*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(चतुर्थो भागः)
कैकेयीद्वारा वरप्राप्तिः।
उल्लासितः महाराजः दशरथः शीघ्रातिशीघ्रं सर्वं राजकार्यं समपादयत् , रामस्य राज्याभिषेकस्य शुभसंवादं श्रावयितुं च सः तस्य सर्वाधिक-प्रियराज्ञ्याः कैकेय्याः प्रासादम् अगच्छत्।प्रासादे कैकेयीं न प्राप्य राजा दशरथः तस्याः विषये दासीम् अपृच्छत्। दास्याः मुखात् राजा अजानात् यद् राज्ञी कैकेयी रुष्टा भूत्वा कोपभवनम् अगच्छत्।
महाराजः चिन्तितः अभवत्। सः कोपभवनं गत्वा अपश्यत् प्राणप्रिया राज्ञी कैकेयी मलिनं वस्त्रं धरन्ती भूमौ शेते। तस्याः केशाः विकीर्णाः आसन्। तस्याः अवस्थां दृष्ट्वा आश्चर्यचकितः राजा दशरथः अपृच्छत् हे प्राणेश्वरि! मया किम् अनिष्टं कृतं यस्मात् त्वं रुष्टा भूत्वा कोपभवनम् आगच्छः। तव दुःखस्य कारणं किम् इति मां वद, अहं निश्चयेन तस्य निवारणं करिष्यामि।
महाराजस्य तादृशं वचनं श्रुत्वा राज्ञी कैकेयी अवदत् हे प्रणनाथ! मम कश्चन अभिलाषः अस्ति। यदि भवान् मम अभिलाषं पूरयितुं पूर्वं शपथपूर्वकं प्रतिज्ञां कुर्यात् तर्हि तद्विषये अहं भवन्तं वदेयम्।
महाराजः दशरथः हसन् अवदत् हे प्रिये! केवलं तदर्थं हि त्वं कोपभवनम् आगच्छसि? मां वद, तव कः अभिलाषः, अहम् अनुक्षणं हि तं पूरयिष्यामि।
तदा कैकेयी अवदत् महाराज! भवान् पूर्वं प्रतिज्ञां करोतु यद् भवान् मम अभिलाषम् अवश्यं पूरयिष्यति।
राज्ञ्याः कैकेय्याः तद् वचनं श्रुत्वा राजा दशरथः अवदत् हे प्राणप्रिये! अस्मिन् संसारे रामात् अधिकः प्रियः मम अन्यः कश्चिदपि नास्ति। अहं रामस्य शपथं कृत्वा वदामि यद् तव यः अभिलाषः अस्ति तम् अभिलाषम् अहं निश्चयेन पूरयिष्यामि।
महाराजस्य शपथग्रहणात् आश्वस्ता राज्ञी कैकेयी अवदत् हे प्राणनाथ! भवतः स्मरणे अस्ति एव यद् देवासुरसङ्ग्रामे यदा भवान् मूर्च्छितः अभवत् तदा अहं भवतः रक्षणम् अकरवम्। तस्मात् भवान् प्रसन्नः भूत्वा मह्यं वरद्वयं प्रदातुं प्रतिज्ञाम् अकरोत्।
इदानीं तद् वरद्वयं याचितुम् इच्छामि। प्रथमं वरम् एवं भवेत् यद् रामस्य स्थाने मम पत्रस्य भरतस्य राज्याभिषेकः भवतु, द्वितीयं वरं च एवं भवेत् यत् चतुर्दशानां वर्षाणां कृते रामस्य वनवासः भवतु इत्यस्य आज्ञां ददातु। मम इच्छा अस्ति यद् अद्य हि रामः वल्कलं धृत्वा वनं प्रति प्रस्थानं कुर्यात्।
इदानीं भवान् स्वीयां प्रतिज्ञां पूरयेत् यतः भवान् सूर्यवंशी अस्ति। सूर्यवंशिनः तु स्वीयान् प्राणान् त्यक्त्वा अपि स्वप्रतिज्ञायाः पालनं कुर्वन्ति।
कैकेय्याः वचनं श्रुत्वा राज्ञः दशरथस्य हृदयं विदीर्णम् अभवत्। तस्य महती पीडा अभवत्, सः च मूर्छितः भूत्वा भूमौ अपतत्। किञ्चित् कालानन्तरं यदा सः चेतनां प्राप्नोत् तदा सः कुपितः अभवत्, वेदनया च कम्पमानः सन् अवदत् रे कुलघातिनि! न जाने मया कः अपराधः कृतः यस्य त्वम् एतावन्तं भयङ्करं प्रतिशोधम् अनयत्। हे पतिते! रामः तु कौशल्यायाः अपेक्षया त्वयि अधिकां श्रद्धां करोति। पुनः त्वं रामस्य जीवनं नष्टीकर्तुं कटिबद्धा अभवः!
*-प्रदीपः।*
No comments:
Post a Comment