*श्रीरामायणकथा, अरण्यकाण्डम्!*
(सप्तमः सर्गः)
खरदूषणाभ्यां सह युद्धम्।
शूर्पणखायाः रक्तरञ्जितं मुखमण्डलं दृष्ट्वा क्रोधेन कम्पमानः खरः ताम् अपृच्छत् हे भगिनि! शीघ्रं कथय, तव एतां दशां कः अकरोत्?
कः अद्य निद्रामग्नं नागराजं रोष्टुं प्रायतिष्ट? कस्य शिरसि कालः नृत्यति? मां तस्य नाम शीघ्रं वद, तम् अपराधिनं मम क्रोधात् देवता, गन्धर्वः, पिशाचः, राक्षसः च इत्यादिषु कश्चिदपि रक्षितुं न शक्नुयात्।
खरस्य मुखात् तद् वचनं श्रुत्वा शूर्पणखा चेतनां प्राप्नोत्, सन्तोषमपि प्राप्नोत्। सा अवदत् हे भ्रातः! अयोध्यायाः महाराजदशरथस्य द्वौ पुत्रौ रामलक्ष्मणौ एतद् वनम् आगच्छतः। ताभ्यां सह रामस्य पत्नी सीता अपि अस्ति। तौ उभावपि अत्यन्तं सुन्दरौ, पराक्रमिणौ, तपस्विनौ च स्तः। यदा अहं रामस्य पत्न्याः विषये अपृच्छं तदा तौ कुपितौ भूत्वा तयोः एकः मम नासिकां कर्णं च अकर्तयत्।
हे भ्रातः! भवान् शीघ्रं तान् परलोकं प्रेषयित्वा मम अपमानस्य प्रतिशोधं नयतु। मम हृदयं तदा शान्तं भवेत् यदा अहं तेषाम् उष्णम् उष्णं रुधिरं पास्यामि।
तत्क्षणं हि खरः तस्य सेनायाः चतुर्दशयमराजसमानान् भयङ्करान् पराक्रमिणः योद्धॄन् राक्षसान् आदिशत् - हे वीराः! यूयं शूर्पणखया सह गत्वा तान् त्रीन् अपि हत!
मम भगिन्या तत्रैव तेषां शरीराणाम् उष्णम् उष्णं रुधिरं पाययित्वा तस्याः अपमानस्य ज्वालां शान्तां कुरुत। खरस्य आज्ञां प्राप्य ते भयङ्कराः राक्षसाः अस्त्रशस्त्रैः सुसज्जिताः भूत्वा रामः, लक्ष्मणः, सीता च इत्येतान् हन्तुं शूर्पणखया सह अगच्छन्।
शूर्पणखया सह तद् राक्षसदलं दृष्ट्वा रामः लक्ष्मणम् अब्रवीत् लक्ष्मण! त्वं सीतायाः समीपे स्थित्वा तस्याः रक्षणं कुरु। अहम् एतान् राक्षसान् हत्वा यमलोकं प्रेषयेयम्।
ततः परं रामः धनुषि प्रत्यञ्चां बद्ध्वा बाणं संस्थाप्य तेभ्यः पूर्वसूचनां प्रयच्छन् अब्रवीत् रे दुष्टाः! वयम् इदानीं तपःधर्मस्य पालनं कुर्मः। कस्यापि निर्दोषिणः उपरि प्रहारं न कुर्मः। यूयं सर्वे पापात्मानः तथा च ऋषीणां अपराधं कुर्वाणाः स्थ।
तेषाम् ऋषिमुनीनाम् आज्ञया ह्यहं धनुर्बाणान् गृहीत्वा युष्मान् हन्तुम् आगच्छामि। यदि यूयं युद्धं कर्तुम् इच्छथ तर्हि अत्रैव स्थित्वा मया सह युद्धं कुरुत अन्यथा शीघ्रम् इतः अपगच्छत।
तत्क्षणं हि ते राक्षसाः युगपत् रामस्य उपरि अस्त्रशस्त्रैः आक्रमणम् अकुर्वन्। प्रत्युत्तरे रामः युगपत् तेषु चतुर्दशबाणान् अक्षिपत्। यस्मात् बाणाः गत्वा तेषां वक्षःस्थलानि अभिन्दन्, तेषां प्राणान् च अहरन्। राक्षसानां मृत्योः परं तेषां मृतशरीराणि भूमौ अपतन्।
तेषां सर्वेषां राक्षसानां मृत्युः अभवत् इति दृष्ट्वा शूर्पणखा रुदती खरस्य समीपं गत्वा रामः एकिकी एव तान् सर्वान् राक्षसान् अहन् इति अवदत्। ते सर्वे मिलित्वा अपि रामस्य किमपि कर्तुं न शक्नुवन्।
*-प्रदीपः!*
No comments:
Post a Comment