*श्रीरामायणकथा, अरण्यकाण्डम्!*
(त्रयोदशः सर्गः)
जटायुवधः।
सीतायाः करुणक्रन्दनं श्रुत्वा जटायुः तां प्रति अपश्यत्। सः च विमाने सीतया सह रावणमपि दृष्ट्वा अवदत् अरे रावण! त्वं परस्त्रियम् अपहृत्य नीत्वा गच्छसि! अरे लङ्केश! सा महाप्रतापिनः श्रीरामचन्द्रस्य भार्या अस्ति। त्वं राजा भूत्वा अपि एवं निन्दनीयं कर्म कथं करोषि? राज्ञः धर्मस्तु परस्त्रीणां रक्षणम्। त्वं कामेन वशीभूतः सन् स्वीयं विवेकं विस्मरसि। त्वं शीघ्रं रामस्य पत्नीं मुञ्च! हे रावण! त्वं मम समक्षं सीतां नीत्वा गन्तुं न शक्नोषि! यावद् अहम् अस्मि तावत् सीतायाः रक्षणं करिष्यामि। तत्रैव तिष्ठ! त्वया सह युद्धं कर्तुम् आगच्छामि।
जटायोः तत् कठोरम् अपमानजनकं वचनं श्रुत्वा रावणः तस्य उपरि आक्रमणम् अकरोत् यः रावणात् सीतां मोचयितुं द्रुतवेगेन विमानं प्रति आगच्छति स्म। पर्वतवद् विशालाकारौ तौ उभावपि एकः अपरेण सह सङ्घर्षं कर्तुम् आरभेताम्। क्रुद्धः जटायुः स्वेन पराक्रमेण द्विवारं रावणस्य धनुः अत्रुटत्, तस्य रथम् अच्छिनत्, तस्य रथस्य सारथिमपि अहन्।
सः ताडयित्वा ताडयित्वा रावणं व्रणितम् अकरोत्।
रावणः व्रणितः अभवत् चेदपि वृद्धदुर्बलजटायोः अपेक्षया सः अधिकः शक्तिशाली आसीत्। अवसरे प्राप्ते सः खड्गेन जटायोः बाहुद्वयम् अकर्तयत्। तदानीं पीडया सः व्याकुलः सन् मूर्च्छितः भूत्वा पृथिव्याम् अपतत्।
जटायुः भूमौ अपतत् इति दृष्ट्वा जानकी हा राम! हा लक्ष्मण! इत्येवं चीत्कारं कुर्वती विलापं करोति स्म। रावणः तदा सीतायाः केशान् गृहीत्वा ताम् उन्नीय आकाशमार्गेण लङ्कां प्रति प्रस्थानम् अकरोत्।
तत्समये उन्नतललाटयुक्तायाः, सुन्दरकृष्णकेशयुक्तायाः, गौरवर्णायाः, मृगनयनायाः जानक्याः सुन्दरं मुखं रावणस्य अङ्के अपतत् इत्येवं दृश्यते स्म, यथा पूर्णिमायाः चन्द्रः नीलमेघान् व्रश्चित्वा द्योतते स्म।
सीतायाः क्रन्दनं श्रुत्वा वनस्य सिंहः व्याघ्रः, मृगः च इत्यादयः सर्वे रावणाय कुपिताः भूत्वा तस्य विमानस्य अधः अधः धावन्ति स्म।
पर्वतेभ्यः पतितं जलप्रपातं दृष्ट्वा एवं प्रतीयते स्म यत् सोऽपि सीतायाः दुःखेन दुःखितः भूत्वा अश्रूणि प्रवाहयति स्म। अपिच श्वेतमेघैः आच्छादितं सूर्यमपि दृष्ट्वा एवं प्रतीयते स्म यत् सोऽपि तस्य कुलवध्वाः दुर्दशां दृष्ट्वा तस्य मुखं श्रीहीनं भवति स्म। सर्वे सीतायाः दुःखेन दुःखिताः भवन्ति स्म।
दुष्टरावणात् मुक्तेः कञ्चिदपि उपायं न दृष्ट्वा सीता दीनतापूर्वकं परमात्मनः प्रार्थनां करोति स्म हे परमात्मन्! हे प्रभो! मम रक्षणं कुरु, मम रक्षणं कुरु! हे सर्वशक्तिमन्! अस्मिन् समये मम रक्षणं कुर्वाणः त्वादतिरिच्य अन्यः कश्चिदपि नास्ति। हे दयामय! मम सतीत्वस्य रक्षणं कुर्वाणः केवलं त्वं हि असि।
मार्गे सीता एकस्मिन् पर्वते पञ्च वानरान् अपश्यत्। तान् दृष्ट्वा सीता ते मम पतिं रामं मम सन्देशं निश्चयेन वदेयुः इति विचिन्त्य स्वीये प्रच्छदे तस्याः वस्त्राभूषणानि बद्ध्वा तेषां वानराणां मध्ये अपातयत्। तीव्रवेगेण उड्डीय गच्छन् रावणः सीतया कृतं तत् कार्यं न अपश्यत्, न च तद्विषये तस्य आभासः अभवत्।
वनम्, पर्वतः, समुद्रः च इत्यादीनि उत्तीर्य रावणः सीतया सह लङ्कापुरीं प्राप्नोत्। तत्र सः दानवैः निर्मिते सुन्दरभवने सीतां स्थापयित्वा क्रूरराक्षसीः आहूय ताभ्यः आज्ञाम् अददात् - मम आज्ञया विना काचित्/कश्चिदपि अनया स्त्रिया सह न मिलेत्। एषा यत्किमपि वस्त्रम्, आभूषणम्, खाद्यपदार्थं वा यदि याचेत तर्हि तत्क्षणं हि तस्यै दीयेत। केनापि प्रकारेण तस्याः किमपि कष्टं न भवेत् न च तस्याः तिरस्कारः केनापि क्रियेत। अवज्ञां कुर्वते दण्डं प्रदास्यामि।
इत्थं राक्षसीभ्यः आदेशं दत्त्वा रावणः स्वीयं भवनम् अगच्छत्। तत्र सः तस्य अष्ट शूरवीरान् सेनापतीन् आहूय तेभ्यः आज्ञाम् अददात् - यूयं सर्वे गत्वा दण्डकारण्ये निवसत! तत्र रामः लक्ष्मणः च द्वौ तपस्विनौ अस्माकं जनस्थानम् अनाशयताम्। यूयं तत्र उषित्वा तौ किं कुरुतः किं च न इति विषये तयोः गतिविधिं ज्ञात्वा मह्यं यथाशीघ्रं सूचनां यच्छत। अवसरे प्राप्ते तयोः वधं कुरुत। अहं युष्माकं पराक्रमं सम्यग् जानामि, अतः तयोः हननस्य दायित्वं युष्मभ्यं ददामि।
एवं प्रकारेण तेभ्यः राक्षसेभ्यः आदेशं प्रदाय कामी राक्षसः रावणः वासनया पीडितः सन् सीतया सह मेलितुं पुनः अगच्छत्।
*-प्रदीपः!*
No comments:
Post a Comment