*श्रीरामायणकथा, बालकाण्डम्।*
(द्वाविंशतितमो भागः)
रामभरतलक्ष्मणशत्रुघ्नानां विवाहः।
दानादिकं कर्म समाप्य महाराजः दशरथः मिथिलेशस्य राजभवनं गन्तुं सज्जः भवति स्म। तदानीं हि भरतस्य मातुलः अर्थात् राज्ञः कैकेयस्य पुत्रः युधाजितः तत्र आगच्छत्। अभिवादनात् परं कुशलवार्तां ज्ञात्वा औपचारिकतायाः परं सः कैकेयनरेशस्य सन्देशं यच्छन् अवदत् महाराज! मम पिता भरतं द्रष्टुम् अत्यन्तं व्याकुलः अभवत्। अतः कृपया केषाञ्चन दिनानां कृते भवान् भरतं मया सह ननिहालं प्रेषयतु।
एतं सन्देशं नीत्वा अहम् अयोध्याम् अगच्छम्, परन्तु तत्र गत्वा मया ज्ञातं यद् भवान् जनकपुर्याम् भरतेन सह अस्ति, अतः अहमपि अत्र आगच्छम्।
महारजः दशरथः युधाजितस्य समुचितं सत्कारं कृत्वा तं सर्वं वृत्तान्तम् अश्रावयत्। पुनश्च तं नीत्वा ऋषिमन्त्रिबन्धु-बान्धवैः सह यज्ञशालायाः द्वारम् अगच्छत्। किञ्चित् कालानन्तरं नानाप्रकारकानि आभूषणानि धृत्वा रामचन्द्रः भ्रातृभिः सह तत्र पितुः दशरथस्य समीपम् आगत्य अतिष्ठत्। गुरुः वशिष्ठः राज्ञः जनकस्य समीपं गत्वा अवदत् हे विदेहराज! महाराजः दशरथः स्वपुत्रैः सह राजभवनस्य अन्तः आगन्तुम् अनुमतिं याचते।
महाराजः जनकः तदा अवदत् हे महर्षे! एवं प्रकारेण अनुमतिं याचित्वा सः मां लज्जितं किमर्थं करोति? सः न केवलम् अयोध्यायाः अपितु मिथिलापुर्याः अपि स्वामी अस्ति। अहं च तस्य अकिञ्चनः दासः अस्मि। किं कदापि स्वामी स्वीयं सेवकम् आज्ञां याचते? हे महर्षे! तं कथयतु यत् चतस्रः कन्याः विवाहवेद्यां प्रतीक्षां कुर्वन्ति। सः निःसङ्कोचः सन् अन्तः पदार्पणं कुर्यात्। शुभलग्नस्य समयोऽपि भवति इदानीम्। अस्तु, अहं स्वयं गत्वा तं सादरम् आनयामि।
एवमुक्त्वा राजा जनकः स्वयं गत्वा राज्ञा दशरथेन सह तान् सर्वान् यज्ञस्थलम् आनयत्। सर्वेभ्यो यथोचितं आसनं प्रदाय राजा जनकः तेषां पूजाम् अकरोत्। पुनः ऋषिं वसिष्ठम् अवदत् हे ब्रह्मर्षे! भवान् हि तैः ऋषि-मुनिभिः सह स्थित्वा विवाहकार्यं सुसम्पन्नं कारयतु, यतः भवादृशः अन्यः योग्यपुरोहितः कः भवितुम् अर्हेत्।
गुरुः वशिष्ठः, महर्षिः विश्वामित्रः मिथिलायाः राजपुरोहितः शतानन्दः च विवाहकार्यं सम्पन्नं कारयितुम् आरभन्त।
सर्वप्रथमं वैदिकविधिना विवाहं कारयितुं वेद्याः निर्माणम् अकारयन्। पुनः विविधप्रकारकैः सुगन्धयुक्तपुष्पैः सा वेदी अलङ्कृता अवर्तत। अनतिदूरे तां वेदीं परितः चतस्रः पुष्पधान्यः स्थापिताः आसन् तासु पुष्पधानीषु सुगन्धितानि पुष्पाणि स्थापितानि आसन्। वेद्याः समीपे केषुचित् स्थानेषु स्वर्णपात्राणि स्थापितानि आसन्, तेषु पात्रेषु धूपः, केशरः, नैवेद्यम्, अक्षतः, घृतम्, दधि, मधुः च इत्यादीनि वस्तूनि आसन्।
यज्ञसम्पन्नं कुर्वाणानां महानुभावानां कृते कुशासनानि प्रसृतानि आसन्।
गुरुः वशिष्ठः अन्ये च महर्षयः वेदमन्त्रोच्चारणं कुर्वन्तः यज्ञकुण्डे अग्निम् अज्वालयन्। पुनः ऋषेः वसिष्ठस्य आदेशेन राजप्रासादस्य महिलाः जनककुमारीं सीतां यज्ञवेद्याः समीपम् आनयन्।
तस्मिन् समये सीतायाः मुखमण्डलं प्रातःकालीनसूर्यवद् अतीव सुन्दरं देदीप्यमानम् आसीत्। तस्याः सर्वं शरीरं बहुमूल्यरत्नैः आभूषणैः च अलङ्कृतम् आसीत्। संक्षेपेण एवं वक्तुं शक्यते यत् सीतायाः रूपस्य अपेक्षया कोटिशः रतीनां रूपमपि नगण्यं प्रतीयते स्म। परन्तु सीता तस्याः सौन्दर्यविषये किमपि न जानाति स्म, सा च दृष्टिम् अवनमय्य केवलं पृथिवीं पश्यति स्म।
*-प्रदीपः!*
No comments:
Post a Comment