग्रीवम् अवदत्, भवान् बालिं युद्धाय प्रेरयतु, तेन सह च निर्भयेण युद्धं करोतु, अहं वने निलीय उपविशामि।
रामस्य वचनं श्रुत्वा उत्साहितः सुग्रीवः गर्जनं कृत्वा युद्धं कर्तुं बालिम् आह्वयत्।
सुग्रीवस्य सिंहनादं श्रुत्वा बालिः अत्यन्तं कुपितः अभवत्। कुपितः बालिः वायुवेगेन बहिः आगत्य सुग्रीवस्य उपरि आक्रमणम् अकरोत्। बालिसुग्रीवयोः मध्ये भयङ्करं युद्धम् आरब्धम्। तौ उभावपि भ्रातरौ उन्मत्तौ भूत्वा एकः अपरं प्रति पादप्रहारं मुष्टिप्रहारं च कुरुतः स्म।
श्रीरामचन्द्रः बालिं हन्तुं धनुर्बाणाभ्यां सज्जः अभवत्, किन्तु तयोः उभयोः भ्रात्रोः आकारः आकृतिः च समानौ इत्यतः तयोः कः बालिः इति श्रीरामः अभिज्ञातुं न अशक्नोत्, तदर्थं श्रीरामः बाणं न अक्षिपत्। बालेः प्रहारं सुग्रीवः सोढुं न अशक्नोत्, अतः सः ततः ऋष्यमूकपर्वतं प्रति पलायत। तदानीं रामः लक्ष्मणः अन्ये वानराः च सुग्रीवस्य समीपम् अगच्छन्। रामं सम्मुखे दृष्ट्वा सुग्रीवः दुःखितः भूत्वा अवदत्, बालिना सह युद्धं कर्तुं मां प्रेषयित्वा भवान् लीलां पश्यति स्म। वदतु! भवान् एवं किमर्थम् अकरोत्? यदि भवता मम साहाय्यं न करणीयम् आसीत् तर्हि स्पष्टं वक्तव्यम् आसीत् यद् अहं बालिं न हनिष्यामि! तदा तु अहं तस्य समीपं न अगमिष्यम्।
सुग्रीवस्य तत् कटुवचनं श्रुत्वा रामः अत्यन्तं नम्रस्वरेण अवदत् हे सुग्रीव! क्रोधं त्यक्त्वा मम वार्तां शृणोतु! भवतोः उभयोः भ्रात्रोः रूपम्, आकारः, गतिः, आकृतिः इत्यादयः सर्वे समानाः सन्ति। अहं भवतोः मध्ये कः बालिः इति अभिज्ञातुं न अशक्नवम्, अतः बाणं न अक्षिपम्। यदि मम बाणः बालेः स्थाने भवन्तम् अभेत्स्यत् तर्हि आजीवनम् अहं कमपि मम मुखं दर्शयितुं न अशक्ष्यम्। हे वानरेश्वर! भवतः पृथक् परिचयः भवतु तदर्थं भवान् किमपि चिह्नं धृत्वा युद्धं कर्तुं पुनः गच्छतु यस्मात् अहं भवन्तम् अनायासेन अभिज्ञातुं शक्नुयाम्।
एवमुक्त्वा हि रामः लक्ष्मणम् अब्रवीत् हे लक्ष्मण! एतानि उत्तमलक्षणयुक्तानि गजपुष्पीलतापुष्पाणि सन्ति। एतानि चित्वा तैः मालां निर्माय महात्मनः सुग्रीवस्य कण्ठे धारय।
लक्ष्मणः तथैव अकरोत्। सुग्रीवः च पुनः बालिना सह युद्धं कर्तुम् अगच्छत्। तदानीं सुग्रीवः द्विगुणोत्साहेन सिंहनादं कृत्वा बालिं युद्धाय आह्वयत्, यत् श्रुत्वा बालिः अपि पुनः वायुवेगेन बहिः आगन्तुम् उद्यतः अभवत्।
