*श्रीरामायणकथा, अरण्यकाण्डम्।*
(नवमः सर्गः)
रावणं प्रति सूचना।
खरदूषणयोः वधात् परं खरस्य अकम्पन-नामकः सैनिकः यः कथञ्चित् पलाय्य स्वीयान् प्राणान् अरक्षत्, सः लङ्कां गत्वा खरदूषणाभ्यां सह तयोः समस्तसेना नष्टा अभवत् इति रावणाय सूचनाम् अददात्। रावणस्य समक्षं गत्वा सः हस्तौ योजयित्वा अवदत् हे लङ्केश! दण्डकारण्ये स्थिते भवतः जनस्थाने निवासं कुर्वाणानां भवतः भ्रातृभ्यां खरदूषणाभ्यां सह चतुर्दशसहस्र-सैनिकानां वधः अभवत्। कथञ्चिद् अहं मम प्राणान् रक्षित्वा भवते सूचनां दातुम् आगच्छामि।
अकम्पनस्य मुखात् तां सूचनां प्राप्य लङ्कापतिः रावणः अत्यन्तं कुपितः अभवत्। सः अपृच्छत्- सः कः यः सेनया सह मम भ्रात्रोः वधम् अकरोत्? अहम् अधुनैव तं हनिष्यामि। त्वं मां सर्वं वृत्तान्तं श्रावय!
अकम्पनः अवदत् हे लङ्केश! अयोध्यायाः राजकुमारः रामः स्वेन पराक्रमेण एकाकी हि तेषां सर्वेषां राक्षसवीराणां वधम् अकरोत्।
तत् श्रुत्वा रावणस्य महद् आश्चर्यम् अभवत्, सः च पुनः अपृच्छत् , खरं हन्तुं किं देवाः रामस्य साहाय्यम् अकुर्वन्?
अकम्पनः अवदत् नहि प्रभो! देवाः केनापि प्रकारेण तस्य साहाय्यं न अकुर्वन्। तत् सर्वं सः रामः एकाकी एव अकरोत्। वास्तवेन तु रामः महान् तेजस्वी, शक्तिमान्, युद्धविद्यायां पारङ्गतः योद्धा अस्ति। खरः यथा महान् योद्धा, यस्य गर्जनेन सर्वे देवाः कम्पन्ते स्म, तं तस्य अपारशक्तिशालिसेनया सह क्रीडनकवत् अनाशयत्।
तस्य रणकौशलं दृष्ट्वा अहम् एवं चिन्तयामि यद् भवान् भवतः सम्पूर्णसेनां नीत्वा तेन सह युद्धं कुर्यात् चेदपि तं पराजेतुं न शक्नुयात्। परन्तु मम कश्चन विचारः यत् तं पराजेतुम् एकः उपायः अस्ति।
तेन सह तस्य अत्यन्तं सुन्दरी, रूपवती, लावण्यमयी पत्नी अपि अस्ति। रामः ताम् अत्यन्तं प्रीणाति। सः तस्य पत्न्या विना क्षणमेकमपि स्थातुं न शक्नुयात्। मम विश्वासः यद् यदि भवान् केनापि प्रकारेण ताम् अपहृत्य आनयेत् तर्हि सः तस्य पत्न्याः वियोगात् रुदित्वा रुदित्वा स्वयं हि म्रियेत।
लङ्कापतिः रावणः अकम्पनस्य तं प्रस्तावं सर्वथा उचितम् अमन्यत। तत्काले ही सः स्वीयं दिव्यरथम् आरुह्य आकाशमार्गेण उड्डीय् मारीचस्य समीपम् अगच्छत्।
कामपि सूचनां विना सम्मुखे रावणं दृष्ट्वा मारीचः अवदत् हे लङ्केश! अद्य अकस्मात् हि भवतः आगमनस्य कारणं किम्? भवतः अतीव त्वरां दृष्ट्वा तु मम मनसि शङ्का उत्पद्यते। लङ्कायां सर्वे कुशलिनः तु सन्ति ननु?
रावणः अवदत्, अहं कस्माच्चित् विशेषकारणात् आगच्छामि। अयोध्यायाः राजकुमारः रामः सेनया सह मम भ्रातरौ खरदूषणौ अहन्। इदानीम् अहम् इच्छामि यद् रामस्य पत्न्याः सीतायाः अपहरणं कुर्याम्। तदर्थं तव साहाय्यस्य आवश्यकता अस्ति। सीतायाः वियोगात् रामः युद्धं विना हि रुदित्वा रुदित्वा म्रियेत, मम च प्रतिशोधः पूर्णः भवेत्।
रावणस्य वचनं श्रुत्वा मारीचः अवदत् हे लङ्केश! भवतः अयं विचारः सर्वथा अनुचितः वर्तते। येन केनापि वा भवते उपदेशोऽयम् अदीयत, वास्तवेन सः भवतः मित्रं न, अपितु शत्रुः वर्तते। रामः अत्यन्तं बलशाली पराक्रमी च विद्यते। अपिच भवान् केनापि प्रकारेण तं पराजेतुं न शक्नुयात्। रामे भवति सति भवान् तस्य पत्नीम् अपहर्तुं न शक्नुयात्।
तस्य अद्भुतपराक्रमस्य सम्मुखे भवान् क्षणमपि स्थातुं न शक्नुयात्। अतः भवतः अत्रैव हितः भवेत् यद् भवान् एतं विचारं त्यक्त्वा तूष्णीमेव लङ्कां गत्वा स्वीये सिंहासने उपविशतु।
मारीचस्य उत्तरं श्रुत्वा रावणः निराशः सन् लङ्कां प्रत्यगच्छत्।
*-प्रदीपः!*
No comments:
Post a Comment