Friday, October 18, 2024

Srimad Ramayana Aranya kanda part 3 in sanskrit

*श्रीरामायणकथा, अरण्यकाण्डम्!*
(तृतीयः सर्गः)
सीतायाः शङ्का।

मार्गे सीता रामचन्द्रम् अवदत् हे आर्यपुत्र! यद्यपि भवाय महान् पुरुषः अस्ति तथापि सूक्ष्मरूपेण विचारं करोमि चेद् एवं प्रतीयते यद् भवान् अधर्मे प्रवृत्तः अस्ति। हे नाथ! अस्मिन् संसारे मनुष्यस्य कामजनितदोषत्रयं भवति यस्य सर्वदा परित्यागः करणीयः भवेत्। प्रथमः दोषः मृषा भाषणम्। यद् भवान् कदापि न अकरोत् न च करिष्यति। द्वितीयः दोषः अस्ति परस्त्रीगमनम्। भवान् तु एकपत्नीव्रतधारी महान् सदाचारी चास्ति। अतः एतत् कार्यमपि भवत्कृते असम्भवम्। तृतीयः दोषः अस्ति विना वैरभावेन अन्येषां प्रति क्रूरतापूर्णः व्यवहारः। अयं तृतीयः दोषः अर्थात् क्रूरतापूर्णः व्यवहारः एव भवतः समक्षम् उपस्थितः वर्तते, अपिच भवान् एतत् कार्यं कर्तुम् उत्सुकः अस्ति। तपस्विनां पुरतः सर्वान् राक्षसान् नाशयितुं भवान्  यां प्रतिज्ञाम् अकरोत् तस्यां प्रतिज्ञायाम् अहं दोषं पश्यामि। धनुर्बाणान् गृहीत्वा अस्मिन् वने भवतोः प्रवेशः मया  कल्याणकारी न मन्यते। 

अहम् उचितं न मन्ये यद् यः राक्षसः भवतः कामपि हानिं न अकरोत् तस्य हननं कृत्वा वृथैव भवतः हस्तौ रक्तरञ्जितौ कुर्यात्। मम दृष्ट्या तु एतत् कर्म सर्वथा अनुचितं दोषपूर्णं च वर्तते। 
हे महाबाहो! पुराकाले कस्मिंश्चित् पवित्रे वने कश्चन सत्यवादी ऋषिः निवसति स्म। सः सर्वदा ईश्वरस्य आराधनायां लीनः भवति स्म। तस्य कठोरतपस्यां दृष्ट्वा देवराजः इन्द्रः भीतः सन् तस्य तपस्यां नष्टीकर्तुम् ऐच्छत्। 

एकदा योद्धुः वेषं धृत्वा इन्द्रः ऋषेः आश्रमम् आगत्य विनयपूर्वकं स्वीयं खड्गं ऋषये दत्त्वा अगच्छत्। ऋषिः तं खड्गं तस्य कट्यां बद्ध्वा अस्थापयत्। ऋषेः कट्यां खड्गः बद्धः अस्ति इति कारणतः तस्य प्रभावेण ऋषेः स्वभावः नितराम् उग्रः भवति स्म। तस्य परिणामः एवम् अभवत् यत् सः तपः न्यूनम् आचरति स्म रौद्रकर्म च अधिकं करोति स्म।

 हे स्वामि। शस्त्रस्य अग्नेः च सङ्गतिः एकमेव प्रभावं दर्शयति। भवतः इयं भीषणप्रतिज्ञा अपिच भवतोः उभयोः भ्रात्रोः निरन्तरं धनुर्बानान् गृहीत्वा चलनं भवतोः कृते अमङ्गलं सूचयति। भवता एते निर्दोषराक्षसाः न हन्येरन्, यतः भवता सह तेषां काचिदपि शत्रुता नास्ति।

शत्रुतां विना कस्यापि हननं लोकनिन्दायाः कारणं भवति। अतः हे नाथ! भवानेव चिन्तयतु यद् एकत्र वने तपस्विनाम् अहिंसामयं जीवनम् अपरत्र च शस्त्रसञ्चालनम्! कुत्र तपस्या कुत्र च निरीहप्राणिनां हननम्! एतत् तु परस्परं विरुद्धम् अस्ति। 
भवान् तु वनम् आगत्य तपस्विनः जीवनं स्व्यकरोत् अतः तस्य पालनं करोतु।  

अयमेव सनातननियमः यद् बुद्धिमान् मनुष्यः कष्टं सोढ्वा अपि स्वीयं धर्मम् आचरति। 
अहं नारीसुलभा चपलतायाः कारणात् हि भवते धर्मस्य इमम् उपदेशं ददामि अन्यथा कस्य सामर्थ्यम् अस्ति यद् भवते धर्मस्य उपदेशं दद्यात्।
*-प्रदीपः!*

No comments:

Post a Comment