*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(द्वितीयः सर्गः)
रामसुग्रीवयोः मित्रता।
हनुमान् रामलक्ष्मणौ नीत्वा किष्किन्धापर्वतस्य मलयशिखरं प्राप्नोत् यत्र सुग्रीवः अन्यैः मन्त्रिभिः सह आसीत्। तत्र सुग्रीवेण सह रामलक्ष्मणयोः परिचयं कारयन् हनुमान् अवदत् हे महाप्राज्ञ! अयोध्यायाः महाराजदशरथस्य ज्येष्ठपुत्रः महापराक्रमी श्रीरामचन्द्रः तस्य अनुजेन लक्ष्मणेन सह अत्र आगच्छत्। पञ्चवट्यां निवासकाले तस्य पत्नीं सीतां लङ्कायाः राजा रावणः अपहृत्य अनयत्। तस्याः अन्वेषणार्थं श्रीरामचन्द्रः भवतः साहाय्यम् इच्छाति। सः च भवता सह मित्रतां कर्तुम् इच्छति। भवान् तस्य मित्रताप्रस्तावम् अङ्गीकृत्य तस्य यथोचितं सत्कारं कुर्यात्, यतः सः महान् गुणवान्, पराक्रमी, धर्मात्मा च विद्यते। तौ उभावपि अस्माकं कृते अत्यन्तं पूजनीयौ स्तः।
रामलक्ष्मणयोः परिचयं प्राप्य प्रसन्नचित्तः सुग्रीवः अवदत् हे प्रभो! भवान् धर्मज्ञः, परमतपस्वी, सर्वेषु दयां कुर्वाणः चास्ति। भवान् नरः भूत्वा अपि मादृशेन वानरेण सह मित्रतां कर्तुम् इच्छति इति मम परमसौभाग्यम् अस्ति।भवता सह मित्रतां कृत्वा ममैव उत्तमः लाभः भविष्यति। मम हस्तौ भवता सह मित्रतायै प्रसृतौ स्तः। मम एतौ हस्तौ भवान् भवतः हस्ताभ्यां गृहीत्वा आवयोः मित्रतायाः दृढसम्बन्धं करोतु।
सुग्रीवस्य वचनं श्रुत्वा रामः अत्यन्तं प्रसन्नः सन् सुग्रीवस्य हस्तौ गृहीत्वा पुनः प्रेमपूर्वकं तं हृदयेन सह असजत्।
हनुमान् भिक्षुकवेषं त्यक्त्वा अग्निं प्राज्वलयत्। रामः सुग्रीवः च तस्य अग्नेः प्रदक्षिणं कृत्वा मित्रतायाः शपथं गृहीत्वा एकः अन्यस्य मित्रम् अभवताम्। ततः परं रामः सुग्रीवः स्वीये स्वीये आसन्दे उपविश्य परस्परं वार्तालापं कुरुतः स्म। सुग्रीव अवदत् हे राम! मम ज्येष्ठः भ्राता बालिः मां गृहात् निष्कास्य मम पत्नीम् अपाहरत्, मम राज्यं च अध्यगृह्णात्। सः अत्यधिकः शक्तिशाली अस्ति। अहं तस्मात् भयभीतः सन् अस्य ऋष्यमूकपर्वतस्य मलयगिरिप्रखण्डे निवासं करोमि। भवान् अत्यन्तं पराक्रमी तेजस्वी चास्ति। भवान् मह्यम् अभयदानं प्रदाय बालेः भयात् मां मुक्तं कारयतु।
सुग्रीवस्य दीनवचनं श्रुत्वा रामः अवदत् हे सुग्रीव! सखा तु सख्युः उपकाराय एव भवति। अहं मम तीक्ष्णबाणेन भवतः पत्न्याः अपहरणं कुर्वाणस्य बालेः वधं करिष्यामि। सः मृतः अभवत् इत्येव इदानीं भवान् मन्यताम्।
सुग्रीवः प्रसन्नतापूर्वकम् अवदत् हे राम! मम मन्त्रिषु श्रेष्ठः हनुमान् भवतः विपत्तेः विषये मां सर्वम् अवदत्। भवतः पत्नी सीता आकाशे वा भवतु, पाताले वा भवतु, अहम् अवश्यं तस्याः अन्वेषणं कारयित्वा सा कुत्र अस्ति इति भवते सूचनां दास्यामि। न केवलं रावणः, अपितु इन्द्रादयः देवाः अपि मम वानराणां दृष्टितः सीतां गूहितुं न शक्ष्यन्ति। हे राघव! केभ्यश्चिद् दिनेभ्यः पूर्वं कश्चन राक्षसः काञ्चित् स्त्रियम् अपहृत्य नयति स्म। तदानीं वयम् अत्रैव आस्म।तदा वयं तस्याः मुखात् हा राम! हा लक्ष्मण! इत्येवं शब्दम् अशृण्म। मम अनुमानं यत् सा एव सीता हि आसीत्। ताम् अहं सम्यग् न अपश्यम्।
अस्मान् दृष्ट्वा सा कानिचन वस्त्राभूषणानि अधः अपातयत्। तानि आभूषणानि अस्माकं पार्श्वे सुरक्षितानि सन्ति। भवान् तानि दृष्ट्वा जानातु, किं तानि सीतायाः सन्ति उत न। एवमुक्त्वा सुग्रीवः कस्मैचिद् वानराय तानि वस्त्राभूषणानि आनेतुम् आज्ञाम् अददात्। तानि वस्त्राभूषणानि दृष्ट्वा रामः अत्यन्तं शोकविह्वलः अभवत्। तस्य नेत्राभ्यां च अश्रूणि प्रवहन्ति स्म। सः च किञ्चित् कालं यावत् मूर्च्छितः भूत्वा भूमौ अपतत्। यदा रामः चेतनां प्राप्नोत् तदा लक्ष्मणम् अब्रवीत्
हे लक्ष्मण! सीतायाः एतानि आभूषणानि दृष्ट्वा त्वम् अभिजानीहि। राक्षसद्वारा सा अपहृता अभवत् इति कारणतः सीता तस्याः एतानि आभूषणानि भूमौ अपातयत्।
लक्ष्मणः अब्रवीत् भ्रातः! एतेषाम् आभूषणानां मध्ये नाहं हस्तयोः कङ्कणानि अभिजानामि, नाहं कण्ठस्य हारम् अभिजानामि, न चाहं तस्याः मस्तकस्य अन्यानि आभूषणानि अभिजानामि। यतः अहम् अद्यावधि तस्याः हस्तौ मुखं च कदापि न अपश्यम्। परन्तु आम्! यदहं तस्याः नित्यं चरणवन्दनं करोमि इत्यतः तस्याः एतद् नूपुरम् अवश्यम् अभिजानामि। एतद् नूपुरं तु भ्रातृजायायाः एव।
*-प्रदीपः!*
No comments:
Post a Comment