*श्रीरामायणकथा, बालकाण्डम्!*
(चतुर्विंशतितमो भागः)
अयोध्यां प्रति आगमनम्।
(द्वितीयः खण्डः)
राजकुमाराः सर्वे राजप्रासादे आनन्दपूर्वकं कालं यापयन्ति स्म। केषाञ्चन दिनानाम् अनन्तरं राजा दशरथः पुत्रं भरतम् आहूय अवदत् वत्स! तव मातुलस्य आगमनस्य बहूनि दिनानि अभवन्। तव मातामहः मातामही च त्वां द्रष्टुम् व्याकुलौ अभवताम्। अतः त्वं केषाञ्चन दिनानां कृते ननिहालं गच्छ।
पितुः आज्ञया भरतः शत्रुघ्नः च मातृभ्यः तथा रामलक्ष्मणाभ्याम् अनुमतिं नीत्वा मातुलेन युधाजितेन सह कैकेयदेशं प्रति प्रस्थानम् अकुरुताम्।
रामः स्वसौम्यस्वभावेन दयालुतया सदाचरणेन च न केवलं प्रासादवासिनः, अपिच समस्त-अयोध्यायाः स्त्रीपुरुषाणां हृदयम् अजयत्।
सः सर्वेषां नेत्रज्योतिः अत्यन्तं लोकप्रियः च अभवत्।
कुटुम्बजनाः तस्य विनयशीलतायाः, मन्त्रिगणः तस्य नीतिनिपुणतायाः, नगरनिवासिनः तस्य शीलस्य, सेवकाः च तस्य उदारतायाः प्रशंसां कर्तुं न सङ्कुचन्ति स्म।
अपरत्र च सीतायाः मधुभाषिस्वभावः, श्रश्रूश्वशुरयोः सेवा, पातिव्रत्यधर्मः च इत्यादयः सद्गुणाः सर्वेषां जनानां मनः हरन्ति स्म। नगरवासिनः सीतारामौ दृष्ट्वा अत्यन्तं प्रसन्नाः भवन्ति स्म। तयोः प्रेम्णः सद्व्यवहारस्य च चर्चा प्रत्येकं गृहेषु भवति स्म।
*श्रीरामायणकथायाः बालकाण्डं समाप्तम्।*
*-प्रदीपः!*
No comments:
Post a Comment