Saturday, November 16, 2024

पङ्गुमोक्ष - Cauvery snAnam

Courtesy: Sri. Anantha Kalyana Krishnan 

*पङ्गुमोक्ष:। पुराणकथा।*
 तुलामासेषु कावेरीस्नानं भक्तजनेभ्य: परिपावनमिति विश्वास: अनादिकालादारभ्य समूहे वर्तते। तुलामासे भारतस्य सर्वपुण्यनदीभ्योपि जलस्य सङ्गम: कावेर्यां भवतीति पुराणेषु प्रतिपादितमस्ति। अत: जना: तुलाकावेरीस्नानस्य मुख्यत्वं कल्पयन्ति। तुलामासे एकं दिनं वा कावेर्यां स्नानं करणीयमिति केषाञ्चित् सङ्कल्प:। यत्र कुत्रापि भवाम: तुलामासे प्रतिदिनमपि कावेर्यां स्नानं करणीयमिति केचन । 
कावेर्या: उत्पत्ति: कुडकुपर्वतसानुषु बागमण्डलमिति ग्रामं परित: विद्यमाने शिरस्कावेरीत्यस्मिन् पर्वतप्रदेशे संभवति। कावेरीतटे २९ स्नानघट्टा: सन्ति। कर्णाटकस्य शिरस्कावेर्यां समारभ्य तमिल्नाडुराज्यस्य मयिलाडुतुरै ( मयूरनाथक्षेत्रम्) प्रदेशे अस्य समाप्ति:। केचन भक्ता: शिरस्कावेर्या: आरभ्य एकैकदिनमपि एकैकस्नानघट्टे स्नात्वा २९ दिनानि तुलाकावेरीस्नानव्रतमाचरन्ति। २९ तमदिनस्य स्नानस्य नाम पर्यवसायिस्नानमिति ज्ञायते। अस्मिन् दिने मयूरनाथक्षेत्रस्य सर्वेषां देवालयानां उत्सवमूर्तय: कावेर्यां निमज्जनं कृत्वा प्रतिगच्छन्ति यस्मिन् सन्दर्भे सहस्रश: भक्ता: अपि कावेर्या: समुद्रसङ्गमस्थाने पुण्यस्नानं कुर्वन्ति। जातु कश्चन भक्त: यद्यपि जन्मना पङ्गु: तथापि स्वस्य शारीरिकक्लेशमवग्ण्य एकैकं स्नानघट्टं गत्वा तुलाकावेरीस्नानव्रतस्य पालनं करोति स्म। यदा २९ तमं दिनं समागतं तेन मयूरनाथक्षेत्रं न प्राप्तम्। तत्र प्राप्तुं इतोप्येकदिनमावश्यकमिति ज्ञात्वा स: भगवन्तं विश्वनाथं हे भगवन् पङ्गुना मया तुलाकावेरीस्नानव्रतस्य संपूर्ति: निश्चितसमये कर्तुं अशक्तमित्यभवत् ।अत: अहं क्षन्तव्य: इति प्रार्थितवान् । तदा भगवान् तस्मै दर्शनं दत्त्वा अवदत् यद् भवान् सावधानं गच्छतु , यदा भवान् कावेर्या: अन्तिमघट्टे स्नाति तदा एव अस्य व्रतवैभवस्य समाप्ति: इति। समानसमये यदा भक्तजना: मयूरनाथक्षेत्रे पर्यवसायिस्नानार्थं सम्मिलिता: आसन् विश्वनाथदेवालयात् किञ्चन अशरीरिवाक्यं समागतम्। " अद्य मम परमभक्त: कश्चित् पङ्गु: शरीरवैकल्यकारणेन अन्यत्र लग्न:। स: श्व: एव अत्र समागमिष्यति। अत: तस्य स्नानसन्दर्भे एव अस्य तुलाकावेरीव्रतस्य परिसमाप्ति: भवति। ये ये अद्य स्नानं कृतवन्त: तेषां तुलाकावेरीस्नानव्रतस्य पूर्णफलसिद्धि: भवितव्या चेत् श्व: अपि पङ्गो: स्नानसन्दर्भे स्नानीयमेव। इदं श्रुत्वा भयभक्तिभ्यामुद्भूता: रोमाञ्चचकिता: भक्ता: हरहरमहादेवेति घोषमकुर्वन्। अग्रिमदिने यदा पङ्गु: मन्दं मन्दं मयूरनाथपुरीं प्रविष्ट: सर्वे तं भक्त्यादरपुरस्सरं स्वीकृत्य वाद्यघोषसहितं स्नानार्थं नदीं नीत्वा तदनन्तरं तं वस्त्रफलपुष्पमालादिभि: समादृत्य तोषितवन्त:। तस्मिन्नेव दिने स: भक्त: देहमुक्तिं प्राप्तवानिति। तदारभ्य वृश्चिकमासस्य प्रथमं दिनं पङ्गुमोक्षदिनमिति विख्यातं जातम्।

No comments:

Post a Comment