Friday, October 4, 2024

Srimad Ramayana Aranya kandam part 15 in sanskrit

*श्रीरामायणकथा, अरण्यकाण्डम्!*
(पञ्चदशः सर्गः)
श्रीरामस्य प्रत्यागमनं विलापः च। 

मारीचं हत्वा यदा रामः आश्रमं प्रति आगच्छति स्म तदा तस्य पृष्ठतः कश्चन शृगालः कठोरस्वरेण चीत्कारम् अकरोत्। वनस्य पशवः  तस्य वामतः धावन्ति स्म। पक्षिणः च डयन्ते स्म। तम् अशुभसङ्केतं दृष्ट्वा रामस्य हृदयं शङ्कया पूर्णम् अभवत्। सः सीतायाः चिन्तनेन सन्तप्तः अभवत्। तदानीं हि मार्गे सः लक्ष्मणः आगच्छति इति अपश्यत्। लक्ष्मणं दृष्ट्वा रामः एवम् अचिन्तयत् यत् सीता राक्षसानां कस्मिंश्चित् छले निबद्धा अभवत्। 
 
चिन्तितः सन् रामः लक्ष्मणम् अपृच्छत् लक्ष्मण! सीता कुत्र अस्ति? अहं तुभ्यम् आदेशम् अददां यत् त्वं सीतायाः रक्षणं कुरु, किन्तु त्वं ताम् एकाकिनीं त्यक्त्वा कथम् आगच्छः? सा कस्याञ्चित् विपत्तौ तु न अपतत्? सा जीविता अस्ति उत न? शीघ्रं कथय, तस्याः किम् अभवत्? यदि सा जीविता न भवेत् तर्हि अहमपि स्वीयान् प्राणान् त्यक्ष्यामि। कुत्रचिद् एवं तु नास्ति यत् सः मायावी राक्षसः हा लक्ष्मण! इत्येवं चीत्कारं कृत्वा त्वामपि भ्रमे अपातयत्, अपिच त्वं सीतां त्यक्त्वा धावित्वा आगच्छः? 

अथवा सीता हि भ्रमिता भूत्वा अत्र तव आगमनाय त्वां विवशम् अकरोत्? एवं मन्ये यद् राक्षसाः प्रतिशोधं नेतुं महत् कपटम् अकुर्वन्, तस्मिन् कपटे च त्वमपि बद्धः अभवः। खरदूषणयोः मृत्योः प्रतिशोधं नेतुं ते निश्चयेन सीतायाः वधम् अकुर्वन्!

रामस्य तानि वचनानि श्रुत्वा व्यथितः लक्ष्मणः अब्रवीत् भ्रातः! अहं तां स्वेच्छया त्यक्त्वा न आगच्छामि। अहं तां बहुधा अबोधयं किन्तु सा मोहेन ग्रसिता भूत्वा माम् अवदत्- तव मनः पापेन पूर्णम् अस्ति। त्वं तव भ्रातुः शत्रुः असि, तस्य मृत्योः परं च त्वं मां प्राप्तुम् इच्छसि। तस्याः तादृशं वचनं श्रुत्वा अहं कोपेन आश्रमात् बहिः आगच्छम्। एवं प्रकारेण सा मां कठोरवचनम् उक्त्वा विवशं कृत्वा ततः अप्रेषयत्।

लक्ष्मणस्य वचनं श्रुत्वा रामः अवदत् हे सौम्य! त्वं सीतां त्यक्त्वा आगच्छः इति तु न समीचीनं कार्यम्। सीता क्रोधेन विक्षिप्ता अभवत्। क्रोधेन नार्याः मुखात् कठोरवचनस्य निस्सरणं स्वाभाविकं भवति। तत्र आश्चर्यं नाम किमपि नास्ति। किन्तु त्वं तु बुद्धिमान् असि। मम आदेशस्य अवहेलनं कृत्वा तव आगमनं सर्वथा अनुचितम् एव।
चिन्तितः रामः लक्ष्मणः च यदा आश्रमं प्राप्नुतां तदा तौ आश्रमे सीतां न अपश्यताम्। तौ समस्तपर्णशालानाम् अन्वेषणं कृत्वा अपि सीतां च प्राप्नुताम्।  हेमन्तर्तोः हिमेन यथा कमलिनी ध्वस्ता भूत्वा श्रीहीना भवति, तथा समस्तपर्णशाला शोभाशून्या अभवत्।  मृगचर्म, कुशः, आसनं च इत्यादयः इतस्ततः विकीर्णाः आसन्। वृक्षाणां पुष्पाणि पर्णानि च त्रुटितानि आसन्। 
आश्रमस्य अस्तव्यस्तदृश्यं दृष्ट्वा रामः विचारं करोति स्म।

कश्चित् सीतायाः हरणम् अकरोत्, अथवा कश्चिद् दुष्टः राक्षसः मन्ये तस्य आहाररूपेण ताम् अखादत्! कुत्रचित् सा पुष्पाणि चेतुं तु न अगच्छत्? अथवा सा जलम् आनेतुं नदीं तु न अगच्छत्? एवं विचिन्त्य रामः लक्ष्मणः च सर्वत्र अन्वेषणं कृत्वा अपि यदा सीतां न प्राप्नुताम्, तदा शोकेन रामस्य नेत्रे रक्तवर्णे अभवताम्। नदी,नाला, पर्वतः,कन्दरा च इत्यादिकं तत् तत् स्थानं गत्वा उच्चैः आहूय रामः सीतायाः अन्वेषणं करोति स्म।  

अन्ते तस्य उन्मत्तता तावती अवर्धत यत् सः कदाचित् कदम्बवृक्षस्य समीपं गत्वा पृच्छति स्म हे कदम्ब!तव पुष्पेषु मम सीतायाः स्नेहः अत्यधिकः आसीत्। त्वं हि वद सा कुत्र अस्ति? कदाचिद् बिल्ववृक्षं पृच्छति स्म हे बिल्व! किं त्वं पीतवस्त्रधारिणीं सीताम् अपश्यः? एवं प्रकारेण सः कदाचिद् वृक्षान् पृच्छति स्म, कदाचिद् लताः पृच्छति स्म, कदाचिच्च पुष्पसमूहं सीतायाः विषये पृच्छति स्म। पुनः कदाचिद् अशोकवृक्षस्य समीपं गत्वा पृच्छति स्म अरे अशोक! तव तु नाम अशोकः अस्ति। पुनः त्वं सीतया सह मां मेलयित्वा मम शोकं किमर्थं न हरसि? पुनः ताडवृक्षं पृच्छति स्म, त्वं तु सर्वेभ्यः वृक्षेभ्यो उन्नतः असि। त्वं तु बहुदूरे स्थितं सर्वमपि वस्तु द्रष्टुं शक्नोषि। किं त्वं दृष्ट्वा वक्तुं शक्नोषि यद् मम सीता कुत्रास्ति? तूष्णीं मा भूः! यदि त्वं द्रष्टुम् इच्छसि तर्हि अवश्यं तां द्रक्ष्यसि। 
*-प्रदीपः!*

No comments:

Post a Comment