*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(प्रथमो भागः)
राजतिलकस्य घोषणा।
(द्वितीयः खण्डः)
राजा दशरथः तदा शीघ्रातिशीघ्रं रामस्य राज्याभिषेकं कारयितुम् इच्छति स्म। सः मन्त्रिणः आहूय अवदत् हे मन्त्रिगण! अहं वृद्धः अभवम्। राज्यं पालयितुं मम सामर्थ्यम् इदानीं नास्ति। रामः अधुना राजसिंहासने उपवेशनाय योग्यः अभवत्। मम प्रबला इच्छा यत् शीघ्रातिशीघ्रं रामस्य राज्याभिषेकं कारयेयम्। मम अस्मिन् विचारे भवताम् अभिमतं ज्ञातुम् अहं भवतः आह्वयम्। कृपया भवन्तः सर्वे स्वीयां स्वीयां सम्मतिं ददतु।
राज्ञः दशरथस्य तं प्रस्तावं सर्वे मन्त्रिणः प्रसन्नतापूर्वकं स्व्यकुर्वन्।
शीघ्रं हि समग्रे राज्ये राजतिलकस्य तिथेः घोषणा अक्रियत, देश-देशान्तरेभ्यः राजानः आगत्य तस्मिन् उत्सवे भागं गृह्णन्तु तदर्थं तेभ्यः निमन्त्रणपत्राणि अदीयन्त।
राजतिलकस्य घोषणायाः परम् अचिरात् हि देश-देशान्तरेभ्यः राजानः, वनवासिनः, ऋषि-मुनयः, अनेके विद्वांसः च तस्मिन् अनुपमे उत्सवे भागं ग्रहीतुम् अयोध्याम् आगत्य एकत्रिताः अभवन्।
आगतानां तेषां सर्वेषाम् अतिथीनां यथोचितः स्वागतसत्कारः अभवत्, समस्तसौविध्येन सह च तेषां वसनाय व्यवस्था अक्रियत।
निमन्त्रणस्य कार्यभारः मन्त्रिणाम् उपरि आसीत्। ते सर्वत्र निमन्त्रणम् अप्रेषयन् परन्तु मिथिलापुरीं महाराजं कैकेयं च विस्मृत्य निमन्त्रणं न अप्रेषयन्।
राजतिलकस्य केवलं दिनद्वयम् अवशिष्टम् आसीत्, तदा तेषां तस्य स्मरणम् अभवत्।
ते अत्यन्तं चिन्तिताः अभवन्, भीताः सन्तः च स्वदोषं महाराजं दशरथम् अज्ञापयन्। तच्छ्रुत्वा महाराजस्य महद् दुःखम् अभवत्, परन्तु तदानीं किमपि कर्तुं न शक्यते स्म। सर्वे अतिथयः आगच्छन्ति स्म, अतः राजतिलकस्य तिथिं परिवर्तयितुं न शक्यते स्म।
अत एव राजा दशरथः अवदत् - इदानीं यद् अभवत् तत्तु अभवदेव, परन्तु एतत् सर्वथा अनुचितम्। अस्तु, ते तु गृहसदस्याः एव। अतः अनन्तरं तान् परिस्थितिम् उक्त्वा बोधयिष्यामि।
*-प्रदीपः!*
No comments:
Post a Comment