Thursday, February 8, 2024

Srimad Ramayana Balakanda part 24 in sanskrit

*श्रीरामायणकथा, बालकाण्डम्!*
(चतुर्विंशतितमो भागः)
अयोध्यां प्रति आगमनम्।

परशुरामस्य ततः गमनात् परं राजा दशरथः सर्वैः सह अयोध्यां प्रति प्रस्थानम् अकरोत्। ते सर्वे अयोध्यां गच्छन्ति इति सूचनां प्रदातुं 
मन्त्रिणः दूतद्वयं पूर्वं हि अयोध्याम् अप्रेषयन्। तौ दूतौ अयोध्यां गत्वा यदा तस्य सूचनाम् अदत्तां तदा नगरस्य जनाः सर्वे नगरस्य मार्गान् सर्वान् पुष्पैः ध्वजैः च अलङ्कुर्वन्ति स्म।  राजमार्गे महतां सुरम्यद्वाराणां निर्माणम् अकारयन्। मार्गेषु पुष्पाणि प्रसारयन्ति स्म।

अयोध्यायां महान् उल्लासः दृश्यते स्म। विभिन्नप्रकारकाणि वाद्ययन्त्राणि वाद्यन्ते स्म। प्रत्येकं गृहेषु मङ्गलगानम् आरभ्यत। 
वरयात्रिणः नीत्वा राजा दशरथः अयोध्याम् आगच्छति इति ज्ञात्वा  तेषां स्वागताय नगरस्य सुन्दर्यः कुमार्यः वस्त्राभूषणैः सुसज्जिताः भूत्वा धूपं दीपं नीत्वा नगरस्य मुख्यं द्वारम् अगच्छन्। 

महाराजः दशरथः, राजकुमाराः च स्वर्णपुष्पैः सुसज्जितानां गजानाम् उपरि आरूढाः भूत्वा यदा नगरं प्रविशन्ति स्म तदा चतसृषु दिक्षु तेषां जयजयकारः भवति स्म। 
महतीषु अट्टालिकासु स्थिताः महिलाः तेषाम् उपरि पुष्पवर्षणं कुर्वन्ति स्म।  

अयोध्यायाः नववधूः  सीता, उर्मिला, माण्डवी श्रुतकीर्तिः च ताः द्रष्टुम्  अट्टालिकानां गवाक्षान् उद्घाट्य  युवत्यः, कुमार्यः प्रौढाः वृद्धाः च सर्वे सम्मिलिताः अभवन्।
यदा ते राजप्रसादं प्राविशन् तदा राज्ञः दशरथस्य सर्वाः राज्ञ्यः द्वारम् आगत्य धूपदीपधान्यदूर्वादिभिः वधूभ्यः अर्घ्यं दत्त्वा तासां स्वागतम् अकुर्वन्। 

 राज्ञ्यः कौशल्या, कैकेयी, सुमित्रा च नववधूः आलिङ्ग्य ताभ्यः असङ्ख्यहीरकाणि मुक्ताः च अददुः। तत्र उपस्थितेभ्यः याचकेभ्यश्च बहूनि रत्नानि अददुः।  
पुनः मङ्गलाचरणगीतं गायन्त्यः चतुरः पुत्रान् वधूः च भवनस्य अन्तः अनयन्। 
तस्मिन् शुभावसरे राजा दशरथः दानाय कोषस्य द्वारम् उदघाटयत् , नगरवासिभ्यः ब्राह्मणेभ्यश्च मुक्तहस्तेन  भूमिः, स्वर्णम्, मुक्ता, हीरकम्, रत्नम्, गौः, वस्त्रं च इत्यादीनां दानम् अकरोत्। 
*-प्रदीपः!*

No comments:

Post a Comment