*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(तृतीयः सर्गः)
रामसुग्रीवयोः वार्तालापः।
रामःसुग्रीवम् अपृच्छत् हे सुग्रीव!मां वदतु यत् सः भयङ्कररूपधारी राक्षसः मम प्राणेश्वरीं सीतां नीत्वा कस्यां दिशि अगच्छत्? भवान् शीघ्रं हि तस्य अन्वेषणं कारयित्वा जानातु यत् सः कुत्र निवसति? हे वानरराज! छलेन अपमानं कृत्वा मम प्रियतमायाः अपहरणं कुर्वाणः सः निशाचरः मम शत्रुः। अहम् अद्यैव तस्य वधं कृत्वा सीतां तस्मात् मोचयिष्यामि।
शोकेन पीडितस्य रामस्य वचनं श्रुत्वा सुग्रीवः तस्मै आश्वासनं प्रयच्छन् अवदत् हे राम! अहं नीचकुले उत्पन्नस्य तस्य पापात्मनः राक्षसस्य शक्तिं गुप्तस्थानं च न जानामि, किन्तु अहं भवते आश्वासनं ददामि यदहं शीघ्रं हि एवं प्रयत्नं करिष्यामि यस्मात् मिथिलेशकुमारी सीता भवता प्राप्येत। अतः भवान् धैर्यं धरतु। इत्थं भवता व्याकुलेन न भवितव्यम्। कश्चन व्याकुलः भवति चेत् तस्य बुद्धिः कार्यं न करोति। भवते एवं न शोभते। अहमपि पत्नीवियोगात् महत् कष्टं प्राप्नोमि, तथापि अहं पत्न्याः कृते निरन्तरं शोकं न करोमि। अहं वानरः भूत्वापि धैर्येण स्थातुं शक्नोमि, परन्तु भवान् तु नरः, महात्मा, सुशिक्षितः चास्ति। भवान् मत्तः अधिकः धैर्यवान् स्यात्। अहं भवते उपदेशं न ददामि, प्रत्युत भवान् मम सखा इत्यतः भवतः हिताय इत्थं वदामि।
सुग्रीवस्य वचनं श्रुत्वा रामः नेत्रयोः अश्रूणि मार्जन् अवदत् हे वानरेश! भवान् तदेव अकरोत् , यत् कश्चन हितैषी सखा कुर्यात्। भवतः कार्यं सर्वथा उचितम्। हे सखे! भवतः आश्वासनं मम चिन्तां दूरीकृत्य मां स्वस्थम् अकरोत्। भवादृशः स्नेही सखा दुर्लभः। भवान् सीतायाः अन्वेषणाय मम साहाय्यं करोतु, अहं च भवतः पुरतः दुष्टबालेः वधं करिष्यामि। तस्य विषये भवान् मां सर्वं वृत्तान्तं श्रावयतु। विश्वासं करोतु यद् बालिः मम हस्तात् जीवितुं न शक्नुयात्।
रामस्य प्रतिज्ञया सन्तुष्टः सुग्रीव अभवत् हे रघुकुलमणि! बालिः मम राज्यं पत्नीं च मत्तः अपाहरत्। इदानीं सः अहर्निशं मां हन्तुम् उपायं चिन्तयति। तस्मात् भीतः सन् अहम् अस्मिन् पर्वते निवसामि। तस्मात् भयभीताः सन्तः मम सर्वे सखायः मां त्यक्त्वा अगच्छन्। इदानीं केवलं चत्वारः सखायः मया सह सन्ति। बालिः अत्यन्तं बलवान् अस्ति। तस्य भयकारणात् मम प्राणाः शुष्यन्ति। सः एतावान् बलवान् अस्ति यत् सः दुन्दुभि-नामकं बलिष्ठं राक्षसम् अनायासेन अहन्। यदा सः सालवृक्षं हस्ताभ्यां गृहीत्वा कम्पयति, तदा तस्य वृक्षस्य सर्वाणि पर्वाणि तस्मात् पतन्ति। तस्य असाधारणं बलं दृष्ट्वा मम संशयः भवति यद् भवान् तं हन्तुं शक्नुयात् उत न इति।
सुग्रीवस्य आशङ्कां ज्ञात्वा स्मयमानः लक्ष्मणः अपृच्छत् हे सुग्रीव! भवते किं प्रमाणम् अपेक्ष्यते यद् दृष्ट्वा भवान् विश्वासं कुर्यात् यत् श्रीरामचन्द्रः बालिं हन्तुं शक्नुयात्?
लक्ष्मणस्य तद् वचनं श्रुत्वा सुग्रीवः अवदत्, पुरतः ये सप्तसालवृक्षाः दृश्यन्ते, तेषु एकैकं कृत्वा सर्वमपि वृक्षं बालिः शरेण अभिनत्। तेषु वृक्षेषु यदि रामः एकं वृक्षं शरेण भिन्द्यात् तर्हि अहं मन्येय यत् सः बालिं हन्तुं शक्नुयात्। एवमपि किमपि नास्ति यद् रामस्य शक्त्यां मम विश्वासः नास्ति, प्रत्युत अहं बालेः भयभीतः अस्मि इत्यतः एवं वदामि।
सुग्रीवस्य कथनानुसारं रामः तत्क्षणं हि धनुषि प्रत्यञ्चां बद्ध्वा बाणम् अक्षिपत् यस्मात् भीषणटङ्कारं कुर्वन् बाणः गत्वा युगपत् सप्त वृक्षान् भित्त्वा पर्वतस्य शिखरम् अभिनत्।
रामस्य तत्पराक्रमं दृष्ट्वा सुग्रीवः विस्मितः अभवत्, तस्य च भूरि भूरि प्रशंसां कुर्वन् अवदत् प्रभो! बालिं हत्वा भवान् माम् अवश्यं हि निश्चिन्तं कारयतु।
*-प्रदीपः!*
No comments:
Post a Comment