Wednesday, October 16, 2024

Srimad Ramayana Aranya kanda part 2 in sanskrit

Courtesy: Shri. Pradeep Nath
*श्रीरामायणकथा, अरण्यकाण्डम्!*
(द्वितीयः सर्गः)
महर्षिः शरभङ्गः। 

भयङ्कर-बलशालि-विराधराक्षसस्य वधात् परं  रामः, सीता, लक्ष्मणः च  महर्षेः शरभङ्गस्य आश्रमम् अगच्छन्। महर्षिः शरभङ्गः अत्यन्तं वृद्धः आसीत्। तस्य शरीरं जर्जरम् आसीत्। तं दृष्ट्वा एवं प्रतीयते स्म यत् तस्य मृत्युः निकटे हि अस्ति इति। सीतालक्ष्मणाभ्यां सह रामः महर्षेः चरणस्पर्शम् अकरोत्, स्वपरिचयमपि तस्मै अददात्।

महर्षिः शरभङ्गः तस्य  सत्कारं कुर्वन् अवदत् हे राम! अस्मिन् वने कदाचिद् हि त्वादृशः अतिथिः आगच्छति। स्वशरीरस्य त्यागात् पूर्वम् अहं तव दर्शनं कर्तुम् ऐच्छम् , अतः तव हि प्रतीक्षां कुर्वन् अहम् एतावत् पर्यन्तं मम शरीरं न अत्यजम्। इदानीं तव दर्शनम् अभूत्, अतः इदानीं मम इदं नश्वरं जर्जरशरीरं त्यक्त्वा ब्रह्मलोकं गमिष्यामि। मम शरीरस्य त्यागात् परं त्वम् अस्मिन् वने निवासं कुर्वतः महामुनेः सुतीक्ष्णस्य समीपं गच्छ, सः तव कल्याणं करिष्यति।

एतावद् उक्त्वा महर्षिः विधिवत् अग्निं प्रज्वाल्य तस्मिन् अग्नौ घृतस्य आहुतिं प्रदाय मन्त्रोच्चारं कुर्वन् स्वशरीरम् अग्नये समर्प्य ब्रह्मलोकं प्रति प्रस्थानम् अकरोत्।
महामुनेः शरभङ्गस्य ब्रह्मलोकं प्रति गमनात् परम् आश्रमस्य निकटवर्तिषु कुटीरेषु  निवासं कुर्वाणाः ऋषिमुनयः तत्र आगत्य रामचन्द्रं प्रार्थयन्ते स्म-  हे राघव! भवान् क्षत्रियनरेशः इति कारणतः अस्माकं रक्षणं भवतः कर्तव्यम्। यः अस्माकं रक्षणं करोति सः अस्माकं तपस्यायाः एकचतुर्थांशस्य फलं प्राप्नुयात्। किन्तु दौर्भाग्यं यत् भवादृशधर्मात्मराजनि भवति सत्यपि राक्षसाः अनाथवद् अस्मान् पीडयन्ति, अस्माकं हननमपि कुर्वन्ति। ते राक्षसाः पम्पानदी, मन्दाकिनीनदी, चित्रकूटपर्वतः च इत्येतेषु क्षेत्रेषु भयानकम् उपद्रवं कुर्वन्ति।

तेषाम् उपद्रवकारणात् तपस्विनां कृते न केवलं तपस्या, अपितु जीवनमपि दुष्करम् अभवत्। ते समाधिस्थं तपस्विनं मृत्युमुखे पातयन्ति। अतः हे राम! वयं भवतः शरणम् आगच्छामः। भवान् एतस्मात् असह्यकष्टात् अस्मान् रक्षतु, निर्भयाः भूत्वा च तपः  आचरितुम् अस्मभ्यम् अवसरं ददातु।
*-प्रदीपः!*

No comments:

Post a Comment