*श्रीरामायणकथा, अरण्यकाण्डम्!*
(एकादशः सर्गः)
स्वर्णमृगः। (द्वितीयः खण्डः)
तदानीं रामस्य कस्यचिद् अनिष्टस्य आशङ्का अभवत्, सः च द्रुतगत्या आश्रमं प्रति आगच्छति स्म।
तत्र च सीता यदा स्वपत्युः स्वरेण हा सीते! हा लक्ष्मण! इति अशृणोत् तदा सा अत्यन्तं व्याकुला भूत्वा लक्ष्मणम् अब्रवीत् हे लक्ष्मण! एवं प्रतीयते यत् तव भ्राता अवश्यं हि कस्मिंश्चित् सङ्कटे अपतत्। त्वं शीघ्रं गत्वा तस्य साहाय्यं कुरु। तस्य आर्तपूर्णं शब्दं श्रुत्वा मम हृदयं चिन्तया अधीरम् अभवत्।
आशङ्कया आतुरायाः सीतायाः वचनं श्रुत्वा लक्ष्मणः अब्रवीत् हे आर्ये! एवं तु अहं भवतीम् एकाकिनीं त्यक्त्वा गन्तुं न शक्नोमि। भ्राता भवत्याः रक्षणस्य दायित्वं मह्यम् अददात्। भवत्या धैर्येण स्थीयताम्, भ्राता शीघ्रं हि प्रत्यागच्छेत्।
दुःखिता भूत्वा सीता अवदत् लक्ष्मण! तव वचनं श्रुत्वा मम एवं भाति यत् त्वं भ्रातुः रूपेण तस्य शत्रुः असि। तदर्थं हि तस्य आर्तनादं श्रुत्वा अपि त्वं तस्य साहाय्यार्थं गन्तुं न इच्छसि। यदि तस्य किमपि भवेत् तर्हि मम रक्षणेन कः लाभः?
एवं कथयन्त्याः सीतायाः नेत्राभ्याम् अश्रूणि प्रवहन्ति स्म।
सीतायाः तादृशीं दशां दृष्ट्वा लक्ष्मणः हस्तौ योजयित्वा अवदत् हे देवि! भवती वृथा हि दुःखिता भवति। संसारेऽस्मिन् देवता, दानवः, मनुष्यः, गन्धर्वः राक्षसः च इत्येतेषु कश्चिदपि नास्ति यद् भ्रातुः पराक्रमं सम्मुखीकुर्यात्। मायाविराक्षसाः नानाप्रकारं रूपं धरन्ति, विविधप्रकारस्वरेण च वदन्ति, अतः अत्र भवत्याः चिन्तनस्य आवश्यकता नास्ति। भवती क्षणमेकं प्रतीक्षां करोतु, सः शीघ्रं हि आगच्छेत्।
लक्ष्मणस्य तर्कयुक्तं वचनं श्रुत्वा सीतायाः कोपः इतोपि अधिकः अभवत्। सा अवदत् लक्ष्मण! अहं तव मनोभावं सम्यग् अवगच्छामि। रामस्य मृत्युः भवतु, अनन्तरं त्वं मां प्राप्स्यसि इत्येव आशां नीत्वा त्वं वनम् आगच्छसि। अहं तव दुष्टेच्छां कदापि न पूरयेयम्। रामस्य वियोगात् अहं मम प्राणान् त्यक्ष्यामि।
सीतायाः तद् वचनं श्रुत्वा लक्ष्मणस्य हृदयं विदीर्णम् अभवत्। सः अवदत् देवि! अहं भवत्याः वचनस्य किमपि उत्तरं दातुं न शक्नोमि। यतः स्त्रीणां मुखात् इत्थम् अनुचितं प्रतिकूलं च शब्दं निस्सरति। अत्र आश्चर्यस्य नास्ति कापि वार्ता, यतः संसारे नारीणाम् इत्थं स्वभावः प्रायः दृश्यते। अद्य भवत्याः बुद्धिः भ्रष्टा अभूत्, यतः यः सर्वदा निष्ठया अग्रजस्य आज्ञायाः पालनं करोति, तम् अद्य भवती ईदृशं दुष्टतापूर्णं वचनम् उक्त्वा प्रताडयति। मम संशयः भवति यद् अद्य भवत्याः उपरि अवश्यं कश्चन सङ्कटः पतेत्।
वनस्य समस्ता देवता भवत्याः रक्षणं कुर्यात्। वनस्य सर्वः देवः एतस्य साक्षी अस्ति यद् भवती मां बलात् प्रेषयति।
लक्ष्मणस्य वचनं श्रुत्वा सीतायाः नेत्राभ्याम् अश्रूणि प्रवहन्ति स्म, लक्ष्मणः च ततः तेन मार्गेण प्रस्थानम् अकरोत् येन मार्गेण रामः अगच्छत्।
*-प्रदीपः!*
No comments:
Post a Comment