*श्रीरामायणकथा, अरण्यकाण्डम्!*
(द्वादशः सर्गः)
सीताहरणम्।
(द्वितीयः खण्डः)
रावणस्य नीचतापूर्णं प्रस्तावं श्रुत्वा सीता कोपेन अवदत् हे अधम राक्षस! त्वं परमतेजस्विनः महतः योद्धुः रामचन्द्रस्य पराक्रमं न जानासि, अतः त्वं मम सम्मुखे एतं कुत्सितप्रस्तावं स्थापयितुं दुःसाहसं करोषि। अरे मूर्ख! किं त्वं वनराजस्य सिंहस्य मुखात् दन्तं निष्कासयितुम् इच्छसि? तव शिरसि कालः नृत्यति, तदर्थं त्वम् ईदृशं प्रस्तावं नीत्वा आगच्छसि। तव मृत्युः त्वाम् अत्र आनयत्!
सीतायाः अपमानजनकं वाक्यं श्रुत्वा रावणः अत्यन्तं कुपितः सन् नेत्रे रक्तवर्णे कृत्वा अवदत् सीते! त्वं मम बलं प्रतापं च न जानासि। अहम् आकाशे स्थित्वा कन्दुकवत् पृथिवीम् उन्नेतुं शक्नोमि। महासमुद्रस्य सर्वं जलं पीत्वा तं समुद्रं शोषयितुं शक्नोमि। अहं त्वां नेतुम् आगच्छामि, त्वां नीत्वा हि इतः गमिष्यामि।
एवमुक्त्वा हि रावणः स्वीयं ब्राह्मणवेषं त्यक्त्वा विकरालरूपं धृत्वा तस्य हस्ताभ्यां सीतां गृहीत्वा तस्य स्कन्धे आसयित्वा निकटे स्थितं पुष्पकविमानम् आरोहत्।
एवम् अप्रत्याशितरूपेण रावणद्वारा अधिगृहीता सीता हा राम! हा राम! इति वदन्ती रावणात् आत्मानं मोचयितुं प्रयतते स्म। परन्तु बलवतः रावणस्य पुरतः सा असमर्था आसीत्।
रावणः तदा सीतां विमानस्य एकस्मिन् कोणे बद्ध्वा स्थापयित्वा तीव्रगत्या लङ्कां प्रति प्रस्थानम् अकरोत्। सीता निरन्तरं विलापं करोति स्म, हा राम! पापी रावणः मां नीत्वा गच्छति। हे लक्ष्मण! त्वं कुत्र असि? तव बलवन्तौ बाहू इदानीं एतस्मात् दुष्टात् मम रक्षणं किमर्थं न कुरुतः? हा! अद्य कैकेय्याः मनःकामना पूर्णा अभूत्।
एवं प्रकारेण विलापं कुर्वती सीता मार्गे जटायुम् अपश्यत्। जटायुं दृष्ट्वा हि सा उच्चैः तम् आह्वयत् हे आर्य जटायो! पश्यतु! लङ्कायाः एषः दुष्टः राजा रावणः माम् अपहृत्य नयति। एतस्मात् नराधमात् तु भवान् मां रक्षितुं न शक्नुयात् यतः भवान् वृद्धः, दुर्बलः चास्ति। किन्तु एषः बलवान् यः अनेकेषु युद्धेषु विजयं प्राप्य तस्य दुस्साहसम् अधिकम् अभवत्। किन्तु रावणद्वारा मम अपहरणस्य वृत्तान्तं सर्वं भवान् मम पतिम् अवश्यं श्रावयतु।
*-प्रदीपः!*
No comments:
Post a Comment