Saturday, October 19, 2024

Srimad Ramayana Aranya kanda part 3a in sanskrit

*श्रीरामायणकथा, अरण्यकाण्डम्!*
(तृतीयः सर्गः)
सीतायाः शङ्का।
(द्वितीयः खण्डः)

सीतायाः वचनं श्रुत्वा रामः अब्रवीत् सीते! त्वं यत्किमपि वा अवदः तत् सर्वथा उचितम् अस्ति।  मम कल्याणाय त्वम् एतत् सर्वम् अवदः।  किन्तु अस्माकं धनुर्बाणधारनस्य एकमात्रं प्रयोजनम् अस्ति आर्याणां रक्षणम्। अत्र निवासं कुर्वाणाः ऋषिमुनयः, तपस्विनः सर्वे राक्षसानां कारणेन अत्यन्तं दुःखिताः सन्ति।  ते राक्षसेभ्यः आत्मनः रक्षणम् इच्छन्ति। तदर्थं ते शरणागताः भूत्वा मां प्रार्थयन्ते स्म। तेषां रक्षणाय हि अहं प्रतिज्ञाम् अकरवम्।

असहायः, दुःखितः, दरिद्रः च इत्येतेषां रक्षणं नाम क्षत्रियस्य धर्मः। ऋषिः, मुनिः ब्राह्मणः च इत्येतेषां सेवा मम करणीया भवति। पुनः तु अहं तेभ्यः वचनमपि अददाम्। किं तव विचारानुसारम् एतद् उचितं यद् अहं मम प्रतिज्ञायाः भञ्जनं कुर्याम्? 
त्वम् एतन्न कदापि इच्छसि यद् मम प्रतिज्ञायाः भञ्जनं भवतु , अपिच अहं मिथ्यावादी भवेयम्! त्वं तु जानासि यत् सत्यं मम प्राणेभ्यः अपि प्रियं विद्यते। अपिच मम प्रतिज्ञायाः पालनाय अहं तव लक्ष्मणस्य च परित्यागमपि कर्तुं शक्नुयाम्। अहं मम प्राणान् अपि त्यक्तुं शक्नुयाम्, किन्तु मम प्रतिज्ञा मृषा भवतु इति अहं कदापि नेच्छामि।
तथापि तव वचनानि श्रुत्वा अहं सन्तुष्टः अस्मि।

ततः परं ते अगस्त्यमुनेः दर्शनाय प्रस्थानम् अकुर्वन् किन्तु मुनेः आश्रमस्य सङ्केतं न जानन्ति स्म। अन्येषाम् अनेकर्षिमुनीनां दर्शनं कुर्वन्तः वने भ्रमणं कृत्वा दशवर्षाणि अयापयन्।  तस्मिन् अवधौ ते पृथक् पृथक् स्थाने वर्षमेकं वर्षद्वयं वा इति कृत्वा कुटीरं निर्माय न्यवसन् , सममेव ते अगस्त्यमुनेः आश्रमस्य अन्वेषणं कुर्वन्ति स्म। परन्तु ते मुनेः आश्रमं न प्राप्नुवन्।

अन्ते च ते पुनः सुतीक्ष्णमुनेः आश्रमम् आगत्य रामः तम् अपृच्छत्  हे महर्षे! अहं विगतदशवर्षाणि यावत् वने भ्रमणं कुर्वन् महर्षेः अगस्त्यस्य आश्रमस्य अन्वेषणं करोमि, किन्तु तस्य दर्शनं न अभवत्। तस्य दर्शनस्य मम तीव्रः अभिलाषः अस्ति। अतः हे मुनिवर! कृपया भवान् तस्य आश्रमं गन्तुं मां मार्गं दर्शयतु।

मुनिः सुतीक्ष्णः अवदत् हे राम! त्वं दक्षिणदिशि षोडशमायिलमितं दूरं गच्छ। तत्र त्वम् एकं विशालम् अश्वत्थवनं द्रक्ष्यसि। तस्मिन् वने प्रत्येकम् ऋतौ पुष्पितानां सुगन्धितपुष्पाणां वृक्षाः सन्ति। तस्मिन् वने असङ्ख्याः पक्षिणः सन्ति ये नानाप्रकार-कलरवं कुर्वन्ति। तत्र  अनेकप्रकार-हंसः, वकः, कारण्डः च इत्यादिभिः युक्तः सरोवरोऽपि अस्ति।   

तस्मिन् वने महात्मनः अगस्त्यस्य भ्रातुः आश्रमः अस्ति यत्र सः सर्वदा ईश्वरसाधनायां लीनः भवति। कानिचन दिनानि यावत् तत्र उषित्वा विश्रमं कुरु। यदा तव क्लान्तिः दूरीभवेत् तदा त्वं ततः पुनः दक्षिणदिशि गच्छ। ततः चतुर्मायिलमिते दूरे महर्षेः अगस्त्यस्य शान्तः मनोरमः आश्रमः अस्ति, यस्य दर्शनमात्रेण अद्वितीया शान्तिः भवति।
*-प्रदीपः!*

No comments:

Post a Comment