Wednesday, October 30, 2024

Srimad Ramayana Aranya kandam part 10 in sanskrit

*श्रीरामायणकथा, अरण्यकाण्डम्!*
(दशमः सर्गः)
रावणं प्रति शूर्पणखायाः धिक्कारः। 

मारीचस्य वचनं श्रुत्वा निराशः रावणः लङ्कां प्राप्नोत्। तत्पश्चात् किञ्चित् कालानन्तरं शूर्पणखा रावणस्य समीपम् अगच्छत्। तदानीं रावणः स्वमन्त्रिभिः सह वार्तालापं करोति स्म। स्वर्णसिंहासने आरूढः रावणः तादृशः शोभमानः आसीत् यादृशः स्वर्णेष्टिकाभिः निर्मितायां  यज्ञवेद्यां घृतेन प्रज्वलितः अग्निः। 

समरभूमौ साक्षात् यमराजवद् दृश्यमानः  रावणः देवता, गन्धर्वः च इत्यादीन् सर्वान् अजयत्। राजोचितलक्षणैः सम्पन्नः रावणः वैदूर्यमणिः, स्वर्णं च इत्यादिभिः निर्मितैः आभूषणैः अलङ्कृतः आसीत्। तस्य अङ्गेषु विष्णोः चक्रेण देवानां च विविधैः आयुधैः बहुधा प्रहारः अभवत् चेदपि तस्य कश्चिदपि अङ्गः खण्डितः नाभवत्। 

अयं सः रावणः यः पर्वतानां शिखराणि छित्वा क्षिपति स्म। देवान् पादतले स्थापयति स्म। अन्येषां भार्याणां सतीत्वं नाशयति स्म। यज्ञेषु बाधाम् उत्पादयति स्म। तथा च सः दिव्यास्त्राणां प्रयोगमपि करोति स्म।

सः समुद्राणां पर्वतानाञ्च उपरि विजयं प्राप्नोत्। नागराजं वासुकिम् अजयत्, तक्षकस्य प्रियां पत्नीं सः अपाहरत्।  कुबेरं पराजित्य तस्य पुष्पकविमानम् अधिगृह्णाति स्म।  इन्द्रादयः सर्वे देवाः तस्मात् भीताः भवन्ति स्म। वायुदेवः तस्य उपरि व्यजनं दोलयति स्म। वरुणदेवः तस्य प्रासादे जलं पूरयति स्म। मृत्युमपि पराजेतुं तस्य सामर्थ्यम् आसीत्। 

सः (रावणः) दशसहस्रवर्षाणि यावत् घोरतपस्यां कृत्वा तथा च ब्रह्मदेवाय स्वीयं मस्तकं समर्प्य  देवता, दानवः, गन्धर्वः, पिशाचः, पक्षी, सर्पः च इत्यादिभ्यः  सङ्ग्रामे अभयं प्राप्नोत्। मनुष्यमतिरिच्य तस्य मृत्युभयम् अन्यस्मात् कस्मादपि नासीत्।

शूर्पणखा रामेण तिरस्कृता भूत्वा अत्यन्तं दुःखिता अभवत्। सा रावणस्य समीपं गत्वा क्रोधेन फुत्कारं कुर्वती अवदत् हे भ्रातः! भवतः पराक्रमं धिक्, भवतः मन्त्रिणः धिक्। 
भवान् तु भोगविलासे निमग्नः अस्ति। भवन्तस्तु सर्वे सुरायां सुन्दरीषु च सर्वदा व्यस्ताः भवन्ति। हे नीतिमन् रावण! किम् इदानीमपि अहं भवन्तं वदेयं यद् यथासमये उचितं कार्यं येन न क्रियते, यः राजा च स्वस्य देशस्य रक्षणं प्रति असावधानः भवति तस्य राज्यं शीघ्रं हि नष्टं भवति। 

भवान् जानीयात् यद् वृक्षात् पतितं पर्णम्, राज्यात् च्युतः राजा च इत्यनयोः किमपि मूल्यं न भवति। प्रजाः तस्यैव राज्ञः पूजां कुर्वन्ति यः राजा स्थूलनेत्राभ्यां शेते किन्तु नीतेः नेत्राभ्यां जागर्ति, यस्य च क्रोधः सुखदायकः स्यात्। यस्य राज्ञः गुप्तचराः सक्रियाः सतर्काः च न भवन्ति, सः राजा राज्यपालनाय योग्यः न भवति। भवतः  गुप्तचराः मूर्खाः, अयोग्याः, अलसाः च सन्ति। भवतः बुद्धिः दूषिता अस्ति, मन्त्रिणः च सर्वथा अयोग्याः सन्ति।

ते इदानीमपि न अजानन् यत् तेषां राज्यस्य दण्डकारण्ये कियती भयङ्करी घटना अभवत्। मम भ्रातृभ्यां खरदूषणाभ्यां सह चतुर्दशसहस्रराक्षसानां संहारः अभवत्। ये ऋषिमुनयः ह्यः भवतः नामश्रवणमात्रेण नितरां कम्पन्ते स्म ते अद्य शिरः उत्थाप्य निर्भयाः भूत्वा भ्रमन्ति।
भवान् तु इदानीमपि रामद्वारा कृतं भीषणहत्याकाण्डं न जानाति। 

शूर्पणखायाः कटुवचनानि श्रुत्वा कुपितः रावणः अपृच्छत् हे शूर्पणखे! मां वद, कः सः रामः? तस्य कियद् बलं कियान् च पराक्रमः स्तः? दुष्करदण्डकारण्ये सः किमर्थं प्राविशत्? 
तस्य पार्श्वे कानि अस्त्राणि सन्ति येषां साहाय्येन सः खरः, दूषणः,त्रिशिराः, महती सेना च इत्येतेषां सर्वेषां संहारम् अकरोत्? 
तव च नासिकाकर्णौ छित्वा सः त्वां किमर्थं कुरूपाम् अकरोत्? 

रावणस्य प्रश्नानाम् उत्तराणि यच्छन्ती शूर्पणखा अवदत् हे भ्रातः! महाबली रामः अयोध्यानरेशस्य दशरथस्य पुत्रः अस्ति। सः अत्यन्तं निपुणः धनुर्धारी अस्ति। 
सः एकाकी आसीत्, पादाभ्यां च तत्र अटति स्म। तथापि सः केवलं सार्धैकमुहूर्ताभ्यन्तरे तेषां सर्वेषां राक्षसानां संहारम् अकरोत्।

रामस्य बाणैः राक्षसाः अम्रियन्त इति तु अहम् अपश्यं किन्तु अहं तन्न अपश्यं यत् सः कदा धनुषः प्रत्यञ्चां कर्षति स्म कदा च बाणं क्षिपति स्म। अहं  स्त्री अस्मि इति कारणतः रामः मम वधं न अकरोत्, अपितु सः केवलं मम अवमाननं कृत्वा हि माम् अमुञ्चत्। 
रामस्य समानः तस्य भ्राता अत्यन्तं पराक्रमी लक्ष्मणः, तस्य च अत्यन्तं सुन्दरी पत्नी सीता अपि तेन सह स्तः। अस्मिन् भूतले सीतायाः समाना रूपवती सुन्दरी स्त्री अन्या काचिदपि मया अद्यावधि न दृष्टा। 
*प्रदीपः!*

No comments:

Post a Comment