*श्रीरामायणकथा, अरण्यकाण्डम्।*
(पञ्चमः सर्गः)
पञ्चवट्याम् आश्रमः।
(द्वितीयः खण्डः)
तदानीं हेमन्तर्तोः आगमनम् अभवत्। एकदा प्रातःकाले रामः सीतया सह गोदावरीनद्यां स्नानं कर्तुं गच्छति स्म। लक्ष्मणः तयोः पृष्ठतः घटं नीत्वा गच्छति स्म। यदा ते नद्याः तटं प्राप्नुवन् तदा लक्ष्मणस्य स्मरणम् अभवत् यद् हेमन्तर्तुः रामचन्द्रस्य अत्यन्तं प्रियः इति। सः नद्याः तटे घटं स्थापयित्वा अवदत् हे भ्रातः! अयं स एव हेमन्तकालः अस्ति यः भवतः सर्वाधिकः प्रियः अस्ति। भवान् इमम् ऋतुं वर्षस्य आभूषणम् इति कथयति स्म। इदानीं शीतः स्वीयां चरमावस्थां प्राप्नोत्। सूर्यकिरणस्य स्पर्शः अत्यन्तं प्रियः प्रतीयते।
पृथ्वी अन्नपूर्णा अभवत्। राजा-महाराजाः सर्वे स्वीयां स्वीयां चतुरङ्गिणीसेनां नीत्वा शत्रून् पराजेतुं निर्गच्छन्ति। सूर्यस्य दक्षिणायनम् अभवत् इति कारणतः उत्तरदिशः शोभा समाप्ता अभवत्। अग्नेः उष्मः प्रियः अभवत्। रात्रिः हिमवत् शीतला अभवत्। यवैः गधूमैः च परिपूर्णेषु क्षेत्रेषु धूमिकायाः बिन्दुः मुक्तावद् द्योतते। धूमिकायाः जलेन आर्द्रीभूतानि सैकतानि पादं तुदन्ति।
तत्र च भ्राता भरतः अयोध्यानगर्याम् अस्ति चेदपि वनवासिनः जीवनं यापयन् शीतलभूमौ शयनं कुर्यात्। सः अपि सर्वम् ऐश्वर्यं त्यक्त्वा भवादृक्त्यागस्य कष्टस्य च जीवनं यापयेत्। हे भ्रातः! विद्वांसः वदन्ति यद् मनुष्यस्य स्वभावः तस्य मातुः अनुकूलः भवति, पितुः न। किन्तु भरतः एताम् उक्तिं मिथ्या असाध्नोत्। तस्य स्वभावः तस्य मातृवत् क्रूरः कदापि नास्ति। अस्माकम् अपिच सम्पूर्णदेशस्य दुःखस्य कारणं तु वास्तविकरूपेण तस्य मातुः क्रूरस्वभावः अस्ति।
कैकेयीं प्रति लक्ष्मणस्य निन्दायुक्तम् अन्तिमवाक्यं श्रुत्वा रामः अवदत् लक्ष्मण! एवं प्रकारेण त्वं मातुः कैकेय्याः निन्दनं न कुर्याः। वनवासे वयं तपोधर्मस्य पालनं कुर्मः। अपिच तपस्विनां कृते कस्यापि निन्दनं, तस्य श्रवणं च इत्युभयमपि पापं भवति। कैकेयी यथा भरतस्य माता अस्ति तथा सा अस्माकमपि माता अस्ति।
चित्रकूटम् आगत्य भरतेन यत् स्नेहयुक्तं मधुरं वचनम् उक्तं तद् अस्माभिः स्मर्तव्यम्। अहं तु पुनः चतुर्णां भ्रातॄणां प्रेमपूर्वकं मेलनदिनस्य व्यग्रतया प्रतीक्षां करोमि।
एवं प्रकारेण भरतस्य वियोगात् व्याकुलः रामः सीतालक्ष्मणाभ्यां सह गोदावरीनद्याः शीतले जले स्नानं कृत्वा स्वीयम् आश्रमं प्रत्यगच्छत्।
*-प्रदीपः!*
No comments:
Post a Comment