Sunday, October 20, 2024

Srimad Ramayana Aranya kanda part 4 in sanskrit

*श्रीरामायणकथा, अरण्यकाण्डम्!*
(चतुर्थः सर्गः)
ऋषेः अगस्त्यस्य आश्रमः।

सुतीक्ष्णमुनेः अनुमतिं नीत्वा रामः, सीता, लक्ष्मणः च ततः प्रस्थानम् अकुर्वन्। ऋषेः कथनानुसारं मार्गे ते पनसः, बिल्वः, अशोकः, तिनिशः, चिरिविल्वः च इत्यादीनां फलानां वृक्षान् अपश्यन्। तथा च अनेकान् वन्यवृक्षानपि अपश्यन्।  विचित्रं वनम्, मेघसदृशी पर्वमाला,  सरिता, सरोवरः च इत्यादीनां नयनाभिरामदृश्यं पश्यन्तः महर्षेः अगस्त्यस्य भ्रातुः आश्रमं प्राप्नुवन्। तत्र दिनद्वयम् उषित्वा विश्रमं कृत्वा अनन्तरं ते अगस्त्यमुनेः आश्रमस्य समीपम् अगच्छन्। तस्य वनस्य वातावरणम् अत्यन्तं मनोहारि आसीत्। 

सुन्दरविशालवृक्षाः फलपुष्पैः शोभमानाः आसन्। गजैः त्रुटिताः अनेके वृक्षाः भूमौ पतिताः आसन्। वानराः वृक्षाणाम् उन्नतशाखासु कूर्दन्ते स्म। पक्षिणां मधुरः कलरवः चतसृषु दिक्षु श्रूयते स्म। हिंस्रपशवः हरिणादिभिः सह वैरभावं त्यक्त्वा क्रीडन्ति स्म। 
तद् दृश्यं दृष्ट्वा रामः लक्ष्मणम् अब्रवीत् हे लक्ष्मण! महर्षेः अगस्त्यस्य आश्रमस्य अद्भुतप्रभावात् जन्मजातशत्रुः अपि एकः अन्यस्य हननं विस्मृत्य परस्परं स्नेहं कुर्वन्ति। अयमस्ति महर्षेः तपोबलस्य प्रभावः। अत्र राक्षसाः अपि आगत्य उपद्रवं विस्मरन्ति। अहम् अशृणवं यद् महर्षेः अगस्त्यात् प्रभाविताः सन्तः राक्षसाः स्वीयां तामसाचरणं त्यक्त्वा महर्षेः अनन्यभक्ताः अभवन्।

अस्मिन् युगे ऋषिमुनिषु  महामुनेः अगस्त्यस्य स्थानं सर्वोपरि वर्तते। तस्य कृपया देवता, राक्षसः, यक्षः, गन्धर्वः, नागः, किन्नरः च इत्यादयः सर्वे  मानवीयधर्मस्य पालनं कुर्वन्तः अत्यन्तं प्रेमपूर्वकं स्वीयं जीवनं यापयन्ति। अस्मिन् शान्तिप्रदे वने चोरः, दस्युः, लम्पटः, दुराचारी च इत्यादयः प्रवेष्टुं साहसं न कुर्वन्ति। एवं महात्मनः महर्षेः दर्शनस्य सौभाग्यम् अद्य वयं प्राप्स्यामः। हे लक्ष्मण! त्वम् आश्रमं गत्वा तस्मै मम आगमनस्य सूचनां देहि। 

रामस्य आज्ञां प्राप्य लक्ष्मणः आश्रमस्य अन्तः प्रविश्य महर्षेः कञ्चन शिष्यम् अवदत् हे सौम्य! कृपया त्वं महर्षिम् अगस्त्यं सूचय यद् अयोध्यायाः तेजस्विसम्राजः दशरथस्य ज्येष्ठपुत्रः श्रीरामचन्द्रः स्वपत्न्या जनकनन्दिन्या सीतया सह तस्य दर्शनाय आगच्छत्। सः आश्रमं प्रवेष्टुं तस्य अनुमतेः प्रतीक्षां करोति।

शिष्यस्य मुखात् लक्ष्मणस्य सन्देशं श्रुत्वा मुनिः अगस्त्यः अवदत् - त्वम् अत्यन्तम् आनन्ददायकं सन्देशम् अश्रावयः। रामस्य प्रतीक्षां कुर्वन् मम नेत्रे श्रान्ते अभवताम्। त्वं शीघ्रं गत्वा रामः, सीता, लक्ष्मणः च इत्येतान् सर्वान् नीत्वा मत्समीपम् आगच्छ।
शिष्यः रामसीतालक्ष्मणान् नीत्वा मुनेः समीपम् अगच्छत्। मुनिः तेषां सूचनां प्राप्य  पूर्वं हि तेषां स्वागताय कुटीरात् बहिः आगच्छत्।  तेजस्वी मुनिः तेषां स्वागताय स्वयं बहिः आगच्छत् इति दृष्ट्वा रामः शिरः अवनमय्य तं प्राणमत्। सीता लक्ष्मणः चापि तं प्राणमताम्।

मुनिः अगस्त्यः प्रेमपूर्वकम् उपवेशनाय तेभ्यः आसनानि अददात्, कुशलक्षेमं च अपृच्छत्। भोजनाय च तेभ्यः फलानि दत्त्वा अनन्तरम् अपृच्छत्  हे राम! अहं दशवर्षेभ्यः पूर्वं दण्डकारण्यं प्रति तव आगमनस्य सूचनां प्राप्नवम्। तदारभ्य हि अहं तव प्रतीक्षां करोमि।  एतद् मम सौभाग्यं यद् अद्य मम कुटीरं प्रति धर्मात्मनः सत्यपरायणस्य प्रतिज्ञापालकस्य पितृभक्तस्य आगमनम् अभूत्। तव आगमनेन मम कुटीरं धन्यम् अभूत्। 

ततः परं महर्षिः रामाय किञ्चन दिव्यास्त्रं यच्छन् अब्रवीत् हे राघव! देवासुरसङ्ग्रामसमये एतद् दिव्यास्त्रं मत्समीपे स्थापितम् आसीत्, अद्य अहं तुभ्यं ददामि। एतस्य यावत् सदुपयोगं त्वं कर्तुं शक्नुयाः तावद् अन्यः कश्चिदपि धर्मपरायणः योद्धा तस्य सदुपयोगं कर्तुं न शक्नुयात्।
*-प्रदीपः।*

No comments:

Post a Comment