किन्तु तदानीं तस्य पत्नी तारा भयभीता भूत्वा बालिं निवारयन्ती अवदत् हे वीरश्रेष्ठ! इदानीं युद्धाय भवतः गमनं श्रेयस्करं नास्ति। पूर्वं सुग्रीवः भवतः ताडनं प्राप्य पलायत। अधुना सः पुनः भवता सह युद्धं कर्तुम् आह्वयति।
अनेन मम मनसि शङ्का उत्पद्यते। अहं मन्ये यत् सः कञ्चन प्रबलसहायकं प्राप्नोत्। अपिच सः तस्यैव सामर्थ्येन भवता सह पुनः युद्धं कर्तुम् आह्वयति। अहं राजकुमार-अङ्गदात् सूचनां प्राप्नवं यद् अयोध्यायाः अजेयराजकुमाराभ्यां रामलक्ष्मणाभ्यां सह तस्य मित्रता अभवत्। सम्भवतः तौ एव सुग्रीवस्य साहाय्यं कुरुतः। रामस्य पराक्रमस्य विषये अहम् अशृणवम्। सः शत्रुं निमेषाभ्यन्तरे धराशायीं करोति। यदि सः स्वयं सुग्रीवस्य साहाय्यं करोति तर्हि तेन सह भवतः सङ्ग्रामः न उचितः। भवतः जीवनं सङ्कटे पतेत्।
अतः एतदेव उचितं यद् भवान् अस्मिन् अवसरे सुग्रीवेण सह वैरतां त्यक्त्वा तेन सह मित्रतां कुर्यात्। तस्मै च युवराजपदं ददातु। सः तु भवतः कनिष्ठः भ्राता अस्ति। संसारेऽस्मिन् भ्रातुः समानः अन्यः कश्चिदपि हितैषी न भवति। अस्मिन् अवसरे तेन सह भवान् मित्रतां कुर्यात्, एतदेव भवतः कल्याणाय भवेत्।
तारायाः तादृशं बोधवचनं श्रुत्वा बालिः अवदत् हे वरानने! अहं सुग्रीवस्य प्रत्याह्वानं श्रुत्वा कापुरुषवद् गृहे स्थातुं न शक्नुयाम्, न च तस्मात् भीतः भूत्वा तेन सह मित्रतां कर्तुं शक्नुयाम्। श्रीरामचन्द्रस्य विषये अहमपि जानामि। सः धर्मात्मा अस्ति, कर्तव्यम् अकर्तव्यं च सः सम्यग् जानाति। सः पापकर्म कदापि कर्तुं न शक्नुयात्। मां प्रति तव स्नेहः भक्तिः इत्यनयोः त्वं प्रदर्शनम् अकरोः। इदानीं त्वं मह्यं बाधां न देहि। अहं सुग्रीवम् अवश्यं सम्मुखीकुर्याम्, तस्य अहङ्कारं च चूर्णं करिष्यामि। युद्धे अहं विजयं प्राप्स्यामि अवश्यं किन्तु तस्य प्राणान् न हरिष्यामि।
एतावद् उक्त्वा हि बालिः सुग्रीवस्य समीपम् अगच्छत् तेन सह च मल्लयुद्धं कर्तुम् आरभत। तौ उभावपि मुष्टिप्रहारं पादप्रहारं च कुरुतः स्म। रामः यदा अपश्यत् यत् सुग्रीवस्य शक्तिः क्षीणा भवति स्म तदा सः विषधरसर्पवद् धनुषि एकं बाणं संस्थाप्य बालिं लक्ष्यीकृत्य अक्षिपत्। टङ्कारध्वनिना सह सः बाणः गत्वा बालेः वक्षःस्थलम् अभिनत् यस्मात् सः चेतनाशून्यः भूत्वा भूमौ अपतत्।
*-प्रदीपः!*
No comments:
Post a Comment