*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(प्रथमः सर्गः)
हनुमता सह रामस्य मेलनम्। (द्वितीयः खण्डः)
हनुमतः प्रश्नं श्रुत्वा सुग्रीवः अवदत्, अहं चिन्तयामि यद् एतौ द्वावपि पुरुषौ बालिद्वारा प्रेषितौ कौचन गुप्तचरौ स्तः। तपस्विनां वेषं धृत्वा तौ अस्माकम् अन्वेषणाय आगच्छताम्। वयं सतर्काः भवेम। हनुमन्! त्वं वेषं परिवर्त्य तयोः समीपं गत्वा तयोः परिचयं ज्ञात्वा आगच्छ। यदि मम सन्देहः सम्यक् तर्हि त्वं किमपि कुर्याः।
सुग्रीवस्य निर्देशानुसारं हनुमान् ब्राह्मणस्य वेषं धृत्वा रामलक्ष्मणयोः समीपम् अगच्छत्। हनुमान् तौ उभावपि प्रणम्य अत्यन्तं विनयस्वरेण अपृच्छत् हे वीरौ! भवन्तौ सत्यपराक्रमिणौ, देववत् प्रभावशालिनौ दृश्येते। भवन्तौ किमर्थम् एतं वन्यप्रदेशम् आगच्छताम्? भवतोः शरीरस्य कान्तिः स्वर्णवत् प्रकाशिता भवति। भवतोः विशालबाहू वीरवेषं च दृष्ट्वा एवं प्रतीयते यद् भवन्तौ देवराजम् इन्द्रमपि पराजेतुं शक्नुयाताम्, परन्तु पुनः भवतोः मुखमण्डलं म्लानं दृश्यते! तस्य कारणं किम्?
कृपया भवन्तौ स्वीयं परिचयं यच्छताम्। एवं प्रकारेण भवन्तौ किमर्थं तूष्णीं स्तः?
अस्मिन् पर्वते वानरश्रेष्ठः सुग्रीवः निवसति। तस्य भ्राता बालिः तं राज्यात् निष्कासितवान्। तस्य पत्नीमपि बालिः अपाहरत्। वानरशिरोमणिः सुग्रीवः भवद्भ्यां सह मित्रतां कर्तुम् इच्छति। तस्य आज्ञया अहं भवतोः परिचयं ज्ञातुम् आगच्छामि। अहं वायुदेवस्य पुत्रः अस्मि, मम नाम हनुमान् अस्ति। अहमपि वानरजातेः अस्मि। इदानीं भवन्तौ अपि भवतोः परिचयं यच्छताम्। अहं सुग्रीवस्य मन्त्री अस्मि, इच्छानुसारं च वेषं परिवर्तयितुं शक्नोमि। अहं भवन्तौ सर्वम् अवदम्। आशासे यद् इदानीं भवन्तौ अपि स्वपरिचयं प्रदाय मां कृतार्थं करिष्यतः।
हनुमतः चातुर्यपूर्णं स्पष्टं वचनं श्रुत्वा रामः लक्ष्मणम् अब्रवीत् हे सौमित्र! तस्य वाणीं श्रुत्वा एवं प्रतीयते यत् सः वेदज्ञः महान् विद्वान् चास्ति। तस्य वचने मम पूर्णः विश्वासः यद् एषः महामनस्विनः वानरराजस्य सुग्रीवस्य सचिवः अस्ति। अपिच सुग्रीवस्य हिताय हि एषः अत्र आगच्छत्। अतः त्वं निर्भयः सन् तं सर्वं श्रावय।
रामस्य आज्ञया लक्ष्मणः हनुमन्तम् अब्रवीत् हे वानरश्रेष्ठ! सुग्रीवस्य गुणानां परिचयम् आवां प्राप्नुव। आवां तस्यैव अन्वेषणाय अत्र आगच्छावः। भवान् सुग्रीवस्य कथनानुसारं मित्रतायाः यां वार्तां करोति सा मित्रता आवाभ्यां अङ्गीक्रियते। आवाम् अयोध्यापतेः महाराजदशरथस्य पुत्रौ स्वः। एषः श्रीरामचन्द्रः महाराजस्य ज्येष्ठपुत्रः, अहं तस्य कनिष्ठः भ्राता लक्ष्मणः अस्मि। चतुर्दशवर्षाणां कृते वनवासं प्राप्य वने वस्तुं सः स्वपत्न्या सीतया सह वनम् आगच्छत्। अहमपि ताभ्यां सह वनम् आगच्छम्। आवयोः अनुपस्थितौ रावणः भ्रातृजायायाः सीतायाः अपहरणं कृत्वा अनयत्। तामेव आशां नीत्वा आवाम् आगच्छावः यत् सम्भवतः सः आवयोः साहाय्यं कुर्यात्। आवां महाराजस्य सुग्रीवस्य समीपं गमिष्यावः।
हे वानरराज! यस्य चक्रवर्तिसम्राजः दशरथस्य पुरतः सम्पूर्णभूमण्डलस्य राजामहाराजाः नतमस्तकाः भवन्ति स्म, तस्य च शरणागताः भवन्ति स्म, तस्यैव महाराजस्य ज्येष्ठपुत्रः अद्य सुग्रीवस्य शरणम् आगच्छति, येन महाराजः सुग्रीवः तस्य दलबलेन सह तस्य (रामस्य) साहाय्यं कुर्यात्।
एवं ब्रुवाणस्य लक्ष्मणस्य कण्ठः अवरुद्धः अभवत्, तस्य च नेत्राभ्याम् अश्रूणि प्रवहन्ति स्म।
लक्ष्मणस्य वचनं श्रुत्वा हनुमान् अवदत् हे लक्ष्मण! भवतोः आगमनेन अद्य अस्माकं प्रदेशः पवित्रः अभूत्। वयं भवतोः दर्शनेन कृतार्थाः अभूम। भवन्तौ यथा विपत्तौ स्तः, तथा महाराजः सुग्रीवोऽपि महत्यां विपत्तौ अस्ति। तस्य अग्रजः बालिः सुग्रीवस्य पत्नीम् अपाहरत्, तं च राज्यात् निरवासयत्। अतः सः अस्मिन् पर्वते निर्जने स्थाने निवासं करोति। तथापि भवद्भ्याम् आश्वासनं ददामि यत् सः भवतोः सर्वप्रकारसाहाय्यं करिष्यति।
इत्थम् उक्त्वा हि हनुमान् अत्यन्तम् आदरेण सह रामलक्ष्मणौ तस्य स्कन्धयोः आसयित्वा सुग्रीवस्य समीपम् अगच्छत्।
*-प्रदीपः!*
No comments:
Post a Comment