Thursday, October 17, 2024

Srimad Ramayana Aranya kanda part 2a in sanskrit

Courtesy: Shri.Pradeep nath
*श्रीरामायणकथा, अरण्यकाण्डम्!*
(द्वितीयः सर्गः)
महर्षिः शरभङ्गः। 
(द्वितीयः खण्डः)

रामः अवदत् हे ऋषिमुनयः! भवतां कष्टस्य वृत्तान्तं श्रुत्वा अहम् अत्यन्तं व्यथितः अस्मि। पितुः आज्ञया अहं चतुर्दशवर्षाणां कृते वने वस्तुम् आगच्छामि। भवतां रक्षणार्थम् अहम् एषु दिनेषु समस्तान् राक्षसान् चित्वा चित्वा नाशयितुम् इच्छामि। भवतां पुरतः अहं प्रतिज्ञां करोमि यद् मम बाहुबलेन पृथिव्याः ऋषिद्रोहिणः सर्वान् राक्षसान् हनिष्यामि। भवन्तः मह्यम् आशीर्वादान् ददतु यद् अहम् अस्मिन् उद्देश्ये सफलः भवेयम्।

ऋषिमुनीनां पुरतः राक्षसानां विनाशाय इत्थं प्रतिज्ञां कृत्वा रामचन्द्रः सीतालक्ष्मणाभ्यां सह  मुनेः सुतीक्ष्णस्य आश्रमम् अगच्छत्। तत्र सः अत्यन्तं वृद्धमहात्मनः सुतीक्ष्णस्य चरणस्पर्शं कृत्वा तस्मै स्वपरिचयम् अददात्।
रामस्य परिचयं प्राप्य महर्षिः अत्यन्तं प्रसन्नः अभवत्। सः तेभ्यः समुचितम् आसनं प्रदाय तेषां कुशलक्षेमम् अपृच्छत्, तथा च फलादिभिः तेषां सत्कारम् अकरोत्। ते सर्वे वार्तालापं कुर्वन्ति स्म, तदा हि सूर्यास्तस्य समयः अभवत्। तदा ते सर्वे युगपत् उपविश्य सन्ध्योपासनादिकम् अकुर्वन्। रामः, सीता, लक्ष्मणः च रात्रौ तस्यैव आश्रमे विश्रमम् अकुर्वन्। 

प्रातःकाले रामः अब्रवीत् हे मुनिवर! दण्डकारण्ये निवसताम् ऋषिमुनीनां दर्शनस्य अभिलाषः अस्माकम् अस्ति। अहम् अशृणवं यत् तत्र अनेके ऋषिमुनयः सहस्रवर्षेभ्यः केवलं फलाहारं कृत्वा तपस्यां कुर्वन्तः सिद्धिं प्राप्नुवन्। तादृशानां महात्मनां दर्शनमात्रेण जन्मजन्मान्तरस्य पापं नश्यति। अतः तत्र गन्तुं भवान् अस्मभ्यम् आज्ञां ददातु। 
 
महर्षिः सुतीक्ष्णः तेभ्यः आशीर्वादं प्रदाय प्रेमपूर्वकम् अब्रवीत् हे राम! तव मार्गः मङ्गलमयः भवतु। तत् सत्यमेव यत् तत्रत्याः तपस्विनः महान्तः ज्ञानिनः सन्ति। त्वम् अवश्यं तेषां दर्शनं कुरु। तस्य वनस्य वातावरणमपि तव कृते सर्वथा अनुकूलम् एव। यूयं तस्मिन् वने भ्रमणं कृत्वा स्वीयं वनवासकालं सार्थकं कुरुत।
*-प्रदीपः!*

No comments:

Post a Comment