*श्रीरामायणकथा, अरण्यकाण्डम्!*
(अष्टमः सर्गः)
खरदूषणयोः वधः।
(द्वितीयः खण्डः)
सेनापतेः मृत्युः अभवत् इति दृष्ट्वा क्रुद्धः खरः रामे एवं प्रकारेण बाणान् क्षेप्तुम् आरभत यस्मात् तस्य बाणाः वायुमण्डलस्य सर्वासु दिक्षु प्रसृताः अभवन्। तस्य प्रत्युत्तरे रामचन्द्रः अग्निबाणान् क्षिपति स्म। तदा इतोपि कुपितः सन् खरः कञ्चन बाणम् अक्षिपत्। तेन बाणेन सः रामचन्द्रस्य धनुः अकर्तयत्। खरस्य तादृशम् अद्भुतपराक्रमं दृष्ट्वा यक्षः, गन्धर्वः देवः च इत्यादयः सर्वे आश्चर्यचकिताः अभवन्, किन्तु अदम्यः योद्धा रामः मनागपि विचलितः न अभवत्।
सः तदा ऋषिणा अगस्त्येन प्रदत्तं धनुः गृहीत्वा क्षणाभ्यन्तरे खरस्य अश्वान् अहन्। रथहीनः भूत्वा तदा पराक्रमी खरः अत्यन्तं कुपितः सन् हस्ते परिघम् आदाय रामं हन्तुम् अधावत्। खरः रामं प्रति धावित्वा आगच्छति इति दृष्ट्वा रामः अवदत् हे राक्षसराज! यदि सम्पूर्णब्रह्माण्डस्य स्वामी अपि निर्दोषजनान् सज्जनान् च तुदेत् तर्हि अन्ते सः अपि तस्य पापस्य फलम् अवश्यं प्राप्नुयात्।
त्वमपि निर्दोषिभ्यः ऋषिमुनिभ्यः भयङ्करकष्टप्रदानस्य परिणामं भोक्ष्यसे। अहं त्वादृशान् अधर्मिणः दुष्टदानवान् विनाशयितुं हि वनम् आगच्छामि। इदानीं तवापि अन्तिमः समयः आगच्छति। इदानीं त्वं कथञ्चिदपि जीवितुं न शक्नुयाः।
रामस्य वचनं श्रुत्वा खरः अवदत् हे अयोध्यायाः राजकुमार! त्वं स्वयं हि आत्मनः प्रशंसां कुर्वन् स्वस्य तुच्छतायाः परिचयं ददासि। तव तावत् सामर्थ्यं नास्ति यत् त्वं मम वधं कर्तुं शक्नुयाः। अद्य मम अयं परिघः त्वां चिरनिद्रायां शाययेत्।
एतदेव उक्त्वा खरः स्वीयं शक्तिशालिनं परिघं रामस्य वक्षःस्थलं लक्ष्यीकृत्य अक्षिपत्, परन्तु रामः तदा एकेन बाणेन तं परिघम् अकर्तयत्। तत्पश्चात् च रामः खरे अनेकान् बाणान् क्षिप्त्वा तस्य शरीरं क्षतविक्षतम् अकरोत्।
क्षतविक्षतः भूत्यापि सर्पवत् क्रुद्धः खरः रामस्य उपरि आक्रमणम् अकरोत्। तदा रामः तस्मिन् (खरे) ऋषिणा अगस्त्येन प्रदत्तं बाणं क्षिप्त्वा तस्य हृदयम् अभिनत्। भयानकचीत्कारं कुर्वन् खरः विशालपर्वतवद् धराशायी अभवत्, तस्य च इहलीला समाप्ता अभवत्।
तस्मिन् युद्धे रामस्य महान् विजयः अभवत् इति दृष्ट्वा ऋषिः, मुनिः, तपस्वी च इत्यादयः सर्वे रामस्य जयजयकारं कुर्वन्तः तस्य उपरि पुष्पवर्षणं कुर्वन्ति स्म। ते रामस्य भूरि भूरि प्रशंसां कुर्वन्तः अब्रुवन् हे राघव! भवतः इमम् उपकारं दण्डकारण्यस्य निवासिनः तपस्विनः च कदापि न विस्मरिष्यन्ति। राक्षसानां विप्लवेन अस्माकं जीवनम् , अस्माकं तपस्या, अस्माकं शान्तिः च इत्यादिकं सर्वं नष्टप्रायम् अभवत्।
अद्यारभ्य वयं भवतः कृपया निर्भयाः निश्चिन्ताश्च अभूम। परमपिता परमात्मा भवतः कल्याणं कुर्यात्। इत्थं रामाय आशीर्वादान् प्रदाय ते ऋषिमुनयः स्वीयं स्वीयं निवासस्थानं प्रत्यगच्छन्। लक्ष्मणः अपि सीतां नीत्वा गिरिगुहातः प्रत्यागच्छत्। स्वमहापराक्रमिणः पत्युः शौर्यगाथां श्रुत्वा सीतायाः हृदयम् अत्यन्तं प्रसन्नम् अभवत्।
*-प्रदीपः।*
No comments:
Post a Comment