*श्रीरामायणकथा, अरण्यकाण्डम्!*
(अष्टमः सर्गः)
खरदूषणयोः वधः।
खरस्य सेनायाः दुर्दशां दृष्ट्वा दूषणः स्वीयां विशालसेनां नीत्वा रामस्य समक्षम् अगच्छत्। परन्तु अल्पे हि काले रामस्य बाणैः तस्य सेनायाः अपि सा दशा अभवत् या दशा खरस्य सेनायाः अभवत्। स्वसेनायाः दुर्दशां दृष्ट्वा क्रुद्धः दूषणः मेघवद् घोरगर्जनं कुर्वन् रामे तीक्ष्णबाणान् क्षिपति स्म। दूषणस्य तद् आक्रमणं रोद्धुं रामः तादृशम् एकं बाणम् अक्षिपत् यस्मात् दूषणस्य धनुः भग्नम् अभवत्। ततः परं रामः युगपत् चतुरः बाणान् अक्षिपत् यस्मात् तस्य रथस्य चत्वारः अश्वाः मृत्वा भूमौ अपतन्।
पुनः रामः एकम् अर्द्धचन्द्राकारबाणं क्षिप्त्वा दूषणस्य सारथेः शिरः शरीरात् पृथग् अकरोत्। सः च मरणं प्राप्नोत्। तदानीं कुपितः दूषणः परिघं गृहीत्वा रामं हन्तुम् अधावत्। रामः अपि तदा क्षणाभ्यन्तरे स्वीयं खड्गं गृहीत्वा तेन खड्गेन दूषणस्य हस्तद्वयम् अकर्तयत्। दूषणः तदा पीडया व्याकुलः सन् मूर्च्छितः भूत्वा भूमौ अपतत्। दूषणस्य तादृशीं दुर्गतिं दृष्ट्वा सहस्रशः राक्षसाः युगपत् रामस्य उपरि आक्रमणम् अकुर्वन्।
प्रत्युत्तरे रामचन्द्रः स्वर्णवज्राभ्यां निर्मितं तीक्ष्णबाणं क्षिप्त्वा तेषां सर्वेषां राक्षसानां नाशम् अकरोत्। एवं प्रकारेण दूषणेन सह तस्य अपारसेना यमलोकं प्राप्नोत्। तदानीं केवलं राक्षसद्वयम् अवशिष्टम् आसीत् - खरः, तस्य सेनापतिः त्रिशिराः च।
खरस्य मनोबलं क्षीणम् अभवत्। खरस्य मनोदशां ज्ञात्वा तस्य सेनापतिः त्रिशिराः अब्रवीत् हे राक्षसराज! धैर्यं धरतु! अहमेव इदानीं रामं हत्वा अस्माकं सैनिकानां वधस्य प्रतिशोधं नेष्यामि। अहं प्रतिज्ञां करोमि यद् अहं तं तपस्विनम् अवश्यं हनिष्यामि, अन्यथा युद्धभूमौ अहं स्वीयान् प्राणान् त्यक्ष्यामि।
खराय सान्त्वनां प्रदाय सः भयङ्करं शस्त्रम् आदाय रामं हन्तुम् अत्यन्तं वेगेन गच्छति स्म।
सेनापतिः त्रिशिराः स्वं प्रति आगच्छति इति दृष्ट्वा रामः तत्परतापूर्वकं बाणान् क्षेप्तुम् आरभत। रामस्य बाणैः त्रिशिरसः सारथिः, अश्वः, ध्वजः च इत्यादयः सर्वे नाशं प्राप्नुवन्। तदानीं रथसारथिभ्यां विहीनः सेनापतिः हस्ते परिघम् आदाय रामं प्रति अधावत्, किन्तु पराक्रमी रामः स्वसमीपं तस्य आगमनात् पूर्वं हि तस्मिन् तीक्ष्णं बाणम् अक्षिपत् यस्मात् बाणः तस्य कवचं भित्त्वा तस्य हृदयं प्राप्नोत्। बाणः तस्य हृदयम् अभिनत् इत्यतः त्रिशिराः मृत्वा भूमौ अपतत्। तदा तत्स्थानस्य समस्ता भूमिः रक्तरञ्जिता अभवत्।
*-प्रदीपः!*
No comments:
Post a Comment