Monday, February 5, 2024

Srimad Ramayana Balakanda part 22 in sanskrit

*श्रीरामायणकथा, बालकाण्डम्।*
(द्वाविंशतितमो भागः)
रामभरतलक्ष्मणशत्रुघ्नानां विवाहः। 
(द्वितीयः खण्डः)

राजा जनकः स्वीयां पुत्रीं सीतां रामचन्द्रस्य समीपम् आनीय विनम्रस्वरेण अवदत्  हे रघुकुलतिलक रामचन्द्र! अहं मम पुत्र्याः सीतायाः हस्तं भवतः  सशक्ते हस्ते समर्पयन् इमां कामानां करोमि यद् मम पुत्री भवतः अर्द्धाङ्गिनी भूत्वा सदैव छायावद् भवतः अनुसरणं कुर्यात्।  अतः हे कौशल्याकुमार! भवान् एतां स्वपत्नीरूपेण स्वीकुर्यात्। अद्यारभ्य सा भवतः सुखदुःखयोः सङ्गिनी अभूत्।

एवमुक्त्वा राजा जनकः वेदमन्त्रोच्चारणं कुर्वन् जलं पवित्रं कृत्वा असिञ्चत्। महिलाः मङ्गलगानं कर्तुम् आरभन्त।  मृदङ्गः, दुन्दुभी च इत्यादीनां नानाप्रकारवाद्ययन्त्राणां  सुमधुरः स्वरः गुञ्जति स्म। 
रामसीतयोः विवाहात् परं लक्ष्मणः, भरतः शत्रुघ्नः च इत्येतेषां विवाहः उर्मिला, माण्डवी, श्रुतकीर्तिः च ताभिः कन्याभिः सह वैदिकरीत्या सुसम्पन्नः अभवत्।  

राजा जनक तदा अत्यन्तं स्नेहेन अवदत् हे अयोध्यायाः राजकुमाराः! भवन्तः सर्वे भ्रातरः सूर्यकुलस्य गौरवाः, पराक्रमिणः, धर्मपरायणाः, तेजस्विनः, सौम्याः, विद्वांसः, सदाचारस्य च गुणैः मण्डिताः सन्ति।  जनकपुर्याः अस्य राजकुलस्य हार्द्यः शुभकामनाः सन्ति यद् अस्य राजकुलस्य इमाः चतस्रः कन्याः स्वकीयैः गुणकर्मस्वभावैः भवतां सर्वप्रकार-साहाय्यं कुर्युः। 

ततः परम् ऋषेः वसिष्ठस्य आज्ञया ते चत्वारः राजकुमाराः स्वीयां स्वीयां नवविवाहितपत्नीं नीत्वा अग्नेः प्रदक्षिणम् अकुर्वन्। 
विवाहसम्पन्नात् परं महाराजः दशरथः समस्तमन्त्रिभिः, ऋषि-मुनिभिः, सपत्नीकैः राजकुमारैः च सह विश्रमाय अगच्छत्।  जनकपुर्यां रात्रौ विश्रमं कृत्वा प्रातःकाले ऋषिः विश्वामित्रः तत्रत्यानां सर्वेषाम् अनुमतिं नीत्वा उत्तराखण्डं प्रति प्रस्थानम् अकरोत्।

महाराजः जनकः विवाहे यौतुकरूपेण दासः, दासी, गजः, अश्वः, गौः, रत्नम्, आभूषणम्, वस्त्रम्, पात्रं च इत्यादीनि नानाप्रकारकाणि वस्तूनि अददात्।
राजा दशरथः यदा तैः सर्वैः सह अयोध्यां प्रति प्रस्थानम् अकरोत् तदा राजा जनकः स्वयं तेषाम् अभिवादनाय नगरस्य मुख्यं द्वारं गत्वा हस्तौ योजयित्वा नम्रस्वरेण अभवत् हे राजन्! मां भवदीयं दासं मत्वा ममोपरि कृपां कुर्यात्।

 अहं पुनः एकवारं कृतज्ञतापूर्वकं वक्तुम् इच्छामि यद् भवान् मम कुलेन सह सम्बन्धं स्थापयित्वा मां  गौरवान्वितम् अकरोत्। मम पुत्र्यः भवतः आज्ञाकारिण्यः भूत्वा उभयोः कुलयोः गौरवं वर्धयेयुः इत्यहं कामये।
पुनः राज्ञः जनकस्य भ्राता कुशध्वजः अश्रुपूर्णनेत्राभ्यां चतसृभिः कन्याभिः आशीर्वादान् अददात्।
*-प्रदीपः।*

No comments:

Post a Comment